प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.7.21.1 TS 5.7.21.1
अ॒ग्नेः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिः॒ सोम॑स्य तृ॒तीया॒ऽपां च॑तु॒र्थ्योष॑धीनां पञ्च॒मी सं॑ॅवथ्स॒रस्य॑ ष॒ष्ठी म॒रुताꣳ॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षां दे॒वानां᳚ द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं ॅय॒मस्य॑ पाटू॒रः ॥
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । प॒क्ष॒तिः । सर॑स्वत्यै । निप॑क्षति॒रिति॒ नि-प॒क्ष॒तिः॒ । सोम॑स्य । तृ॒तीया᳚ । अ॒पाम् । च॒तु॒र्थी । ओष॑धीनाम् । प॒ञ्च॒मी । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । ष॒ष्ठी । म॒रुता᳚म् । स॒प्त॒मी । बृह॒स्पतेः᳚ । अ॒ष्ट॒मी । मि॒त्रस्य॑ । न॒व॒मी । वरु॑णस्य । द॒श॒मी । इन्द्र॑स्य । ए॒का॒द॒शी । विश्वे॑षाम् । दे॒वाना᳚म् । द्वा॒द॒शी । द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚-पृ॒थि॒व्योः । पा॒र्श्वम् । य॒मस्य॑ । पा॒टू॒रः ॥
पदसंख्या: 29

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्नेः पक्षतिः पक्षमूलं पक्षतिः पार्श्ववङ्क्रीणां प्रथमः पक्षतिः । सरस्वत्यै निपक्षतिः निकृष्टा पक्षतिः द्वितीया वङ्क्रीः । एवं तृतीयादयस्सोमादीनाम् । द्याव्यापृयिव्योः पार्श्वम् । 'पर्शोर्णस्वक्तव्यः' इति णसि 'सिति च' इति पदत्वादोर्गुणाभावः । पर्शवः पार्श्ववङ्क्रयः । 'देवताद्वन्द्वे च' इति द्यावापृथिवीशब्द आद्युदात्तः, 'नोत्तरपदे' इति प्रतिषेधे पृथिव्यादिपर्युदासात् 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । यमस्य पाटूरः सर्वपशुविधारणोस्थिविशेषः ॥
इति पञ्चमे सप्तमे एकविंशोनुवाकः ॥