निशाचरेन्द्रस्य निशम्य वाक्यम् । स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्य । मुवाच वाक्यम् हितम्र्थयुक्तम् ॥१॥
चतुर्दशः सर्गः 6.14
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
वृतो हि बाह्वन्तरभोगराशि । श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः । पञ्चाङ्गुलीपञ्चशिरोऽतिकायः । सीतामहाहिस्तव केन राजन् ॥२॥
यावन्न लङ्का समभिद्रवन्ति । वलीमुखाः पर्वतकूटमात्राः । दम्ष्ट्रयुधाश्चैव नखायुधाश्च । प्रदीयताम् दाशरथाय मैथिली ॥३॥
यावन्न गृह्णन्ति शिरांसि बाणा । रामेरिता राक्षसपुङ्गवानाम् । वज्रोपमा वायुसमानवेगाः । प्रदीयताम् दाशरथाय मैथिली ॥४॥
न कुम्भकर्णेन्द्रजितौ च राजम् । स्तथा महापार्श्वमहोदरौ वा । निकुम्भकुम्भौ च तथातिकायः । स्थातुम् समर्था युधि राघवस्य ॥५॥
जीवंस्तु रामस्य न मोक्स्यसे त्वम् । गुप्तः सवित्राप्यथवा मरुद्भिः । न वासवस्याङ्कगतो न मृत्यो । र्नभो न पातालमनुप्रविष्टः ॥६॥
निशम्य वाक्यम् तु विभीषणस्य । ततः प्रहस्तो वचनम् बभाषे । न नो भयम् विद्म न दैवतेभ्यो । न दानवेभ्योऽप्यथवा कदाचित् ॥७॥
न यक्षगन्धर्वमहोरगेभ्यो । भयम् न सम्ख्ये पतगोरगेभ्यः । कथम् नु रामाद्भविता भयम् नो । नरेन्द्रपुत्रात्समरे कदाचित् ॥८॥
प्रहस्तवाक्यम् त्वहितम् निशम्य । विभीषणो राजहितानुकाङिक्षी । ततो महार्थम् वचनम् बभाषे । धर्मार्थकामेषु निविष्टबुद्धिः ॥९॥
प्रहस्त राजा च महोदरश्च । त्वम् कुम्भकर्णश्च यथार्थजातम् । ब्रवीत रामम् प्रति तन्न शक्यम् । यथा गतिः स्वर्गमधर्मबुद्धेः ॥१०॥
वधस्तु रामस्य मया त्वया च । प्रहस्त सर्वैरपि राक्षसैर्वा । कथम् भवेदर्थविशारदस्य । महार्णवम् तर्तु मिवाप्लवस्य ॥११॥
धर्मप्रधानस्य महारथस्य । इक्स्वाकुवंशप्रभवस्य राज्ञः । पुरोऽस्य देवाश्च तथाविधस्य । कृत्येषु शक्तस्य भवन्ति मूढाः ॥१२॥
तीक्षणा न तावत्तव कङ्कपत्रा । दुरापदा राघवविप्रमुक्ताः । भित्त्वाशरीरम् प्रविशन्ति बाणाः । प्रहस्त तेनैव विकत्थसे त्वम् ॥१३॥
भित्त्वा न तावत्प्रविशन्ति कायम् । प्राणान्तकास्तेऽशनितुल्य्वेगाः । शिताः शरा राघवविप्रमुक्ताः । प्रहस्त तेनैव विकत्थसे त्वम् ॥१४॥
न रावणो नाइबलस्त्रीशीर्षो । न कुम्भकर्णस्य सुतो निकुभः । न चेन्द्रजिद्दाशरथिम् प्रसोढुम् । त्वम् वा रणे शक्रसमम् समर्थः ॥१५॥
देवान्तको वापि नरान्तको वा । तथातिकायोऽतिरथो महात्मा । अकम्पननश्चाद्रिसमानसारः । स्थातुम् न शक्ता युधि राघवस्य ॥१६॥
अयम् च राजा न्यसनाभिभूतो । मित्रैरमित्रप्रतिमैर्भवद्भिः । अन्वास्यते राक्षसनाशनार्थे । तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥१७॥
अनन्तभोगेन सहस्रमूर्ध्ना । वागेन भीमेन महाबलेन । बलात्परिक्षिप्तमिमम् भवन्तो । राजानमुत्क्षिप्य विमोचयन्तु ॥१८॥
यावद्धि केशग्रहणात्सुहृद्भिः । समेत्य सर्वैः परिपूर्णकामैः । निगृह्य राजा परिरक्षितव्यो । भूतैर्यथा भीमबलैर्गृहीअः ॥१९॥
सुवारिणा राघवसागरेण । प्रच्चाद्यमानस्तरसा भवद्भिः । प्रच्चाद्यमानस्तरसा भवद्भिः । युक्तस्त्वयम् तारयितुम् समेत्य । काकुत्थ्सपातालमुखे पतन्सः ॥२०॥
इदम् पुरस्यास्य सराक्षसस्य । राज्ञश्च पथ्यम् ससुहृज्जनस्य । सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि । नरेन्द्रपुत्राय ददातु मैथिलीम् ॥२१॥
परस्य वीर्यम् स्वबलम् च बुद्ध्वा । स्थानम् क्षयम् चैव तथैव वृद्धिम् । तथा स्वपक्षे प्यनुमृश्य बुद्ध्या । वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥२२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुर्दशः सर्गः ॥