पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
[अथ तृतीयाष्टके द्वितीयप्रपाठके चतुर्थोऽनुवाकः] ।
अदाभ्यांशुग्रहार्थास्तु मन्त्राः प्रोक्तास्तृतयिके ।
तत्र मान्दास्वित्यादिमन्त्राणां तात्पर्यं दर्शयति —
एतद्वा अपामिति । एतदेव मान्दा इत्यादिपदजातमपां गोप्यं नामधेयं, लोके प्रसिद्ध्यभावाद्वैदिकमन्त्र एव प्रतीयमानतया गोप्यत्वम् ।आधूयन्ते सर्वतः कम्प्यन्त आपो यैर्मान्दादिमन्त्रैस्ते मन्त्रा आधावाः । त एतं आधावा इति यदेतदेव गुह्यं नामेति पूर्वत्रान्वयः । तस्मादभिमानिदेवतानां प्रीत्यै मान्दादिमन्त्रान्पठेत् । ततो गुह्येन नामधेयेन देवताः परितोष्य दिवः सकाशाद्वृष्टिं संपादयति ।
ग्रहणमन्त्रे त्वह्रो रूपेण सूर्यस्य रश्मिभिरित्यमुमंशं व्याचष्टे —
शुक्रं त इति । रात्रिरिति यदेतदेवाह्नो रूपमहर्निरूप्यते येन तदह्नो रूपं निरूपकमित्यर्थः । एतावदहर्नातोऽधिकमित्यह्न इयत्ता रात्र्या निरूप्यते । सेयं रात्रिः सूर्यस्य रश्मयश्च वृष्टिस्वामिभूताः । न खलु रात्रिरूपं सूर्यरश्मियुक्तं च कालं मुक्त्वा वृष्टेरन्यः कालोऽस्ति । तस्मादेतं मन्त्रभागं पठन्नह्नो निरूपकेण
रात्रिलक्षणेन कालेन सूर्यस्य रश्मिभिर्युक्तेन च कालेन दिवः सकाशाद्वृष्टिं भूमौ पातयति । पात्रादानमन्त्रस्य स्पष्टार्थतां दर्शयति —
आऽस्मिन्नुग्रा इति । हरणमन्त्रे प्रधानरूपवाचिभ्यां ककुहं रूपोमिति पदाभ्यां वृष्टिर्विवक्षितेति दर्शयति-
ककुहमिति । होममन्त्रे सोमायेति देवतामुद्दिश्य दधिद्रव्यहवने तात्पर्यं दर्शयति —
यत्ते सोमेति । यो यजमानोऽदाभ्यनामकं दधिग्रहं गृहीत्वा सोमाय देवाय जुहोति एव एव यजमानो हविषा दध्ना हविःस्वरूपं देवमुद्दिश्य यजतीत्युक्तम् ।
हिरण्यस्योपरि श्वासमन्त्रे प्राणशब्देनाऽऽयुर्विवक्षितमित्येवं दर्शयति —
परा वा इति । यो यजमानोऽशुनामकं सोमरसं पात्रे गृह्णात्येतस्याऽऽयुः प्राणः परैति गच्छत्यतो मन्त्रेणाऽऽयुष्प्रदं प्राणमात्मन्येव स्थापयति ।
हिरण्यस्योपरि श्वासविशेषं विधत्ते —
अमृतमसीति । श्वासवायोर्बहिः परित्यागः प्राणनमन्तराकर्षणमपाननं माध्यस्थेन धारणं व्यानम् । ‘अथ यः प्राणापानयोः संधिः स व्यानः” इति श्रुत्यन्तरात् । हिरण्यस्योपरि व्याननेन स्वात्मन्यायुर्धारयति ।
हिरण्यस्याऽऽयुष्परिमाणं विधत्ते —
शतमानमिति । इन्द्राग्नी इति मन्त्रेण यदु (उ) दकस्पर्शस्तमिमं विधत्ते —
अप उपस्पृशतीति । आपो वै शान्ता इत्यन्यत्रः श्रुतत्वादपां भेषजत्वम् । एतेऽदाभ्यांशुग्रहमन्त्रा आददे ग्रावेत्यनुवाकात्पूर्वं द्रष्टव्याः ।
अत्र मीमांसा ।
द्वितीयाध्यायस्य तृतीयपादे चिन्तितम् —
यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम् ।
तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः ॥
ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः ।
गुणोऽतस्तस्य वाक्येन ज्योतिष्टोमाभिगामिता ॥
अनारभ्य श्रूयते-अदाभ्यं गृहीत्वा सोमाय यजर्तेऽशुं गृह्णातीति च । तत्रादाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नमको यागो यजत इत्याख्यातेन विधीयते । अंशुमित्यत्र यजतेरश्रवणेऽपि नामविशेषबलादेवापूर्वयागविधिः । न चात्र द्रव्यदेवतयोरभावः, ग्रहणालिङ्गेन ज्योतिष्टोमाविकृतित्वावगतो तदीयविध्यन्तातिदेशेन तत्सिद्धेरिति प्राप्ते ब्रूम – भवत्वदाभ्यांशुशब्दयोर्नामत्वम् । ते च नामनी ग्रहयोरेव स्यातां न तु यागयोर्गृहीत्वेति शब्दस्यानन्तरमेव पाठात् । यजतिस्तु व्यवहितस्तादृशोऽपि यजिरंशुवाक्ये नास्ति । तस्माद्ग्रहयोरत्र विधिः । ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुण ऐन्द्रवायवादिग्रहणसमानरूपत्वात् । यद्यप्यप्रकृतो ज्योतिष्टोमस्तथाऽपि तत्संबन्धिग्रहणद्वारा वाक्याज्ज्योतिष्टोमगामित्वम् । अत एव सोमार्थमदाभ्यं गृहीत्वेति निर्दिश्यते । अथवा तैत्तिरीयाणां षष्ठकाण्डस्य षष्ठप्रपाठके प्राकरणिकं विनियोजकं वाक्ये द्रष्ठव्यम् । तस्माज्ज्योतिष्टोमे गुणविधिः ।
तृतीयाध्यायस्य षष्ठे पादे चिन्तितम् —
ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वये नहि ।
विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः ॥
अनारभ्य द्वौ ग्रहौ श्रुतावंशु गृह्णातीति । अदाभ्यं गृहीत्वेति च । तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्तेऽनारभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वादिति चेन्मैवम् । ग्रहाः साद्यन्तं इत्यादिवाक्येन ग्रहधर्मत्वापगमे तयोरपि ग्रहयोरनिवार्यत्वात् । न चैन्द्रवायवादयः प्रकरणिनो ज्योतिष्टोमो हि प्रकरणी । तस्मात्सान्ति तयोर्धर्माः ॥
द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥४ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
'अथैतेषां मन्त्राणां ब्राह्मणम् - एतद्वा इत्यादि ॥ सामान्य विवक्षया एकवचनम् । अपामेतानि गुह्यानि गोपनीयानि यदाधावानां मान्दादीनि द्वादशानामाधावानाम् । यथोक्तमाचार्येण - 'द्वादशभिराधावैराधावनामकैराधूनोति' इति । तस्मादेतैर्नामभिराधावने क्रियमाणे आपस्तृप्ता दिवो वृष्टिमुत्पादयन्ति; सर्वस्थितिहेतुत्वादस्य ॥