अनुवाकः 5 TS 3.3.5

(A5)

(व्यो॑मन ऋ॒तस्य॑ - प्रा॒णः - प॒शुने॒व - विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॒ -षट्च॑त्वारिꣳशच्च)

अनुवाकः 5 - Complete Audio

TS 3.3.5 - स्वरानुगामी

0:00 0:00
PS1.1 वा॒युर॑सि प्रा॒णो नाम॑ सवि॒तुराधि॑पत्येऽपा॒नं
PS1.2 मे॑ दा॒श्चक्षु॑रसि॒ श्रोत्रं॒ नाम॑
PS1.3 धा॒तुराधि॑पत्य॒ आयु॑र्मे दा रू॒पम॑सि॒
PS1.4 वर्णो॒ नाम॒ बृह॒स्पते॒राधि॑पत्ये प्र॒जां
PS1.5 मे॑ दा ऋ॒तम॑सि स॒त्यं
PS1.6 नामेन्द्र॒स्याऽऽ*धि॑पत्ये क्ष॒त्रं मे॑ दा
PS1.7 भू॒तम॑सि॒ भव्यं॒ नाम॑ पितृ॒णामाधि॑पत्ये॒ऽपा-मोष॑धीनां॒
PS1.8 गर्भं॑ धा ऋ॒तस्य॑ त्वा॒
PS1.9 व्यो॑मन ऋ॒तस्य॑
PS2.1 त्वा॒ विभू॑मन ऋ॒तस्य॑ त्वा॒
PS2.2 विध॑र्मण ऋ॒तस्य॑ त्वा स॒त्याय॒र्तस्य॑
PS2.3 त्वा॒ ज्योति॑षे प्र॒जाप॑ति र्वि॒राज॑मपश्य॒त्
PS2.4 तया॑ भू॒तं च॒ भव्यं॑
PS2.5 चा सृजत॒ तामृषि॑भ्यस्ति॒रो॑ऽदधा॒त् तां
PS2.6 ज॒मद॑ग्नि॒स्तप॑साऽ पश्य॒त् तया॒ वै
PS2.7 स पृश्ञी॒न् कामा॑नसृजत॒ तत्
PS2.8 पृश्ञी॑नां पृश्ञि॒त्वं ॅयत् पृश्ञ॑यो
PS2.9 गृ॒ह्यन्ते॒ पृश्ञी॑ने॒व तैः कामा॒न्॒.
PS2.10 यज॑मा॒नोऽव॑ रुन्धे वा॒युर॑सि प्रा॒णो
PS3.1 नामेत्या॑ह प्राणापा॒नावे॒वाव॑ रुन्धे॒ चक्षु॑रसि॒
PS3.2 श्रोत्रं॒ नामेत्या॒हाऽऽयु॑रे॒वाव॑ रुन्धे रू॒पम॑सि॒
PS3.3 वर्णो॒ नामेत्या॑ह प्र॒जामे॒वाव॑ रुन्धऋ॒तम॑सि
PS3.4 स॒त्यं नामेत्या॑ह क्ष॒त्रमे॒वाव॑ रुन्धे
PS3.5 भू॒तम॑सि॒ भव्यं॒ नामेत्या॑ह प॒शवो॒
PS3.6 वा अ॒पामोष॑धीनां॒ गर्भः॑ प॒शूने॒वा
PS4.1 -व॑ रुन्ध ए॒ताव॒द्वै पुरु॑षं
PS4.2 प॒रित॒स्तदे॒वाव॑ रुन्ध ऋ॒तस्य॑ त्वा॒
PS4.3 व्यो॑मन॒ इत्या॑हे॒यं ॅवा ऋ॒तस्य॒
PS4.4 व्यो॑मे॒मामे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विभू॑मन॒
PS4.5 इत्या॑हा॒ऽन्तरि॑क्षं॒ ॅवा ऋ॒तस्य॒ विभू॑मा॒न्तरि॑क्षमे॒वाभि
PS4.6 ज॑यत्यृ॒तस्य॑ त्वा॒ विध॑र्मण॒ इत्या॑ह॒
PS4.7 द्यौर्वा ऋ॒तस्य॒ विध॑र्म॒ दिव॑मे॒वाभि
PS4.8 ज॑यत्यृ॒तस्य॑
PS5.1 त्वा स॒त्यायेत्या॑ह॒ दिशो॒ वा
PS5.2 ऋ॒तस्य॑ स॒त्यं दिश॑ ए॒वाभि
PS5.3 ज॑यत्यृ॒तस्य॑ त्वा॒ ज्योति॑ष॒ इत्या॑ह
PS5.4 सुव॒र्गो वै लो॒क ऋ॒तस्य॒
PS5.5 ज्योतिः॑ सुव॒र्गमे॒व लो॒कम॒भि ज॑यत्ये॒ताव॑न्तो॒
PS5.6 वै दे॑वलो॒कास्ताने॒वाभि ज॑यति॒ दश॒
PS5.7 संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड्
PS5.8 वि॒राज्ये॒वान्नाद्ये॒ प्रति॑तिष्ठति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.3.5.1 TS 3.3.5.1
वा॒युर॑सि प्रा॒णो नाम॑ सवि॒तुराधि॑पत्येऽपा॒नं मे॑ दा॒श्चक्षु॑रसि॒ श्रोत्रं॒ नाम॑ धा॒तुराधि॑पत्य॒ आयु॑र्मे दा रू॒पम॑सि॒ वर्णो॒ नाम॒ बृह॒स्पते॒राधि॑पत्ये प्र॒जां मे॑ दा ऋ॒तम॑सि स॒त्यं नामेन्द्र॒स्याऽऽ*धि॑पत्ये क्ष॒त्रं मे॑ दा भू॒तम॑सि॒ भव्यं॒ नाम॑ पितृ॒णामाधि॑पत्ये॒ऽपा-मोष॑धीनां॒ गर्भं॑ धा ऋ॒तस्य॑ त्वा॒ व्यो॑मन ऋ॒तस्य॑ - [ ]
▶ पदपाठः (Word-by-word)
वा॒युः । अ॒सि॒ । प्रा॒ण इति॑ प्र - अ॒नः । नाम॑ । स॒वि॒तुः । आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ । अ॒पा॒नमित्य॑प - अ॒नम् । मे॒ । दाः॒ । चक्षुः॑ । अ॒सि॒ । श्रोत्र᳚म् । नाम॑ । धा॒तुः । आधि॑पत्य॒ इत्याधि॑-प॒त्ये॒ । आयुः॑ । मे॒ । दाः॒ । रू॒पम् । अ॒सि॒ । वर्णः॑ । नाम॑ । बृह॒स्पतेः᳚ । आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ । प्र॒जामिति॑ प्र-जाम् । मे॒ । दाः॒ । ऋ॒तम् । अ॒सि॒ । स॒त्यम् । नाम॑ । इन्द्र॑स्य । आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ । क्ष॒त्रम् । मे॒ । दाः॒ । भू॒तम् । अ॒सि॒ । भव्य᳚म् । नाम॑ । पि॒तृ॒णाम् । आधि॑पत्य॒ इत्याधि॑ - प॒त्ये॒ । अ॒पाम् । ओष॑धीनाम् । गर्भ᳚म् । धाः॒ । ऋ॒तस्य॑ । त्वा॒ । व्यो॑मन॒ इति॒ वि - ओ॒म॒ने॒ । ऋ॒तस्य॑ ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

[अथ तृतीयाकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः]

चतुर्थेऽशोरदाभ्यस्य मन्त्रव्याख्यानमीरितम् ।

अथ पञ्चमोऽग्निष्टोमेशेषं परित्यज्य विकृतिरूपस्य द्वादशाहस्य शेषाः पृश्नीग्रहा उच्यन्ते ।

कल्पः — “प्राकृतं यजुर्मानमनुद्रुत्य वायुरसि प्राणो नामेति दशभिः पृश्नीग्रहाणां मन्त्रैर्दश मानानि मिमीते” इति ।

इन्द्राय त्वा वृत्रघ्न इत्यादीनि यजूंषि सोमोन्मानकरणानि । तदेतद्यजुर्जातमुच्यार्य वायुरसीत्यादिभिर्मन्त्रैः सोमस्योन्मानं कुर्यात् । पाठस्तु —

वायुरसि प्राण इति । हे सोम त्वं यजमानेन पीतः सञ्शरीरमध्ये धारंणादिना वायोराप्यायनकारित्वाद्वायुरसि सामान्याकारेण वायुर्भूत्वा विशेषाकारेण प्राणो नामासि । बहिर्निर्गमनशीलस्त्वमुच्छ्वासरूपोऽसि । तादृशस्त्वं सवितुः प्ररेकस्य परमेश्वरस्याऽऽधिपत्ये स्थित्वा मे मह्यमपानमन्तःप्रवेशवन्तं वायुविशेषं दा देहि । तथा चक्षुः श्रोत्रयोरप्यायनकारित्वात्तदुभयरूपोऽसि । अतो धातुर्देहोन्द्रियादिस्त्रष्टुराधिपत्ये स्थित्वा मह्यमायुर्देहि । तथा शरीरावयवसौष्ठवलक्षणस्य रूपस्य कान्तिलक्षणस्य वर्णस्य च हेतुत्वात्तदुभयरूपोऽसि । अतस्तदुभयकारिणो बृहस्पतेराधिपत्ये स्थित्वा मह्यं पुत्रपौत्रादिऱूपां प्रजां देहि । तथा मनसा चिन्त्यमानस्य ( ऋतस्य) वाचोच्चार्यमाणस्य सत्यस्य च हेतुत्वात्तदुमयरूपोऽसि अतस्तदुभयपालकस्येन्द्रस्याऽऽधिपत्ये स्थित्वा मह्यं बलं देहि । तथा शरीरमध्यो यद्भूतं पूर्वं सिद्धं धातुवैषम्यं यच्च भव्यमितः परं भविष्यत्तदुभयसमाधानहेतुत्वात्तदुभयरूपोऽसि । अतस्तदुभयसमाधातॄणां पितॄणामाधिपत्ये स्थित्वाऽऽपामोषधीनां च संबन्धी यो गर्भः पशुरूपस्तं धाः संपादय । हे सोम ऋतस्य व्योमने सत्यस्य विशेषण रक्षणाय त्वं मिमे । ऋतस्य सत्यस्य विभूमने विशेषेण बाहुल्याय त्वां मिमे । तथर्तस्य विधर्मणे सत्यस्य विशेषेण धारणाय त्वां मिमे । तथर्तस्य सत्याय सत्यस्य सत्याय प्रमादरूपानृतराहित्प्राय त्वां मिमे । तथर्तस्य ज्योतिषे सत्यस्य प्रकाशाय त्वां मिये ।

तेरेतैर्दशभिर्मन्त्रैः सोमोन्मानरूपा ये पृश्निग्रहास्तान्विधातुं प्रस्तौति —

प्रजापतिरिति । प्रजापतिः पूर्वं विचार्य सृष्टेः साधनभूतां विराजमपश्यत् । वायुरसीत्यादिमन्त्रसमष्टिर्दशसंख्योपेतत्वाद्दशाक्षरयुक्तच्छन्दःसाम्येन विराडित्युच्यते । तया च विराजा भूतं भविष्यच्च जगदसृजत । कृत्स्नं जगत्सृष्टवा तत्र किंचिदभूतं किंचिद्भविष्यदिति विभागमकरोदित्यर्थः । ततस्तां विराजमृषिभ्यो न चिद्भूतं किंचिद्भविष्यदिति विभागमकरोदित्यर्थः । ततस्तां विराजमृषिभ्यो न प्रकाशितवान् । तदा जमदग्निस्तपः कृत्वा प्रजापत्यनुग्रहेण तां विराजमपश्यत् । तया विराजा स जमदग्निः पृश्नीन्धेनुस्वरूपान्कामान्भोगानसृजत । यस्माद्वायुरसीत्यादिभिर्दशभिर्मन्त्रैः पृश्नीन्धेनुस्वरूपान्कामान्भोगानसृजत तस्माकारणात्पृश्नि नामकानां वायुरसीत्यादीनां पृश्निनाम संपन्नम् । पृश्नयः कामधेनवः सृष्टाः यैर्म-

न्त्रैस्ते मन्त्राः पृश्नय इति निर्वक्तुं शक्यत्वात् । अथ विधत्ते —

यत्पृश्नय इति । ग्रहणं नाम न पात्रेषु सोमरसस्य धारणं किंतु, नद्धस्य सोमस्योन्मानम् । पृश्निशब्दाभिधेयैर्वायुरसीत्यादिभिर्मन्त्रैर्ग्रहीतव्याः सोमभागा पृश्नयस्ते च गृह्यन्ते । ग्रहीतव्या इत्यर्थः । तैरुन्मानलक्षणैर्ग्रहैर्जजमानः कामधेनुसदृशान्भोगान्प्राप्नोति । तत्र प्रथममन्त्रेण प्राणापानपोषणलक्षणं कामं दर्शयति-वायुरसीति ।

द्वितीयमन्त्रेण चक्षुःश्रोत्रस्थैर्यहेतोरायुषः प्राप्तिं दर्शयति चक्षुरसीति । तृयीयमन्त्रेणावयवसौष्टवकान्तिभ्यामुपेतायाः प्राजायाः संपत्तिं दर्शयति रूपमसीति । चतुर्थमन्त्रेण मांनसवाचिकतस्यसाधनस्य संपत्तिं दर्शयति-ऋतमसीति । पञ्चममन्त्रेण भतभविष्यदस्वास्थ्यपरिहारहेतूनां पशूनां प्राप्तिं दर्शयति —

भूतमसीति । अपामोषधीनां गर्भं धा इति तस्मिन्मन्त्रे समाम्नातं तत्र तृणो दकपरिणामरूपत्वात्पशव एव तादृशो गर्भ इह विवक्षितः ।

पञ्चममन्त्रफलमुपसंहरति —

एताबद्वा इति । प्राणापानस्वास्थ्यप्रभृति पशुप्राप्तिपर्यन्तं यावत्फलमुक्तमेतावदेव पुरुषं परितो वर्तते । पुरुषस्य सर्वतोऽपेक्षितं फलमित्यर्थः ।

उत्तरस्मिन्मन्त्रपञ्चके व्योमन इत्यादिभिः पञ्चभिश्चतुर्थ्यन्तपदैर्लोकत्रयस्य दिशां स्वर्गस्य च विविक्षितत्वात्तद्विजयः फलमित्येतद्दर्शयति —

ऋतस्य त्वेति । ऋतशब्दः सत्यवाची ।

कामप्रपके पूर्वमन्त्रपञ्चके लोकजयहेतावुत्तरमन्त्रपञ्चके चावस्थितां संख्यां प्रशंसति-दश समिति । अत्र विनियोगसंग्रहः-

वायुर्दश द्वादशाहे पृश्निग्रहणमन्त्रकाः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥५ ॥

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ पृश्नीनां ग्रहणं - संतृप्तं राजानं दशधा व्यूह्याभिमृशति - वायुरसि प्राणो नामेत्यादिभिः दश भागान्, ते एते संवत्सरसाक्षीये[ध्ये]ष्वहस्सु गृह्यन्ते । यत्र क्वचैवैतान् गृह्णीयादित्येतदपरम् । तत्रादितः पञ्च यजूंषि, उत्तराः पञ्च एकपदा गायत्र्यः 'ऋतस्य त्वा व्योमने' इत्यादयः ॥ हे सोम वायुरसि बहिः प्राणो नामासि पीतस्त्वमेव । यज्ञद्वारेण वृष्ट्यादिक्रमेण च सर्वं त्वया प्रेर्यते । स त्वं सवितुराधिपत्ये स्थित्वा अपानं अपानादिं मे मह्यं दाः देहि । सर्वप्राणवृत्तीनामुपलक्षणतया प्रधानयोरुपादानम् । ब्राह्मणं च भवति 'प्राणापानावेवावरुन्धे' इति । पीतः स त्वं मम प्राणादीन् सम्यक्प्रेरयसि । ददातेर्लेटि शपो लुक् । अधिपतिशब्दाद्ब्राह्मणादित्वात् ष्यञ् ॥
2 चक्षुरसि श्रोत्रादिकं च त्वमेव नामासि पीतः तत्सामर्थ्योत्पादनात् । स त्वं धातुः सर्वस्य विधातुरारिधपत्ये स्थित्वा आयुर्मे मह्यं देहि सर्वेन्द्रियसामर्थ्योपेतं दीर्घमायुर्मे देहि ॥
3 रूपमसि शोभनं वर्णो मृजा च त्वमेवासि पीतः । स त्वं रूपादिसमृद्धिकारिणः बृहस्पतेराधिपत्ये स्थित्वा प्रजां प्रजननशक्तिं रूपादिसमृद्धिं पुत्रादिपोषं मे देहि ॥
4 ऋतमसि सत्यं त्वमेवासि । मानसं तथ्यमृतं, वाचिकं सत्यं, तदुभयमपि त्वत्पानाद्भवति । स त्वमिन्द्रस्य सत्यात्मनः आधिपत्ये स्थित्वा क्षत्रं बलं सत्यहेतुकं मे देहि ॥
5 भूतमसि, भव्यं वर्तमानं, उपलक्षणत्वाच्च भविष्यच्च त्वमेवासि त्रैकाल्यवर्ती त्वमेव सः यज्ञद्वारेण जनयसि, स त्वं पितॄणां जनयितॄणाम् ॥
6 ऋतस्य व्योम पृथिवी । ब्राह्मणं च भवति 'द्यावापृथिव्योर्हि यज्ञः' इति, 'इयं वा ऋतस्य व्योम' इति च । पृथिवीजयार्थं त्वां गृह्णामीति । तादर्थ्ये चतुर्थी । अवतेर्मनिन्प्रत्यये 'ज्वरत्वर' इत्यादिना ऊठि गुणः, उपधालोपाभावश्छान्दसः, विविधं ओम व्योम इति प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्; 'उदात्तस्वरितयोर्यणः' इत्योकारस्स्वर्यते ॥
7 ऋतस्य विभूम विविधं भावयितृ अवकाशप्रदानादिना अन्तरिक्षम्, ब्राह्मणं च - 'अन्तरिक्षं वा ऋतस्य विभूम' इति, 'अन्तरिक्षे हि यज्ञः' इति च । अन्तरिक्षस्य जयार्थं त्वां गृह्णामीति । सर्वत्र पूर्ववत्प्रत्ययस्स्वरश्च, गुणाभावश्छान्दसः ॥
8 ऋतस्य विधर्म विविधं धारयितृ वृष्ट्यादिना द्यौः देवलोकः । 'द्यौर्वा ऋतस्य विधर्म' इत्यादि ब्राह्मणम् । प्रत्ययादि पूर्ववत् ॥
9 ऋतस्य सत्यं अविनाशित्वं, तत्कारिण्यो दिशः । दिक्षु हि विस्तीर्णे नश्यतीति । यद्वा - ऋतस्य सत्यं सद्भावः तच्च प्रागादिदिशाम् । ब्राह्मणं च - 'दिशो वा ऋतस्य सत्यम्' इति ॥
10 ऋतस्य ज्योतिः सुवर्गः सुखैकरूपः, तत्र हि यज्ञो द्योतते फलसंपत्त्या विराजते । ब्राह्मणं च 'सुवर्गो वै लोक ऋतस्य ज्योतिः' इति ॥
11 अथैतेषां पृश्नीनामेव ब्राह्मणं - प्रजापतिरित्यादि ॥ विराड्दशाक्षरा, गौर्वा । ऋषिभ्यस्तिरोदधात् तिरोहितामकरोत् । जमदग्निस्तां दृष्ट्वा विराजं पृश्नीन् कामहेतुभूतान् अत एव कामान् सर्वैः काम्यमानान् प्राणादिकामधुक्त्वात् 'वायुरसि प्राणो नाम' इत्यादिकान् ग्रहान् असृजत, तत्पृश्निग्रहाणां पृश्नित्वम्, पृश्निस्थान्कामान् प्राणादीन् दश यजमानोवरुन्धे । अधुना ग्रहान् तांश्च क्रमेण दर्शयति वायुरसीत्यादि । सर्वप्राणतृप्त्युपलक्षणं प्राणापानग्रहणम् ॥
12 आयुरेवेति चक्षुराद्युपेतम् ॥
13 रूपं प्रजां रूपवर्णोपेतम् ॥
14 क्षत्रमिति ॥ बलं सत्यहेतुकम् ॥
15 पशवो वा इति ॥ परम्परया अबादिप्रभवत्वात् । एतावदिति । पुरुषस्य परिकरवत् प्रत्यासज्ज्य स्थितं एतावत्प्राणादि पश्वन्तमेतत्सर्वमवरुन्धे एभिः पृश्निभिः दशभिः । 'अभितःपरितः' इति द्वितीया ॥
16 -18इयं वा इति ॥ पृथिवी यज्ञश्च विविधं रक्षितौ 'द्यावापृथिव्योर्हि यज्ञः' इति । तस्मात् षष्ठेन पृश्निना पृथिवीमेवाभिजयति । एवमुत्तरेषु द्रष्टव्यम् ॥
19 दिशो वा इति ॥ यज्ञस्य सत्यत्वस्य दिगधीनत्वाद्दिक्षु हि विस्तीर्णं अनपायं भवतीति ॥
20 सुवर्ग इति ॥ यज्ञस्य द्योतनस्थानं स्वर्गः, तत्र हि यज्ञो द्योतते फलाविर्भावेन । एतावन्त इत्यादि । पृथिव्यादिस्वर्गान्ता देवलोकाः यज्ञाधिकरणत्वेन देवस्थानानि, तान् सर्वानभिजयत्येतेन पञ्चाभिः पृश्निभिः । दश सम्पद्यन्ते इत्यादि । गतम् । विराजमानेऽन्नाद्ये प्रतितिष्ठति । अन्नस्यादनमन्नाद्यं छान्दसो यत् ॥
इति तृतीये तृतीये पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 3.3.5.2 TS 3.3.5.2
त्वा॒ विभू॑मन ऋ॒तस्य॑ त्वा॒ विध॑र्मण ऋ॒तस्य॑ त्वा स॒त्याय॒र्तस्य॑ त्वा॒ ज्योति॑षे प्र॒जाप॑ति र्वि॒राज॑मपश्य॒त् तया॑ भू॒तं च॒ भव्यं॑ चा सृजत॒ तामृषि॑भ्यस्ति॒रो॑ऽदधा॒त् तां ज॒मद॑ग्नि॒स्तप॑साऽ पश्य॒त् तया॒ वै स पृश्ञी॒न् कामा॑नसृजत॒ तत् पृश्ञी॑नां पृश्ञि॒त्वं ॅयत् पृश्ञ॑यो गृ॒ह्यन्ते॒ पृश्ञी॑ने॒व तैः कामा॒न्॒. यज॑मा॒नोऽव॑ रुन्धे वा॒युर॑सि प्रा॒णो - [ ]
▶ पदपाठः (Word-by-word)
त्वा॒ । विभू॑मन॒ इति॒ वि - भू॒म॒ने॒ । ऋ॒तस्य॑ । त्वा॒ । विध॑र्मण॒ इति॒ वि - ध॒र्म॒णे॒ । ऋ॒तस्य॑ । त्वा॒ । स॒त्याय॑ । ऋ॒तस्य॑ । त्वा॒ । ज्योति॑षे । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वि॒राज॒मिति॑ वि - राज᳚म् । अ॒प॒श्य॒त् । तया᳚ । भू॒तम् । च॒ । भव्य᳚म् । च॒ । अ॒सृ॒ज॒त॒ । ताम् । ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ । ति॒रः । अ॒द॒धा॒त् । ताम् । ज॒मद॑ग्निः । तप॑सा । अ॒प॒श्य॒त् । तया᳚ । वै । सः । पृश्नीन्॑ । कामान्॑ । अ॒सृ॒ज॒त॒ । तत् । पृश्नी॑नाम् । पृ॒श्नि॒त्वमिति॑ पृश्नि - त्वम् । यत् । पृश्न॑यः । गृ॒ह्यन्ते᳚ । पृश्नीन्॑ । ए॒व । तैः । कामान्॑ । यज॑मानः । अवेति॑ । रु॒न्धे॒ । वा॒युः । अ॒सि॒ । प्रा॒ण इति॑ प्र - अ॒नः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.3.5.3 TS 3.3.5.3
नामेत्या॑ह प्राणापा॒नावे॒वाव॑ रुन्धे॒ चक्षु॑रसि॒ श्रोत्रं॒ नामेत्या॒हाऽऽयु॑रे॒वाव॑ रुन्धे रू॒पम॑सि॒ वर्णो॒ नामेत्या॑ह प्र॒जामे॒वाव॑ रुन्धऋ॒तम॑सि स॒त्यं नामेत्या॑ह क्ष॒त्रमे॒वाव॑ रुन्धे भू॒तम॑सि॒ भव्यं॒ नामेत्या॑ह प॒शवो॒ वा अ॒पामोष॑धीनां॒ गर्भः॑ प॒शूने॒वा - [ ]
▶ पदपाठः (Word-by-word)
नाम॑ । इति॑ । आ॒ह॒ । प्रा॒णा॒पा॒नाविति॑ प्राण-अ॒पा॒नौ । ए॒व । अवेति॑ । रु॒न्धे॒ । चक्षुः॑ । अ॒सि॒ । श्रोत्र᳚म् । नाम॑ । इति॑ । आ॒ह॒ । आयुः॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । रू॒पम् । अ॒सि॒ । वर्णः॑ । नाम॑ । इति॑ । आ॒ह॒ । प्र॒जामिति॑ प्र - जाम् । ए॒व । अवेति॑ । रु॒न्धे॒ । ऋ॒तम् । अ॒सि॒ । स॒त्यम् । नाम॑ । इति॑ । आ॒ह॒ । क्ष॒त्रम् । ए॒व । अवेति॑ । रु॒न्धे॒ । भू॒तम् । अ॒सि॒ । भव्य᳚म् । नाम॑ । इति॑ । आ॒ह॒ । प॒शवः॑ । वै । अ॒पाम् । ओष॑धीनाम् । गर्भः॑ । प॒शून् । ए॒व ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 3.3.5.4 TS 3.3.5.4
-व॑ रुन्ध ए॒ताव॒द्वै पुरु॑षं प॒रित॒स्तदे॒वाव॑ रुन्ध ऋ॒तस्य॑ त्वा॒ व्यो॑मन॒ इत्या॑हे॒यं ॅवा ऋ॒तस्य॒ व्यो॑मे॒मामे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विभू॑मन॒ इत्या॑हा॒ऽन्तरि॑क्षं॒ ॅवा ऋ॒तस्य॒ विभू॑मा॒न्तरि॑क्षमे॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ विध॑र्मण॒ इत्या॑ह॒ द्यौर्वा ऋ॒तस्य॒ विध॑र्म॒ दिव॑मे॒वाभि ज॑यत्यृ॒तस्य॑- [ ]
▶ पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । ए॒ताव॑त् । वै । पुरु॑षम् । प॒रितः॑ । तत् । ए॒व । अवेति॑ । रु॒न्धे॒ । ऋ॒तस्य॑ । त्वा॒ । व्यो॑मन॒ इति॒ वि - ओ॒म॒ने॒ । इति॑ । आ॒ह॒ । इ॒यम् । वै । ऋ॒तस्य॑ । व्यो॑मेति॒ वि - ओ॒म॒ । इ॒माम् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । ऋ॒तस्य॑ । त्वा॒ । विभू॑मन॒ इति॒ वि-भू॒म॒ने॒ । इति॑ । आ॒ह॒ । अ॒न्तरि॑क्षम् । वै । ऋ॒तस्य॑ । विभू॒मेति॒ वि - भू॒म॒ । अ॒न्तरि॑क्षम् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । ऋ॒तस्य॑ । त्वा॒ । विध॑र्मण॒ इति॒ वि - ध॒र्म॒णे॒ । इति॑ । आ॒ह॒ । द्यौः । वै । ऋ॒तस्य॑ । विध॒र्मेति॒ वि -ध॒र्म॒ । दिव᳚म् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । ऋ॒तस्य॑ ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 3.3.5.5 TS 3.3.5.5
त्वा स॒त्यायेत्या॑ह॒ दिशो॒ वा ऋ॒तस्य॑ स॒त्यं दिश॑ ए॒वाभि ज॑यत्यृ॒तस्य॑ त्वा॒ ज्योति॑ष॒ इत्या॑ह सुव॒र्गो वै लो॒क ऋ॒तस्य॒ ज्योतिः॑ सुव॒र्गमे॒व लो॒कम॒भि ज॑यत्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्ताने॒वाभि ज॑यति॒ दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑तिष्ठति ॥
▶ पदपाठः (Word-by-word)
त्वा॒ । स॒त्याय॑ । इति॑ । आ॒ह॒ । दिशः॑ । वै । ऋ॒तस्य॑ । स॒त्यम् । दिशः॑ । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । ऋ॒तस्य॑ । त्वा॒ । ज्योति॑षे । इति॑ । आ॒ह॒ । सु॒व॒र्ग इति॑ सुवः - गः । वै । लो॒कः । ऋ॒तस्य॑ । ज्योतिः॑ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । ए॒ताव॑न्तः । वै । दे॒व॒लो॒का इति॑ देव - लो॒काः । तान् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥
पदसंख्या: 46