अनुवाकः 6 TS 3.3.6

(A6)

(अ॒भिजि॑त्यै - भव॒न्त्योष॑धयो॒ - ऽष्टा च॑त्वारिꣳशच्च)

अनुवाकः 6 - Complete Audio

TS 3.3.6 - स्वरानुगामी

0:00 0:00
PS1.1 दे॒वा वै यद्-य॒ज्ञेन॒ नावारु॑न्धत॒
PS1.2 तत् परै॒रवा॑रुन्धत॒ तत् परा॑णां
PS1.3 पर॒त्वं ॅयत् परे॑ गृ॒ह्यन्ते॒
PS1.4 यदे॒व य॒ज्ञेन॒नाव॑रु॒न्धे तस्याव॑रुद्ध्यै॒ यं
PS1.5 प्र॑थ॒मं गृ॒ह्णाती॒ममे॒व तेन॑ लो॒कम॒भि
PS1.6 ज॑यति॒यं द्वि॒तीय॑म॒न्तरि॑क्षं॒ तेन॒ यं
PS1.7 तृ॒तीय॑म॒मुमे॒व तेन॑ लो॒कम॒भि ज॑यति॒
PS1.8 यदे॒ते गृ॒ह्यन्त॑ ए॒षां ॅलो॒काना॑म॒भिजि॑त्या॒
PS2.1 उत्त॑रे॒ष्वहः॑ स्व॒मुतो॒ऽर्वाञ्चो॑ गृह्यन्ते ऽभि॒जित्यै॒वेमां
PS2.2 ॅलो॒कान् पुन॑रि॒मं ॅलो॒कं प्र॒त्यव॑रोहन्ति॒
PS2.3 यत् पूर्वे॒ष्वहः॑ स्वि॒तः परा᳚ञ्चो
PS2.4 गृ॒ह्यन्ते॒ तस्मा॑दि॒तः परा᳚ञ्च इ॒मे
PS2.5 लो॒का यदुत्त॑रे॒ष्वहः॑ स्व॒मुतो॒ऽर्वाञ्चो॑ गृ॒ह्यन्ते॒
PS2.6 तस्मा॑द॒मुतो॒ ऽर्वाञ्च॑ इ॒मे लो॒कास्तस्मा॒दया॑तयाम्नो
PS2.7 लो॒कान् म॑नु॒ष्या॑ उप॑ जीवन्ति
PS2.8 ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद॒द्भ्य
PS2.9 ओष॑धयः॒ सं भ॑व॒न्त्योष॑धयो -
PS3.1 मनु॒ष्या॑णा॒मन्नं॑ प्र॒जाप॑तिं प्र॒जा अनु॒
PS3.2 प्रजा॑यन्त॒ इति॒ परा॒नन्विति॑ ब्रूया॒द्-यद्-गृ॒ह्णात्य॒द्भ्यस्त्वौष॑धीभ्यो
PS3.3 गृह्णा॒मीति॒ तस्मा॑द॒द्भ्य ओष॑धयः॒ संभ॑वन्ति॒
PS3.4 यद्-गृ॒ह्णात्योष॑धीभ्यस्त्वा प्र॒जाभ्यो॑ गृह्णा॒मीति॒ तस्मा॒दोष॑धयो
PS3.5 मनु॒ष्या॑णा॒मन्नं॒ ॅयद्-गृ॒ह्णाति॑ प्र॒जाभ्य॑स्त्वा प्र॒जाप॑तये
PS3.6 गृह्णा॒मीति॒ तस्मा᳚त् प्र॒जाप॑तिं प्र॒जा
PS3.7 अनु॒ प्रजा॑यन्ते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 3.3.6.1 TS 3.3.6.1
दे॒वा वै यद्-य॒ज्ञेन॒ नावारु॑न्धत॒ तत् परै॒रवा॑रुन्धत॒ तत् परा॑णां पर॒त्वं ॅयत् परे॑ गृ॒ह्यन्ते॒ यदे॒व य॒ज्ञेन॒नाव॑रु॒न्धे तस्याव॑रुद्ध्यै॒ यं प्र॑थ॒मं गृ॒ह्णाती॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒यं द्वि॒तीय॑म॒न्तरि॑क्षं॒ तेन॒ यं तृ॒तीय॑म॒मुमे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यदे॒ते गृ॒ह्यन्त॑ ए॒षां ॅलो॒काना॑म॒भिजि॑त्या॒ - [ ]
▶ पदपाठः (Word-by-word)
दे॒वाः । वै । यत् । य॒ज्ञेन॑ । न । अ॒वारु॑न्ध॒तेत्य॑व - अरु॑न्धत । तत् । परैः᳚ । अवेति॑ । अ॒रु॒न्ध॒त॒ । तत् । परा॑णाम् । प॒र॒त्वमिति॑ पर - त्वम् । यत् । परे᳚ । गृ॒ह्यन्ते᳚ । यत् । ए॒व । य॒ज्ञेन॑ । न । अ॒व॒रु॒न्ध इत्यव॑-रु॒न्धे । तस्य॑ । अव॑रुद्ध्या॒ इत्यव॑ -रु॒द्ध्यै॒ । यम् । प्र॒थ॒मम् । गृ॒ह्णाति॑ । इ॒मम् । ए॒व । तेन॑ । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । यम् । द्वि॒तीय᳚म् । अ॒न्तरि॑क्षम् । तेन॑ । यम् । तृ॒तीय᳚म् । अ॒मुम् । ए॒व । तेन॑ । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । यत् । ए॒ते । गृ॒ह्यन्ते᳚ । ए॒षाम् । लो॒काना᳚म् । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ ।
पदसंख्या: 50
▶ सायणभाष्यम् (Sayana Commentary)

[अथ तृतीयाकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः]

पृश्निग्रहाख्या उन्मानविशेषा पञ्चमे श्रुताः ।

अथ षष्ठे गवामयनगताः परःसंज्ञका अतिग्राह्यविशेषा उच्यन्ते ।

कल्पः — “त्रिषु परःसामसु त्रीनतिग्राह्यन्गृह्वात्युपयामगृहीतोऽस्यद्भ्यस्त्वौ-षधीभ्यो जुष्टं गृह्णामीति प्रथमेऽहनि गृह्णात्योषधीभ्यस्त्वा प्रजाभ्य इति द्वितीये प्रजाभ्यस्त्वा प्रजापतय इति तृतीय एतानेवाऽवृत्तानवांक्सामसु तानुर्ध्वानावृत्तांश्च विषुवति” इति ।

अस्ति गवामयनं नाम संवत्सरसत्रं, तस्य पूर्वमासषट्कमुत्तरमासषट्कंचेति द्वौ भागौ, तयोर्मध्ये विषुवत्संज्ञकमेक प्रधानमहर्भवति तस्य चान्हः पूर्वभावीनि परःसामनामकानि त्रीण्यहानि भवन्ति । तानि पूर्वस्य मासषट्कस्यान्तिमानि । तथा विषुवतोऽन्ह उत्तरभावीन्यनन्त्राण्यर्वाक्सामनामानि त्रीण्यहानि भवन्ति । तान्युत्तरस्य मासषट्कस्याऽऽदिभूतानि । तत्रापि परःसामनामकेषु त्रिष्वहःषु क्रमेणोक्तेस्त्रिभिर्मन्त्रैयोऽतिग्राह्याख्याः सोमरसा ग्रहीतव्याः । अर्वाक्सामनामकेषु त्रिष्वहःसु तेषामेव मन्त्राणां विपरीतक्रमेण त्रयोऽतिग्राह्या ग्रहीतव्याः त्रिषुवन्नामके तु मुख्यदिने समाम्नातक्रमेण विपरीतक्रमेण चेत्येवं षडतिग्राह्या ग्रहीतव्याः । वानेतानतिग्राह्यान्विधातुं प्रस्तैति —

देवा वै यदिति । पुरा यज्ञमनुतिष्ठन्तो देवा विधारयमानातिग्राह्यरहितेन केवलेन यज्ञेन यत्फलं न प्रातवन्तस्तत्फलं पराख्यैर्ग्रहैराप्नुवन् । पारयन्त्यभीष्टसमाप्तिं गमयन्तीति पराः । विधत्ते

यत्पर इति । समुदायाकारेण प्रशस्य विशेषाकारेण प्रशंसति यं प्रथममिति । विषुवतोऽह्र उपरितनेष्वहःसु विपरीतक्रमं विधत्ते उत्तरेष्वहः स्विति । अमुतोऽन्त्यादर्वाञ्चो व्युत्क्रमस्थितान्गृह्णीयात् । तथा सति पूर्वानुष्ठितैरनुलोमगतैर्ग्रहैः पृथिव्यन्तरिक्षद्युलोकानभिजित्यैव पुनर्द्युलोकाद्भूलोकं प्रत्यारूढवान्भवति ॥ अथाऽऽम्नातक्रमं विपरीतक्रमं च मिलित्वा पुन प्रशंसति —

यत्पुर्वेष्वह स्विति । विषुवतोऽन्हः पूर्वेष्वहःसु इतः प्रथमादेतिग्राह्यदारभ्य क्रमेणैव पराञ्चो गृह्यन्ते । परमत्तममञ्चन्तीति पराञ्चः । प्रथमं गृहीत्वा ततः परं द्वितीयोऽतिग्राह्यः । द्वितीयं गृहीत्वा ततः परं तृतीयोऽतिग्राह्यः । एते पराञ्चः । यस्मादेवं गृह्यन्ते तस्मादितो भूलोकादारभ्य त्रयो लोकाः पराञ्च उत्तरोत्तरगतयो भवन्ति । विषुवत उत्तरेष्वहःस्वमुतस्तृतयिग्रहादारभ्यार्वाञ्चोऽधस्तना गृह्यन्ते । प्रथमेऽह्रि तृतीयो ग्रहो द्वितीयेऽह्रि द्वितीयो ग्रहस्तृतीयेऽह्रि प्रथमो ग्रहः । एतेऽर्वाञ्चः । यस्मादेवं तस्मादमुतो द्युलोकादधस्तनोऽन्तरिक्षलोकस्तस्मादधस्तनतो भूलोकः । त एतेऽर्वाञ्चो लोका यस्मात्पराञ्चोर्वाञ्चश्चपरस्परविलक्षणा अत एव पुनरावृत्तत्वादगतसाराः । तस्मान्मनुष्या अगतसारल्लोँकानुपजीवन्ति । यानि स्थानान्युपभुक्तत्वेन गतसाराणि भवान्ति तानि नापेक्षन्ते, किंत्वभुक्तपूर्वाणि नूतनानि स्थानान्यपेक्षन्ते ।

प्रथममन्त्रत्रयं विधातुं प्रस्तौति —

ब्रह्मवादिन इति । लोके ह्यद्भ्यः सकाशादोषधय उत्पद्यन्त इति यत्तत्क स्मात्सत्यात्कृतः कारणात् । तथा मनुष्याणामोषधयोऽन्नमिति यत्तदपि कुतः कारणात् । तथा प्रजापतिमनु प्रजाः प्रजायन्त इति यदेतदपि कुतः कारणादित्येवं ब्रह्मवादिभिः पृष्टः कश्चिद्बुद्धिमान्परानन्वित्युत्तरं ब्रूयात् । परतोऽतिग्राह्य ग्रहणमन्त्रा उत्कृष्टत्वात्परशब्दाभिधेयाः । तदनुसारेण यथोक्तमेतत्त्रयं संपद्यते । तत्र प्रथमं मन्त्रं विधत्ते —

यद्गृह्णातिति । हे प्रथमातिग्राह्य त्वामद्भ्यः सकाशाद्गृह्णामि । किमर्थम् ।ओषधीभ्य ओषध्युत्पत्त्यर्थम् । अनेन मन्त्रेण प्रथमं गृह्णीयात् । यस्मादेवं गृह्णाति तस्मादद्भ्य सकाशादोषधयः सम्यग्भवन्ति । द्वितीयमन्त्रं विधत्ते

यद्गृहणातिति । हे द्वितीयातिग्राह्य त्वामोषधीभ्यः सकाशाद्गृह्णामि । किमर्थम् । प्रजाभ्य प्रजाजीवनार्थम् । अनेन द्वितीयातिग्राह्यं गृह्णीयात् । यस्मादेवं गृह्णाति तस्मादोषधयो मनुष्याणामन्नं भवन्ति ।

अथ तृतीयं मन्त्रं विधत्ते —

यद्गृह्णातीति । हे तृतीयातिग्राह्य त्वां प्रजार्थं प्रजापत्यर्थं च गृह्णामि । प्रजाः सर्वा अपि प्रजापतिमाश्रित्य यथा प्रजायेरन्नित्यनेनाभिप्रायेण गृह्णामीत्यर्थः । अत्र विनियोगसंग्रहः —

“पराभिधा अतिग्राह्यास्ते गवामयने त्रयः ।

तेष्वद्भ्य ओषधीभ्यश्च प्रजाभ्यश्चेति मन्त्रकाः” ॥ इति ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये तृतीयकाण्डे

तृतीयप्रपाठके षष्टोऽनुवाकः ॥६ ॥

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ परस्साम्नां ग्रहणं विधास्यन् तत्स्तुतिं तावदाह – देवा वा इत्यादि ॥ यज्ञेन केवलेन परस्सामरहितेन यदभिमतं तन्नावारुन्धत नालभन्त । तत्परैः परस्सामभिः अवारुन्धत । तत्पराणां परत्वम् । पारयन्ति पूरयन्त्यभीष्टमिति पराः, 'ऋदोरप्' इति अप् । यत्परे । असर्वनामत्वाद्व्यत्ययेन शीभावः । यदेव तेन यज्ञेन नावारुन्धत तस्यावरुद्ध्यै भवति एतेषां ग्रहणम् । यं प्रथममित्यादि । इमं मबुष्यलोकमभिजयति । यं द्वितीयमिति । गृह्णातीत्येव । अन्तरिक्षं तेनाभिजयतीत्येव । यं तृतीयमिति । गृह्णातीत्येव । यदेते इति । एते सर्वेऽपि यद्गृह्यन्ते एतेषां सर्वेषां लोकानामभिजयाय भवति । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम्, 'ऊडिदम्' इति षष्ठ्या उदात्तत्वम् ॥
2 उत्तरेष्वित्यादि ॥ वैषुवतादह्न उत्तरेषु त्रिष्वहस्सु अन्वहं अमुतः तृतीयदिनप्रभृति अर्वाञ्चः आवृत्ताः प्रतिलोमगतयो गृह्यन्ते । यथा - प्रथमेऽह्नि तृतीयः द्वितीये द्वितीयः तृतीये प्रथम इति । एवमिति । इमान् लोकान् अभिजित्य, इममेव लोकं पुनः प्रत्यवरोहन्ति । यत्पूर्वेष्विति । वैषुवतात्पूर्वेषु त्रिष्वहस्सु इतः प्रथमदिनप्रभृति पराञ्चः अनुलोभगतयः प्रथमादितृतीयान्ता गृह्यन्ते । तस्मादितो मनुष्यलोकादारभ्य पराञ्च इमे लोकाः, भूरिति प्रथमलोकः, अन्तरिक्षं द्वितीयलोकः, द्यौस्तृतीय इति । यदुत्तरेष्वित्यादि । ततो द्युलोकादर्वाञ्चो लोका भवन्ति तत्रस्थानां हि द्यौः प्रथमो लोकः अन्तरिक्षं द्वितीयः, भूस्तृतीय इति । तस्मादिति । अयातयाम्नोऽगतरसान् अपुनर्मुक्तसारान् लोकान् मनुष्यादय उपजीवन्ति । 'वैषुवतेषु हि पराञ्चश्च अर्वाञ्चश्च गृह्यन्ते' इत्याचार्योक्तम् ॥
3 ब्रह्मवादिन इत्यादि ॥ कस्मात्सत्यात् कारणात् अद्भ्य ओषधयस्सम्भवन्ति उत्पद्यन्ते? कस्माच्च कारणात्ता ओषधयः मनुष्याणामन्नं भवति? कस्माच्च पुनः कारणात् अन्नस्य दात्र्यः प्रजाः प्रजापतिमनुप्रजायन्ते । लक्षणेऽनोः कर्मप्रवचनीयत्वम् । प्रजापतिहेतुका उत्पद्यन्ते । इति ब्रह्मवादिनः प्रश्नं वदन्ति । परानिति । परान् परस्साम्नो ग्रहान् अनु एतत्त्रितयं ब्रूयात् उत्तरम् । पूर्ववत्कर्मप्रवचनीयत्वम् ॥
4 एवं सामान्येनोक्त्वा एकैकत्वेनाचष्टे - यदित्यादि ॥ अद्भ्यस्त्वौषधीभ्यो गृह्णामीति प्रथमो गृह्यते । अद्भ्यस्त्वा गृह्णामीति किमर्थम्? (प्रजाभ्यः प्रजार्थं) ओषधीभ्यः ओषध्यर्थम् । अद्भ्य ओषधयस्संभवन्तीति । यद्वा - अद्भ्यस्त्वौषधीभ्यश्च त्वामिति किमर्थम्? उत्पाद्योत्पादकभावोस्त्वासामिति । तस्मादिति । गतम् ॥
5 ओषधीभ्यस्त्वा प्रजाभ्यो गृह्णामीति द्वितीयो गृह्यते । ओषधीभ्यस्त्वा गृह्णामीति किमर्थम्? प्रजाभ्यः प्रजार्थं प्रजानामन्नं ओषधयो भवन्त्विति । तस्मादिति । गतम् । उभयीभ्यो वा ग्रहणं, पूर्ववदुत्पाद्योत्पादकभावो भवत्वासामिति ॥
6 प्रजाभ्यस्त्वा प्रजापतये गृह्णामीति तृतीयो गृह्यते । प्रजाभ्यस्त्वा गृह्णामीति किमर्थम्? प्रजापतये प्रजापत्यर्थं प्रजानां हेतुभावमापद्यतामिति, प्रजापतिमनुप्रजायन्तामित्यर्थः । तस्मादिति । गतम् । सहग्रहणं वा वाच्यं उभयोर्हेतुहेतुमद्भावो भवत्विति ॥
इति तृतीये तृतीये षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 3.3.6.2 TS 3.3.6.2
उत्त॑रे॒ष्वहः॑ स्व॒मुतो॒ऽर्वाञ्चो॑ गृह्यन्ते ऽभि॒जित्यै॒वेमां ॅलो॒कान् पुन॑रि॒मं ॅलो॒कं प्र॒त्यव॑रोहन्ति॒ यत् पूर्वे॒ष्वहः॑ स्वि॒तः परा᳚ञ्चो गृ॒ह्यन्ते॒ तस्मा॑दि॒तः परा᳚ञ्च इ॒मे लो॒का यदुत्त॑रे॒ष्वहः॑ स्व॒मुतो॒ऽर्वाञ्चो॑ गृ॒ह्यन्ते॒ तस्मा॑द॒मुतो॒ ऽर्वाञ्च॑ इ॒मे लो॒कास्तस्मा॒दया॑तयाम्नो लो॒कान् म॑नु॒ष्या॑ उप॑ जीवन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद॒द्भ्य ओष॑धयः॒ सं भ॑व॒न्त्योष॑धयो - [ ]
▶ पदपाठः (Word-by-word)
उत्त॑रे॒ष्वित्युत् - त॒रे॒षु॒ । अहः॒ स्वित्यहः॑-सु॒ । अ॒मुतः॑ । अ॒र्वाञ्चः॑ । गृ॒ह्य॒न्ते॒ । अ॒भि॒जित्येत्य॑भि-जित्य॑ । ए॒व । इ॒मान् । लो॒कान् । पुनः॑ । इ॒मम् । लो॒कम् । प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । यत् । पूर्वे॑षु । अहः॒ स्वित्यहः॑ - सु॒ । इ॒तः । परा᳚ञ्चः । गृ॒ह्यन्ते᳚ । तस्मा᳚त् । इ॒तः । परा᳚ञ्चः । इ॒मे । लो॒काः । यत् । उत्त॑रे॒ष्वित्युत् - त॒रे॒षु॒ । अहः॒ स्वित्यहः॑ - सु॒ । अ॒मुतः॑ । अ॒र्वाञ्चः॑ । गृ॒ह्यन्ते᳚ । तस्मा᳚त् । अ॒मुतः॑ । अ॒र्वाञ्चः॑ । इ॒मे । लो॒काः । तस्मा᳚त् । अया॑तयाम्न॒ इत्यया॑त-या॒म्नः॒ । लो॒कान् । म॒नु॒ष्याः᳚ । उपेति॑ । जी॒व॒न्ति॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । अ॒द्भ्य इत्य॑त् - भ्यः । ओष॑धयः । समिति॑ । भ॒व॒न्ति॒ । ओष॑धयः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 3.3.6.3 TS 3.3.6.3
मनु॒ष्या॑णा॒मन्नं॑ प्र॒जाप॑तिं प्र॒जा अनु॒ प्रजा॑यन्त॒ इति॒ परा॒नन्विति॑ ब्रूया॒द्-यद्-गृ॒ह्णात्य॒द्भ्यस्त्वौष॑धीभ्यो गृह्णा॒मीति॒ तस्मा॑द॒द्भ्य ओष॑धयः॒ संभ॑वन्ति॒ यद्-गृ॒ह्णात्योष॑धीभ्यस्त्वा प्र॒जाभ्यो॑ गृह्णा॒मीति॒ तस्मा॒दोष॑धयो मनु॒ष्या॑णा॒मन्नं॒ ॅयद्-गृ॒ह्णाति॑ प्र॒जाभ्य॑स्त्वा प्र॒जाप॑तये गृह्णा॒मीति॒ तस्मा᳚त् प्र॒जाप॑तिं प्र॒जा अनु॒ प्रजा॑यन्ते ॥
▶ पदपाठः (Word-by-word)
म॒नु॒ष्या॑णाम् । अन्न᳚म् । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । प्र॒जा इति॑ प्र - जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । इति॑ । परान्॑ । अन्विति॑ । इति॑ । ब्रू॒या॒त् । यत् । गृ॒ह्णाति॑ । अ॒द्भ्य इत्य॑त् - भ्यः । त्वा॒ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । गृ॒ह्णा॒मि॒ । इति॑ । तस्मा᳚त् । अ॒द्भ्य इत्य॑त्-भ्यः । ओष॑धयः । समिति॑ । भ॒व॒न्ति॒ । यत् । गृ॒ह्णाति॑ । ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । त्वा॒ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । गृ॒ह्णा॒मि॒ । इति॑ । तस्मा᳚त् । ओष॑धयः । म॒नु॒ष्या॑णाम् । अन्न᳚म् । यत् । गृ॒ह्णाति॑ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । त्वा॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । गृ॒ह्णा॒मि॒ । इति॑ । तस्मा᳚त् । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । प्र॒जा इति॑ प्र - जाः । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ ॥
पदसंख्या: 48