अनुवाकः 5 TS 4.7.5

(A5)

(कृ॒ष्ट॒प॒च्यं चा॒ - ऽष्टाच॑त्वारिꣳशच्च)

अनुवाकः 5 - Complete Audio

TS 4.7.5 - स्वरानुगामी

0:00 0:00
PS1.1 अश्मा॑ च मे॒ मृत्ति॑का
PS1.2 च मे गि॒रय॑श्च मे॒
PS1.3 पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒
PS1.4 वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒
PS1.5 मे ऽय॑श्च मे॒ सीसं॑
PS1.6 च मे॒ त्रपु॑श्च मे
PS1.7 श्या॒मं च॑ मे लो॒हं
PS1.8 च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च
PS1.9 मेवी॒रुध॑श्च म॒ ओष॑धयश्च मे
PS1.10 कृष्टप॒च्यं च॑
PS2.1 मे ऽकृष्टप॒च्यं च॑ मे
PS2.2 ग्रा॒यांश्च॑ मे प॒शव॑ आर॒ण्याश्च॑
PS2.3 य॒ज्ञेन॑ कल्पन्तां ॅवि॒त्तं च॑
PS2.4 मे॒ वित्ति॑श्च मे भू॒तं
PS2.5 च॑ मे॒ भूति॑श्च मे॒
PS2.6 वसु॑ च मे वस॒तिश्च॑
PS2.7 मे॒ कर्म॑ च मे॒
PS2.8 शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च
PS2.9 म॒ इति॑श्च मे॒ गति॑श्च
PS2.10 मे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.5.1 TS 4.7.5.1
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे ऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मेवी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ - [ ]
▶ पदपाठः (Word-by-word)
अश्मा᳚ । च॒ । मे॒ । मृत्ति॑का । च॒ । मे॒ । गि॒रयः॑ । च॒ । मे॒ । पर्व॑ताः । च॒ । मे॒ । सिक॑ताः । च॒ । मे॒ । वन॒स्पत॑यः । च॒ । मे॒ । हिर॑ण्यम् । च॒ । मे॒ । अयः॑ । च॒ । मे॒ । सीस᳚म् । च॒ । मे॒ । त्रपु॑ । च॒ । मे॒ । श्या॒मम् । च॒ । मे॒ । लो॒हम् । च॒ । मे॒ । अ॒ग्निः । च॒ । मे॒ । आपः॑ । च॒ । मे॒ । वी॒रुधः॑ । च॒ । मे॒ । ओष॑धयः । च॒ । मे॒ । कृ॒ष्ट॒प॒च्यमिति॑ कृष्ट - प॒च्यम् । च॒ ।
पदसंख्या: 50

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

भट्टभास्करभाष्यम् — not in the source edition available to this site for this anuvāka.

पञ्चशत् 2 #
TS 4.7.5.2 TS 4.7.5.2
मे ऽकृष्टप॒च्यं च॑ मे ग्रा॒यांश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां ॅवि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥
▶ पदपाठः (Word-by-word)
मे॒ । अ॒कृ॒ष्ट॒प॒च्यमित्य॑कृष्ट - प॒च्यम् । च॒ । मे॒ । ग्रा॒म्याः । च॒ । मे॒ । प॒शवः॑ । आ॒र॒ण्याः । च॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् । वि॒त्तम् । च॒ । मे॒ । वित्तिः॑ । च॒ । मे॒ । भू॒तम् । च॒ । मे॒ । भूतिः॑ । च॒ । मे॒ । वसु॑ । च॒ । मे॒ । व॒स॒तिः । च॒ । मे॒ । कर्म॑ । च॒ । मे॒ । शक्तिः॑ । च॒ । मे॒ । अर्थः॑ । च॒ । मे॒ । एमः॑ । च॒ । मे॒ । इतिः॑ । च॒ । मे॒ । गतिः॑ । च॒ । मे॒ ॥
पदसंख्या: 48