अनुवाकः 9 TS 4.7.9

(A9)

(दी॒क्षाऽ - ष्टाद॑श च )

अनुवाकः 9 - Complete Audio

TS 4.7.9 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑
PS1.2 मे॒ सूर्य॑श्च मे प्रा॒णश्च॑
PS1.3 मे ऽश्वमे॒धश्च॑ मे पृथि॒वी
PS1.4 च॒ मे ऽदि॑तिश्च मे॒
PS1.5 दिति॑श्च मे॒ द्यौश्च॑ मे॒
PS1.6 शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑
PS1.7 कल्पन्ता॒- मृक्च॑ मे॒ साम॑
PS1.8 च मे॒ स्तोम॑श्च मे॒
PS1.9 यजु॑श्च मे दी॒क्षा (
PS1.10 ) च॑ मे॒ तप॑श्च
PS1.11 म ऋ॒तुश्च॑ मे व्र॒तं
PS1.12 च॑ मे ऽहोरा॒त्रयो᳚ र्वृ॒ष्ट्या
PS1.13 बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑
PS1.14 कल्पेतां

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 4.7.9.1 TS 4.7.9.1
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मे ऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒- मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒क्षा ( ) च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तं च॑ मे ऽहोरा॒त्रयो᳚ र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेतां ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । मे॒ । घ॒र्मः । च॒ । मे॒ । अ॒र्कः । च॒ । मे॒ । सूर्यः॑ । च॒ । मे॒ । प्रा॒ण इति॑ प्र - अ॒नः । च॒ । मे॒ । अ॒श्व॒मे॒ध इत्य॑श्व-मे॒धः । च॒ । मे॒ । पृ॒थि॒वी । च॒ । मे॒ । अदि॑तिः । च॒ । मे॒ । दितिः॑ । च॒ । मे॒ । द्यौः । च॒ । मे॒ । शक्व॑रीः । अ॒ङ्गुल॑यः । दिशः॑ । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्प॒न्ता॒म् । ऋक् । च॒ । मे॒ । साम॑ । च॒ । मे॒ । स्तोमः॑ । च॒ । मे॒ । यजुः॑ । च॒ । मे॒ । दी॒क्षा ( ) । च॒ । मे॒ । तपः॑ । च॒ । मे॒ । ऋ॒तुः । च॒ । मे॒ । व्र॒तम् । च॒ । मे॒ । अ॒हो॒रा॒त्रयो॒रित्य॑हः - रा॒त्रयोः᳚ । वृ॒ष्ट्या । बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । च॒ । मे॒ । य॒ज्ञेन॑ । क॒ल्पे॒ता॒म् ॥
पदसंख्या: 68

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

भट्टभास्करभाष्यम् — not in the source edition available to this site for this anuvāka.