पञ्चशत् 1 #
अꣳ॒॒शुश्च॑ मे र॒श्मिश्च॒ मे ऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च मउपाꣳ॒॒शुश्च॑ मे ऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑- [ ]
पदपाठः (Word-by-word)
अꣳ॒॒शुः । च॒ । मे॒ । र॒श्मिः । च॒ । मे॒ । अदा᳚भ्यः । च॒ । मे॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । च॒ । मे॒ । उ॒पाꣳ॒॒शुरित्यु॑प-अꣳ॒॒शुः । च॒ । मे॒ । अ॒न्त॒र्या॒म इत्य॑न्तः-या॒मः । च॒ । मे॒ । ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र-वा॒य॒वः । च॒ । मे॒ । मै॒त्रा॒व॒रु॒ण इति॑ मैत्रा - व॒रु॒णः । च॒ । मे॒ । आ॒श्वि॒नः । च॒ । मे॒ । प्र॒ति॒प्र॒स्थान॒ इति॑ प्रति - प्र॒स्थानः॑ । च॒ । मे॒ । शु॒क्रः । च॒ । मे॒ । म॒न्थी । च॒ । मे॒ । आ॒ग्र॒य॒णः । च॒ । मे॒ । वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । च॒ । मे॒ । ध्रु॒वः । च॒ । मे॒ । वै॒श्वा॒न॒रः । च॒ । मे॒ । ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः । च॒ ।
सायणभाष्यम् — not in the source edition available to this site for this anuvāka.
भट्टभास्करभाष्यम् — not in the source edition available to this site for this anuvāka.