प्रश्नः 6 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.6.11.1 TS 5.6.11.1
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒क्षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या᳚स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः श्वे॒ता व॒शाः सौ॒र्यो॑ मैत्राबार्.हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
रोहि॑तः । धू॒म्ररो॑हित॒ इति॑ धू॒म्र - रो॒हि॒तः॒ । क॒र्कन्धु॑रोहित॒ इति॑ क॒र्कन्धु॑ - रो॒हि॒तः॒ । ते । प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । ब॒भ्रुः । अ॒रु॒णब॑भ्रु॒रित्य॑रु॒ण - ब॒भ्रुः॒ । शुक॑बभ्रु॒रिति॒ शुक॑ - ब॒भ्रुः॒ । ते । रौ॒द्राः । श्येतः॑ । श्ये॒ता॒क्ष इति॑ श्येत - अ॒क्षः । श्येत॑ग्रीव॒ इति॒ श्येत॑ - ग्री॒वः॒ । ते । पि॒तृ॒दे॒व॒त्या॑ इति॑ पितृ - दे॒व॒त्याः᳚ । ति॒स्रः । कृ॒ष्णाः । व॒शाः । वा॒रु॒ण्यः॑ । ति॒स्रः । श्वे॒ताः । व॒शाः । सौ॒र्यः॑ । मै॒त्रा॒बा॒र्.॒ह॒स्प॒त्या इति॑ मैत्रा - बा॒र्.॒ह॒स्प॒त्याः । धू॒म्रल॑लामा॒ इति॑ धू॒म्र - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 26

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वमेधिकाः पशवोष्टादशिनो विधीयन्ते । वैश्वदेवं काण्डम् । तत्र दशस्वनुवाकेषु प्रत्येकमष्टादश पशव उच्यन्ते । अष्टादशानां वर्णनियमोत्र क्रियते । आरण्येष्वष्टादशिषु जातिनियमः पञ्चमे कृतः । ग्राम्येषूभयथा नियमः 'सोमाय स्वराज्ञे' इत्यारभ्य द्वन्द्वादिषु वहुधा नियम इति । रोहितादयस्त्रयः प्राजापत्याः । रोहितः लोहितः । धूम्ररोहितः अस्पष्टलोहितः । 'वर्णो वर्णेन' इति समानाधिकरणत्वात् तत्पुरुषः, 'वर्णेवर्णेष्वनेते' इति पूर्वपदप्रकृतिस्वरत्वम् । कर्कन्धुरोहितः सौवीरवर्णः । 'उपमानानि सामान्यवचनैः' इति समासः । उपमानपूर्वपदप्रकृतिस्वरत्वम् । बभ्र्वादयस्त्रयो रौद्राः । बभ्रुः पाण्डरकपिलः । अरुणः न्यूनरक्तकपिलः । शुकबभ्रुः हरितशुकसमानवर्णः । ग्रामेकेतौ स्वरौ । श्येतादयस्त्रयः पितृदेवत्याः । श्येतः शुक्लवर्णः । शुक्लरक्त इत्येके । श्येताक्षः रक्तदृष्टिः । 'अक्षगोऽदर्शनात्' इत्यच् समासान्तः । सतिशिष्टत्वात् लिट्स्वरेण बहुव्रीहिस्वरो बाध्यते । श्येतग्रीवः । गतः । तिस्रः कृष्णा वशा वारुण्यः । गताः । 'तिसृभ्यो जसः' इति जस उदात्तत्वम् । एवं सर्वत्र । तिस्रः श्वेता वशाः सौर्यः । गताः । एवं धूम्रललामास्त्रयस्तूपराः मैत्रा बार्हस्पत्याः । धूम्रललामाः धूम्रवर्णपुण्ड्राः तूपराः शृङ्गहीनाः ॥
इति पञ्चमे षष्ठे एकादशोनुवाकः ॥