प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.20.1 TS 7.4.20.1
भूर्भुवः॒ सुव॒र्वस॑वस्त्वा ऽञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा᳚ ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा, ऽऽदि॒त्यास्त्वा᳚ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ यद्-वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुवं॑ प्रि॒यां । ए॒तꣳ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ॥ लाजी(3)ञ्छाची(3)न् यशो॑ म॒माॅ(4) । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्-दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ॥ यु॒ञ्जन्ति॑ ब्र॒द्ध्न ( )-म॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥
▶ पदपाठः (Word-by-word)
भूः । भुवः॑ । सुवः॑ । वस॑वः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । रु॒द्राः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । त्रैष्टु॑भेन । छन्द॑सा । आ॒दि॒त्याः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । जाग॑तेन । छन्द॑सा । यत् । वातः॑ । अ॒पः । अग॑मत् । इन्द्र॑स्य । त॒नुव᳚म् । प्रि॒याम् ॥ ए॒तम् । स्तो॒तः॒ । ए॒तेन॑ । प॒था । पुनः॑ । अश्व᳚म् । एति॑ । व॒र्त॒या॒सि॒ । नः॒ ॥ लाजी(3)न् । शाची(3)न् । यशः॑ । म॒मा(4)ॅम् ॥ य॒व्यायै᳚ । ग॒व्यायै᳚ । ए॒तत् । दे॒वाः॒ । अन्न᳚म् । अ॒त्त॒ । ए॒तत् । अन्न᳚म् । अ॒द्धि॒ । प्र॒जा॒प॒त॒ इति॑ प्रजा - प॒ते॒ ॥ यु॒ञ्जन्ति॑ । ब्र॒द्ध्नम् ( ) । अ॒रु॒षम् । चर॑न्तम् । परीति॑ । त॒स्थुषः॑ ॥ रोच॑न्ते । रो॒च॒ना । दि॒वि ॥ यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या᳚ । हरी॒ इति॑ । विप॑क्ष॒सेति॒ वि - प॒क्ष॒सा॒ । रथे᳚ ॥ शोणा᳚ । धृ॒ष्णू इति॑ । नृ॒वाह॒सेति॑ नृ-वाह॑सा ॥ के॒तुम् । कृ॒ण्वन्न् । अ॒के॒तवे᳚ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे᳚ ॥ समिति॑ । उ॒षद्भि॒रित्यु॒षत् - भिः॒ । अ॒जा॒य॒थाः॒ ॥
पदसंख्या: 75

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पत्न्योश्वमञ्जन्ति । प्राक्क्रोडात् महिषी 'वसवस्त्वाञ्जन्तु गायत्रेण छन्दसा' इति भूरिति च । अथ क्रोडादारभ्या नाभेर्वावाता 'रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसा' इति भुव इति च । तथा नाभेरारभ्य आपुच्छात् परिवृक्तिः 'आदित्यास्त्वाऽञ्जन्तु जागतेन छन्दसा' इति सुवरिति च । गता मन्त्राः ॥
2 अथ शालां नयन्ति - यद्वात इति ॥ पथ्या बृहतीयं, तृतीयस्य पादस्य द्वादशाक्षरत्वात् । पुनरिति तस्यान्तः । हे स्तोतः शव्दयितः वायो यत् येन पथा । ' सुपां सुलुक् ' इति लुक् । वातः प्राणाख्या तव वृत्तिः अपः अगमत् अगमयत् । ' बहुलमन्यत्रापि' इति णिलुक् । ' छन्दस्युभयथा ' इत्यार्धधातुकत्वात् शपः । इन्द्रस्य प्रियां तनुवं तनुम् । ' तन्वादीनां छन्दसि ' इत्युवङ् । एतेन पथा एतं अश्वे पुनरस्मान् प्रत्यावर्तयासि । आवर्तयतेर्लेट्याडागमः । (अस्माकं वा) ॥
3 अश्वाय मधुमिश्रात् लाजान् प्रकिरति - लाजीनित्यनुष्टुभा ॥ हे लाजवन् लाजिन् हे शाचदन् शाचिन् । यशो ममामित्यस्य मम यशोहेतोः । 'परमपि छन्दसि' इति षष्ठ्यन्तस्य पूर्वाङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य स्वरः । त्रयाणामपि पूर्वपूर्वाविद्यमानवद्भावेन भावितं आमन्त्रिताद्युदात्तत्वम् । 'दूराद्धूते च' इत्युदात्तः प्लुतः, तस्यासिद्धत्वादुत्तरस्य वर्जमानस्वराभावः । अन्त्यस्य 'यणोऽप्रतिगृह्यस्य' इति सानुनासिकः प्लुतः । यव्यायै गव्यायै च यूयं नो भवत हे लाजा हे सक्तवः । यवानां समूहो यव्या । 'पाशादिभ्यो यः' । गवां समूहो गव्या 'खलगोरथात्' इति यः । यदन्तश्च स्वभावतः स्त्रियां वर्तते । एतच्चान्नमिव इममश्वं अनुप्रविश्य हे देवाः अत्त । प्रजापते त्वमपि एतदन्नमद्धि । प्राधान्यात् पुनरुपादानं प्रजापतेः । यथा - ब्राह्मणा आयाताः वसिष्ठोप्यायात इति ॥
4 अश्वं रथे युनक्ति - युऽञ्जन्ति ब्रध्रमिति ॥ एतास्तिस्रो गायत्र्यः । युञ्जन्ति युञ्जन्तु ब्रध्नं परिबृढमश्वं अरुषं अरोषणं च - रन्तं साधुचरणं परितस्थुषः परितस्थिवांसः । विभक्तिव्यत्ययः । (व्यष्टिं चिते) रोचन्ते अस्य पृष्ठे रोचनानि रोचमानानि रश्मयः दिवि । 'अनुदात्तेतश्च हलादेः' इति रोचतेर्युच् । 'शेश्छन्दसि' इति शेर्लोपः ॥
5 इतरयोः पृष्ठे संमृज्येते - युञ्जन्ति युञ्जन्तु अस्य काम्या काम्यौ इष्टौ । कामयतेरचो यत्, 'सुपां सुलुक्' इत्याकारः । हरी अश्वौ विपक्षसा विपक्षसौ उभयोः पक्षयोः स्थितौ । पूर्ववदाकारः । रथे शोणा शोणवर्णौ आलोहितौ धृष्णू धर्षणसमर्थौ शत्रूणां नृवाहसा नॄन् वहन्तीति नृवाहसौ मनुष्यवाहौ । 'वहिहाधाञ्भ्यश्छन्दसि' इत्यसुन् । 'कारकपूर्वात्' इति, णिदिति च तत्रानुवर्तते । पूर्ववदाकारः ॥
6 ध्वजं प्रतिमुञ्चति - केतुं ध्वजं कृण्वन् कुर्वन्तु । कृवि हिंसाकरणयोः, लेटि 'धिन्विकृण्व्योरच्' इत्युप्रत्ययः, छान्दसो निघाताभावः । अकेतवे असत्यस्मिन्नज्ञापकाय पेशः रूपं रूपवृन्दं हे मर्याः मनुष्याः । 'छन्दसि निष्टर्क्य' इत्यत्र निपात्यते । अपेशसे असत्यस्मिन् रूपरहिताय । 'नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । तथा हि सति त्वं उषद्भिः ज्वलद्भिरिव समजायथाः ज्वालावानिव संजायस्व । जानातेर्वा छान्दसो जभावः । ज्ञापकेन हेतुना ज्वालावानिव सर्वत्र ज्ञायस्व । 'दृक् स्ववस्स्वतवसाम्' इत्यादिना उषसः तत्वम् ॥
इति सप्तमे चतुर्थे विंशोनुवाकः ॥