द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ᳚र्द्ध्नुव॒न्॒. याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒. याश्चोर्ज॑म॒वारु॑न्धत॒र्द्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒द्ध्नोति॑ द्वाद॒शसु॒ य ए॒वं ॅवेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन् तद्वा ए॒तदृ॒द्धमय॑नं॒ तस्मा॑ ( ) दे॒तद्-गो॒सनि॑ ॥
पदपाठः (Word-by-word)
द्वा॒द॒शे । मा॒सि । शृङ्गा॑णि । प्रेति॑ । अ॒व॒र्त॒न्त॒ । श्र॒द्धयेति॑ श्रत्-धया᳚ । वा॒ । अश्र॑द्ध॒येत्यश्र॑त् - ध॒या॒ । वा॒ । ताः । इ॒माः । याः । तू॒प॒राः । उ॒भय्यः॑ । वाव । ताः । आ॒द्र्ध्नु॒व॒न्न् । याः । च॒ । शृङ्गा॑णि । अस॑न्वन्न् । याः । च॒ । ऊर्ज᳚म् । अ॒वारु॑न्ध॒तेत्य॑व - अरु॑न्धत । ऋ॒द्ध्नोति॑ । द॒शस्विति॑ द॒श - सु॒ । मा॒सु । उ॒त्तिष्ठ॒न्नित्यु॑त्-तिष्ठन्न्॑ । ऋ॒द्ध्नोति॑ । द्वा॒द॒शस्विति॑ द्वाद॒श - सु॒ । यः । ए॒वम् । वेद॑ । प॒देन॑ । खलु॑ । वै । ए॒ते । य॒न्ति॒ । वि॒न्दति॑ । खलु॑ । वै । प॒देन॑ । यन्न् । तत् । वै । ए॒तत् । ऋ॒द्धम् । अय॑नम् । तस्मा᳚त् ( ) । ए॒तत् । गो॒सनीति॑ गो - सनि॑ ॥