प्रश्नः 7 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.7.8.1 TS 4.7.8.1
इ॒द्ध्मश्च॑ मे ब॒र्॒.हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च मउपर॒वाश्च॑ मे ऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी᳚द्ध्रं च मे हवि॒र्द्धानं॑ च मे गृ॒हाश्च॑ ( ) मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे ॥
▶ पदपाठः (Word-by-word)
इ॒द्ध्मः । च॒ । मे॒ । ब॒र्॒.हिः । च॒ । मे॒ । वेदिः॑ । च॒ । मे॒ । धिष्णि॑याः । च॒ । मे॒ । स्रुचः॑ । च॒ । मे॒ । च॒म॒साः । च॒ । मे॒ । ग्रावा॑णः । च॒ । मे॒ । स्वर॑वः । च॒ । मे॒ । उ॒प॒र॒वा इत्यु॑प - र॒वाः । च॒ । मे॒ । अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । च॒ । मे॒ । द्रो॒ण॒क॒ल॒श इति॑ द्रोण-क॒ल॒शः । च॒ । मे॒ । वा॒य॒व्या॑नि । च॒ । मे॒ । पू॒त॒भृदिति॑ पूत - भृत् । च॒ । मे॒ । आ॒ध॒व॒नीय॒ इत्या᳚ - ध॒व॒नीयः॑ । च॒ । मे॒ । आग्नी᳚द्ध्र॒मित्याग्नि॑-इ॒द्ध्र॒म् । च॒ । मे॒ । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । च॒ । मे॒ । गृ॒हाः । च॒ ( ) । मे॒ । सदः॑ । च॒ । मे॒ । पु॒रो॒डाशाः᳚ । च॒ । मे॒ । प॒च॒ताः । च॒ । मे॒ । अ॒व॒भृ॒थ इत्य॑व - भृ॒थः । च॒ । मे॒ । स्व॒गा॒का॒र इति॑ स्वगा - का॒रः । च॒ । मे॒ ॥
पदसंख्या: 66

सायणभाष्यम् — not in the source edition available to this site for this anuvāka.

भट्टभास्करभाष्यम् — not in the source edition available to this site for this anuvāka.