अद्वैतभारती

मूलमात्रम् · The Advaitabharati files do not have this passage yet; the Sanskrit is from Advaita Sharada, and there is no translation.

मन्त्रः १५மந்த்ர꞉ 15 / २०20

स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति व्येव त्वा ज्ञपयिष्यामीति तं पाणावादायोत्तस्थौ तौ ह पुरुषं सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डरवासः सोम राजन्निति स नोत्तस्थौ तं पाणिनापेषं बोधयाञ्चकार स होत्तस्थौ ॥ १५ ॥ஸ ஹோவாசாஜாதஶத்ரு꞉ ப்ரதிலோமம் சைதத்3யத்3ப்3ராஹ்மண꞉ க்ஷத்ரியமுபேயாத்3ப்3ரஹ்ம மே வக்ஷ்யதீதி வ்யேவ த்வா ஜ்ஞபயிஷ்யாமீதி தம் பாணாவாதா3யோத்தஸ்தௌ2 தௌ ஹ புருஷம் ஸுப்தமாஜக்3மதுஸ்தமேதைர்நாமபி4ராமந்த்ரயாஞ்சக்ரே ப்3ருஹந்பாண்ட3ரவாஸ꞉ ஸோம ராஜந்நிதி ஸ நோத்தஸ்தௌ2 தம் பாணிநாபேஷம் போ3த4யாஞ்சகார ஸ ஹோத்தஸ்தௌ2 ॥ 15 ॥

தமிழ்இம்மந்திரத்தின் தமிழ்ப் பொருள் மூலத்தில் இல்லை.
संस्कृतम्
தமிழ்
स होवाच अजातशत्रुः — प्रतिलोमं विपरीतं चैतत् ; किं तत् ? यद्ब्राह्मणः उत्तमवर्णः आचार्यत्वेऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावम् उपेयात् उपगच्छेत् शिष्यवृत्त्या — ब्रह्म मे वक्ष्यतीति ; एतदाचारविधिशास्त्रेषु निषिद्धम् ; तस्मात् तिष्ठ त्वम् आचार्य एव सन् ; विज्ञपयिष्याम्येव त्वामहम् — यस्मिन्विदिते ब्रह्म विदितं भवति, यत्तन्मुख्यं ब्रह्म वेद्यम् । तं गार्ग्यं सलज्जमालक्ष्य विस्रम्भजननाय पाणौ हस्ते आदाय गृहीत्वा उत्तस्थौ उत्थितवान् । तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचित् आजग्मतुः आगतौ । तं च पुरुषं सुप्तं प्राप्य एतैर्नामभिः — बृहन् पाण्डरवासः सोम राजन्नित्येतैः — आमन्त्रयाञ्चक्रे । एवमामन्त्र्यमाणोऽपि स सुप्तः नोत्तस्थौ । तम् अप्रतिबुद्ध्यमानं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार प्रतिबोधितवान् । तेन स होत्तस्थौ । तस्माद्यो गार्ग्येणाभिप्रेतः, नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति ॥ஸ ஹோவாச அஜாதஶத்ரு꞉ — ப்ரதிலோமம் விபரீதம் சைதத் ; கிம் தத் ? யத்3ப்3ராஹ்மண꞉ உத்தமவர்ண꞉ ஆசார்யத்வே(அ)தி4க்ருத꞉ ஸந் க்ஷத்ரியமநாசார்யஸ்வபா4வம் உபேயாத் உபக3ச்சே2த் ஶிஷ்யவ்ருத்த்யா — ப்3ரஹ்ம மே வக்ஷ்யதீதி ; ஏததா3சாரவிதி4ஶாஸ்த்ரேஷு நிஷித்3த4ம் ; தஸ்மாத் திஷ்ட2 த்வம் ஆசார்ய ஏவ ஸந் ; விஜ்ஞபயிஷ்யாம்யேவ த்வாமஹம் — யஸ்மிந்விதி3தே ப்3ரஹ்ம விதி3தம் ப4வதி, யத்தந்முக்2யம் ப்3ரஹ்ம வேத்3யம் । தம் கா3ர்க்3யம் ஸலஜ்ஜமாலக்ஷ்ய விஸ்ரம்ப4ஜநநாய பாணௌ ஹஸ்தே ஆதா3ய க்3ருஹீத்வா உத்தஸ்தௌ2 உத்தி2தவாந் । தௌ ஹ கா3ர்க்3யாஜாதஶத்ரூ புருஷம் ஸுப்தம் ராஜக்3ருஹப்ரதே3ஶே க்வசித் ஆஜக்3மது꞉ ஆக3தௌ । தம் ச புருஷம் ஸுப்தம் ப்ராப்ய ஏதைர்நாமபி4꞉ — ப்3ருஹந் பாண்ட3ரவாஸ꞉ ஸோம ராஜந்நித்யேதை꞉ — ஆமந்த்ரயாஞ்சக்ரே । ஏவமாமந்த்ர்யமாணோ(அ)பி ஸ ஸுப்த꞉ நோத்தஸ்தௌ2 । தம் அப்ரதிபு3த்3த்4யமாநம் பாணிநா ஆபேஷம் ஆபிஷ்ய ஆபிஷ்ய போ3த4யாஞ்சகார ப்ரதிபோ3தி4தவாந் । தேந ஸ ஹோத்தஸ்தௌ2 । தஸ்மாத்3யோ கா3ர்க்3யேணாபி4ப்ரேத꞉, நாஸாவஸ்மிஞ்ச2ரீரே கர்தா போ4க்தா ப்3ரஹ்மேதி ॥
कथं पुनरिदमवगम्यते — सुप्तपुरुषगमनतत्सम्बोधनानुत्थानैः गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं ज्ञापितमिति ? जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म सन्निहितः करणेषु यथा, तथा अजातशत्र्वभिप्रेतोऽपि तत्स्वामी भृत्येष्विव राजा सन्निहित एव ; किं तु भृत्यस्वामिनोः गार्ग्याजातशत्र्वभिप्रेतयोः यद्विवेकावधारणकारणम् , तत् सङ्कीर्णत्वादनवधारितविशेषम् ; यत् द्रष्टृत्वमेव भोक्तुः न दृश्यत्वम् , यच्च अभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम् , तच्च उभयम् इह सङ्कीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम् । ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते, न अभोक्ता — इति नैव निर्णयः स्यादिति । न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्य — यो हि सत्येन च्छन्नः प्राण आत्मा अमृतः वागादिषु अनस्तमितः निम्लोचत्सु, यस्य आपः शरीरं पाण्डरवासाः, यश्च असपत्नत्वात् बृहन् , यश्च सोमो राजा षोडशकलः, स स्वव्यापारारूढो यथानिर्ज्ञात एव अनस्तमितस्वभाव आस्ते ; न च अन्यस्य कस्यचिद्व्यापारः तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः ; तस्मात् स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम् ; न च प्रत्यबुध्यत ; तस्मात् पारिशेष्यात् गार्ग्याभिप्रेतस्य अभोक्तृत्वं ब्रह्मणः । भोक्तृस्वभावश्चेत् भुञ्जीतैव स्वं विषयं प्राप्तम् ; न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन् वह्निः तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति ; न चेत् दहति प्रकाशयति वा प्राप्तं स्वं विषयम् , नासौ वह्निः दग्धा प्रकाशयिता वेति निश्चीयते ; तथा असौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेत् गार्ग्याभिप्रेतः प्राणः, बृहन्पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत — यथा प्राप्तं तृणोलपादि वह्निः दहेत् प्रकाशयेच्च अव्यभिचारेण तद्वत् । तस्मात् प्राप्तानां शब्दादीनाम् अप्रतिबोधात् अभोक्तृस्वभाव इति निश्चीयते ; न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ; अतः सिद्धं प्राणस्याभोक्तृत्वम् । सम्बोधनार्थनामविशेषेण सम्बन्धाग्रहणात् अप्रतिबोध इति चेत् — स्यादेतत् — यथा बहुष्वासीनेषु स्वनामविशेषेण सम्बन्धाग्रहणात् मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानः विशेषतो न प्रतिपद्यते ; तथा इमानि बृहन्नित्येवमादीनि मम नामानीति अगृहीतसम्बन्धत्वात् प्राणो न गृह्णाति सम्बोधनार्थं शब्दम् , न त्वविज्ञातृत्वादेव — इति चेत् — न, देवताभ्युपगमे अग्रहणानुपपत्तेः ; यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तया संव्यवहाराय विशेषनाम्ना सम्बन्धोऽवश्यं ग्रहीतव्यः ; अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्नः स्यात् । व्यतिरिक्तपक्षेऽपि अप्रतिपत्तेः अयुक्तमिति चेत् — यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः सम्बोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात् प्रतिपत्तिर्युक्ता ; न च कदाचिदपि बृहत्त्वादिशब्दैः सम्बोधितः प्रतिपद्यमानो दृश्यते ; तस्मात् अकारणम् अभोक्तृत्वे सम्बोधनाप्रतिपत्तिरिति चेत् — न, तद्वतः तावन्मात्राभिमानानुपपत्तेः ; यस्य प्राणव्यतिरिक्तो भोक्ता, सः प्राणादिकरणवान् प्राणी ; तस्य न प्राणदेवतामात्रेऽभिमानः, यथा हस्ते ; तस्मात् प्राणनामसम्बोधने कृत्स्नाभिमानिनो युक्तैव अप्रतिपत्तिः, न तु प्राणस्य असाधारणनामसंयोगे ; देवतात्मत्वानभिमानाच्च आत्मनः । स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत् — सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः ; तथा भोक्तापि सन् प्राणो न प्रतिपद्यत इति चेत् — न, आत्मप्राणयोः सुप्तासुप्तत्वविशेषोपपत्तेः ; सुषुप्तत्वात् प्राणग्रस्ततया उपरतकरण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ; न तु तत् असुप्तस्य प्राणस्य भोक्तृत्वे उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम् । अप्रसिद्धनामभिः सम्बोधनमयुक्तमिति चेत् — सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि ; तान्यपोह्य अप्रसिद्धैर्बृहत्त्वादिनामभिः सम्बोधनमयुक्तम् , लौकिकन्यायापोहात् ; तस्मात् भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत् — न देवताप्रत्याख्यानार्थत्वात् ; केवलसम्बोधनमात्राप्रतिपत्त्यैव असुप्तस्य आध्यात्मिकस्य प्राणस्याभोक्तृत्वे सिद्धे, यत् चन्द्रदेवताविषयैर्नामभिः सम्बोधनम् , तत् चन्द्रदेवता प्राणः अस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम् ; न हि तत् लौकिकनाम्ना सम्बोधने शक्यं कर्तुम् । प्राणप्रत्याख्यानेनैव प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेः भोक्तृत्वाशङ्कानुपपत्तिः । देवतान्तराभावाच्च ; ननु अतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत् , न, तस्य प्राण एव एकत्वाभ्युपगमात् सर्वश्रुतिषु अरनाभिनिदर्शनेन, ‘सत्येन च्छन्नः’ ‘प्राणो वा अमृतम्’ (बृ. उ. १ । ६ । ३) इति च प्राणबाह्यस्य अन्यस्य अनभ्युपगमात् भोक्तुः । ‘एष उ ह्येव सर्वे देवाः, कतम एको देव इति, प्राणः’ (बृ. उ. ३ । ९ । ९) इति च सर्वदेवानां प्राण एव एकत्वोपपादनाच्च । तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छादिप्रतिसन्धानानुपपत्तेः ; न हि अन्यदृष्टम् अन्यः स्मरति जानाति इच्छति प्रतिसन्दधाति वा ; तस्मात् न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते । ननु सङ्घात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति — न, आपेषणे विशेषदर्शनात् ; यदि हि प्राणशरीरसङ्घातमात्रो भोक्ता स्यात् सङ्घातमात्राविशेषात् सदा आपिष्टस्य अनापिष्टस्य च प्रतिबोधे विशेषो न स्यात् ; सङ्घातव्यतिरिक्ते तु पुनर्भोक्तरि सङ्घातसम्बन्धविशेषानेकत्वात् पेषणापेषणकृतवेदनायाः सुखदुःखमोहमध्यमाधामोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः ; न तु सङ्घातमात्रे सम्बन्धकर्मफलभेदानुपपत्तेः विशेषो युक्तः ; तथा शब्दादिपटुमान्द्यादिकृतश्च । अस्ति चायं विशेषः — यस्मात् स्पर्शमात्रेण अप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषम् आपिष्य आपिष्य बोधयाञ्चकार अजातशत्रुः । तस्मात् यः आपेषणेन प्रतिबुबुधे — ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेन आपादयन् , सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम् । संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य ; गृहस्य स्तम्भादिवत् शरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम — अरनेमिवच्च, नाभिस्थानीय एतस्मिन्सर्वमिति च ; तस्मात् गृहादिवत् स्वावयवसमुदायजातीयव्यतिरिक्तार्थं संहन्यत इत्येवम् अवगच्छाम । स्तम्भकुड्यतृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं दृष्ट्वा, मन्यामहे, तत्सङ्घातस्य च — तथा प्राणाद्यवयवानां तत्सङ्घातस्य च स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्मनिरपेक्षलब्धसत्तादि — तद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति । देवताचेतनावत्त्वे समत्वाद्गुणभावानुपगम इति चेत् — प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनात् चेतनावत्त्वमभ्युपगतम् ; चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत् — न निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् क्रियाकारकफलात्मकता हि आत्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता ; तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षणः संसारः ; स निरूपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषया उपनिषदारम्भः — ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । १ । १) ‘नैतावता विदितं भवति’ (बृ. उ. २ । १ । १) इति च उपक्रम्य ‘एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४ । ५ । १५) इति च उपसंहारात् ; न च अतोऽन्यत् अन्तराले विवक्षितम् उक्तं वा अस्ति ; तस्मादनवसरः समत्वाद्गुणभावानुपगम इति चोद्यस्य । विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य ; निरुपाख्यो हि विजिज्ञापयिषितः सर्वस्यामुपनिषदि, ‘स एष नेति नेति’ (बृ. उ. ४ । ५ । १५) इत्युपसंहारात् । तस्मात् आदित्यादिब्रह्मभ्य एतेभ्योऽविज्ञानमयेभ्यो विलक्षणः अन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥கத2ம் புநரித3மவக3ம்யதே — ஸுப்தபுருஷக3மநதத்ஸம்போ3த4நாநுத்தா2நை꞉ கா3ர்க்3யாபி4மதஸ்ய ப்3ரஹ்மணோ(அ)ப்3ரஹ்மத்வம் ஜ்ஞாபிதமிதி ? ஜாக3ரிதகாலே யோ கா3ர்க்3யாபி4ப்ரேத꞉ புருஷ꞉ கர்தா போ4க்தா ப்3ரஹ்ம ஸந்நிஹித꞉ கரணேஷு யதா2, ததா2 அஜாதஶத்ர்வபி4ப்ரேதோ(அ)பி தத்ஸ்வாமீ ப்4ருத்யேஷ்விவ ராஜா ஸந்நிஹித ஏவ ; கிம் து ப்4ருத்யஸ்வாமிநோ꞉ கா3ர்க்3யாஜாதஶத்ர்வபி4ப்ரேதயோ꞉ யத்3விவேகாவதா4ரணகாரணம் , தத் ஸங்கீர்ணத்வாத3நவதா4ரிதவிஶேஷம் ; யத் த்3ரஷ்ட்ருத்வமேவ போ4க்து꞉ ந த்3ருஶ்யத்வம் , யச்ச அபோ4க்துர்த்3ருஶ்யத்வமேவ ந து த்3ரஷ்ட்ருத்வம் , தச்ச உப4யம் இஹ ஸங்கீர்ணத்வாத்3விவிச்ய த3ர்ஶயிதுமஶக்யமிதி ஸுப்தபுருஷக3மநம் । நநு ஸுப்தே(அ)பி புருஷே விஶிஷ்டைர்நாமபி4ராமந்த்ரிதோ போ4க்தைவ ப்ரதிபத்ஸ்யதே, ந அபோ4க்தா — இதி நைவ நிர்ணய꞉ ஸ்யாதி3தி । ந, நிர்தா4ரிதவிஶேஷத்வாத்3கா3ர்க்3யாபி4ப்ரேதஸ்ய — யோ ஹி ஸத்யேந ச்ச2ந்ந꞉ ப்ராண ஆத்மா அம்ருத꞉ வாகா3தி3ஷு அநஸ்தமித꞉ நிம்லோசத்ஸு, யஸ்ய ஆப꞉ ஶரீரம் பாண்ட3ரவாஸா꞉, யஶ்ச அஸபத்நத்வாத் ப்3ருஹந் , யஶ்ச ஸோமோ ராஜா ஷோட3ஶகல꞉, ஸ ஸ்வவ்யாபாராரூடோ4 யதா2நிர்ஜ்ஞாத ஏவ அநஸ்தமிதஸ்வபா4வ ஆஸ்தே ; ந ச அந்யஸ்ய கஸ்யசித்3வ்யாபார꞉ தஸ்மிந்காலே கா3ர்க்3யேணாபி4ப்ரேயதே தத்3விரோதி4ந꞉ ; தஸ்மாத் ஸ்வநாமபி4ராமந்த்ரிதேந ப்ரதிபோ3த்3த4வ்யம் ; ந ச ப்ரத்யபு3த்4யத ; தஸ்மாத் பாரிஶேஷ்யாத் கா3ர்க்3யாபி4ப்ரேதஸ்ய அபோ4க்த்ருத்வம் ப்3ரஹ்மண꞉ । போ4க்த்ருஸ்வபா4வஶ்சேத் பு4ஞ்ஜீதைவ ஸ்வம் விஷயம் ப்ராப்தம் ; ந ஹி த3க்3த்4ருஸ்வபா4வ꞉ ப்ரகாஶயித்ருஸ்வபா4வ꞉ ஸந் வஹ்நி꞉ த்ருணோலபாதி3 தா3ஹ்யம் ஸ்வவிஷயம் ப்ராப்தம் ந த3ஹதி, ப்ரகாஶ்யம் வா ந ப்ரகாஶயதி ; ந சேத் த3ஹதி ப்ரகாஶயதி வா ப்ராப்தம் ஸ்வம் விஷயம் , நாஸௌ வஹ்நி꞉ த3க்3தா4 ப்ரகாஶயிதா வேதி நிஶ்சீயதே ; ததா2 அஸௌ ப்ராப்தஶப்3தா3தி3விஷயோபலப்3த்4ருஸ்வபா4வஶ்சேத் கா3ர்க்3யாபி4ப்ரேத꞉ ப்ராண꞉, ப்3ருஹந்பாண்ட3ரவாஸ இத்யேவமாதி3ஶப்3த3ம் ஸ்வம் விஷயமுபலபே4த — யதா2 ப்ராப்தம் த்ருணோலபாதி3 வஹ்நி꞉ த3ஹேத் ப்ரகாஶயேச்ச அவ்யபி4சாரேண தத்3வத் । தஸ்மாத் ப்ராப்தாநாம் ஶப்3தா3தீ3நாம் அப்ரதிபோ3தா4த் அபோ4க்த்ருஸ்வபா4வ இதி நிஶ்சீயதே ; ந ஹி யஸ்ய ய꞉ ஸ்வபா4வோ நிஶ்சித꞉, ஸ தம் வ்யபி4சரதி கதா3சித3பி ; அத꞉ ஸித்3த4ம் ப்ராணஸ்யாபோ4க்த்ருத்வம் । ஸம்போ3த4நார்த2நாமவிஶேஷேண ஸம்ப3ந்தா4க்3ரஹணாத் அப்ரதிபோ3த4 இதி சேத் — ஸ்யாதே3தத் — யதா2 ப3ஹுஷ்வாஸீநேஷு ஸ்வநாமவிஶேஷேண ஸம்ப3ந்தா4க்3ரஹணாத் மாமயம் ஸம்போ3த4யதீதி, ஶ்ருண்வந்நபி ஸம்போ3த்4யமாந꞉ விஶேஷதோ ந ப்ரதிபத்3யதே ; ததா2 இமாநி ப்3ருஹந்நித்யேவமாதீ3நி மம நாமாநீதி அக்3ருஹீதஸம்ப3ந்த4த்வாத் ப்ராணோ ந க்3ருஹ்ணாதி ஸம்போ3த4நார்த2ம் ஶப்3த3ம் , ந த்வவிஜ்ஞாத்ருத்வாதே3வ — இதி சேத் — ந, தே3வதாப்4யுபக3மே அக்3ரஹணாநுபபத்தே꞉ ; யஸ்ய ஹி சந்த்3ராத்3யபி4மாநிநீ தே3வதா அத்4யாத்மம் ப்ராணோ போ4க்தா அப்4யுபக3ம்யதே, தஸ்ய தயா ஸம்வ்யவஹாராய விஶேஷநாம்நா ஸம்ப3ந்தோ4(அ)வஶ்யம் க்3ரஹீதவ்ய꞉ ; அந்யதா2 ஆஹ்வாநாதி3விஷயே ஸம்வ்யவஹாரோ(அ)நுபபந்ந꞉ ஸ்யாத் । வ்யதிரிக்தபக்ஷே(அ)பி அப்ரதிபத்தே꞉ அயுக்தமிதி சேத் — யஸ்ய ச ப்ராணவ்யதிரிக்தோ போ4க்தா, தஸ்யாபி ப்3ருஹந்நித்யாதி3நாமபி4꞉ ஸம்போ3த4நே ப்3ருஹத்த்வாதி3நாம்நாம் ததா3 தத்3விஷயத்வாத் ப்ரதிபத்திர்யுக்தா ; ந ச கதா3சித3பி ப்3ருஹத்த்வாதி3ஶப்3தை3꞉ ஸம்போ3தி4த꞉ ப்ரதிபத்3யமாநோ த்3ருஶ்யதே ; தஸ்மாத் அகாரணம் அபோ4க்த்ருத்வே ஸம்போ3த4நாப்ரதிபத்திரிதி சேத் — ந, தத்3வத꞉ தாவந்மாத்ராபி4மாநாநுபபத்தே꞉ ; யஸ்ய ப்ராணவ்யதிரிக்தோ போ4க்தா, ஸ꞉ ப்ராணாதி3கரணவாந் ப்ராணீ ; தஸ்ய ந ப்ராணதே3வதாமாத்ரே(அ)பி4மாந꞉, யதா2 ஹஸ்தே ; தஸ்மாத் ப்ராணநாமஸம்போ3த4நே க்ருத்ஸ்நாபி4மாநிநோ யுக்தைவ அப்ரதிபத்தி꞉, ந து ப்ராணஸ்ய அஸாதா4ரணநாமஸம்யோகே3 ; தே3வதாத்மத்வாநபி4மாநாச்ச ஆத்மந꞉ । ஸ்வநாமப்ரயோகே3(அ)ப்யப்ரதிபத்தித3ர்ஶநாத3யுக்தமிதி சேத் — ஸுஷுப்தஸ்ய யல்லௌகிகம் தே3வத3த்தாதி3 நாம தேநாபி ஸம்போ3த்4யமாந꞉ கதா3சிந்ந ப்ரதிபத்3யதே ஸுஷுப்த꞉ ; ததா2 போ4க்தாபி ஸந் ப்ராணோ ந ப்ரதிபத்3யத இதி சேத் — ந, ஆத்மப்ராணயோ꞉ ஸுப்தாஸுப்தத்வவிஶேஷோபபத்தே꞉ ; ஸுஷுப்தத்வாத் ப்ராணக்3ரஸ்ததயா உபரதகரண ஆத்மா ஸ்வம் நாம ப்ரயுஜ்யமாநமபி ந ப்ரதிபத்3யதே ; ந து தத் அஸுப்தஸ்ய ப்ராணஸ்ய போ4க்த்ருத்வே உபரதகரணத்வம் ஸம்போ3த4நாக்3ரஹணம் வா யுக்தம் । அப்ரஸித்3த4நாமபி4꞉ ஸம்போ3த4நமயுக்தமிதி சேத் — ஸந்தி ஹி ப்ராணவிஷயாணி ப்ரஸித்3தா4நி ப்ராணாதி3நாமாநி ; தாந்யபோஹ்ய அப்ரஸித்3தை4ர்ப்3ருஹத்த்வாதி3நாமபி4꞉ ஸம்போ3த4நமயுக்தம் , லௌகிகந்யாயாபோஹாத் ; தஸ்மாத் போ4க்துரேவ ஸத꞉ ப்ராணஸ்யாப்ரதிபத்திரிதி சேத் — ந தே3வதாப்ரத்யாக்2யாநார்த2த்வாத் ; கேவலஸம்போ3த4நமாத்ராப்ரதிபத்த்யைவ அஸுப்தஸ்ய ஆத்4யாத்மிகஸ்ய ப்ராணஸ்யாபோ4க்த்ருத்வே ஸித்3தே4, யத் சந்த்3ரதே3வதாவிஷயைர்நாமபி4꞉ ஸம்போ3த4நம் , தத் சந்த்3ரதே3வதா ப்ராண꞉ அஸ்மிஞ்ச2ரீரே போ4க்தேதி கா3ர்க்3யஸ்ய விஶேஷப்ரதிபத்திநிராகரணார்த2ம் ; ந ஹி தத் லௌகிகநாம்நா ஸம்போ3த4நே ஶக்யம் கர்தும் । ப்ராணப்ரத்யாக்2யாநேநைவ ப்ராணக்3ரஸ்தத்வாத்கரணாந்தராணாம் ப்ரவ்ருத்த்யநுபபத்தே꞉ போ4க்த்ருத்வாஶங்காநுபபத்தி꞉ । தே3வதாந்தராபா4வாச்ச ; நநு அதிஷ்டா2 இத்யாத்3யாத்மந்வீத்யந்தேந க்3ரந்தே2ந கு3ணவத்3தே3வதாபே4த3ஸ்ய த3ர்ஶிதத்வாதி3தி சேத் , ந, தஸ்ய ப்ராண ஏவ ஏகத்வாப்4யுபக3மாத் ஸர்வஶ்ருதிஷு அரநாபி4நித3ர்ஶநேந, ‘ஸத்யேந ச்ச2ந்ந꞉’ ‘ப்ராணோ வா அம்ருதம்’ (ப்3ரு. உ. 1 । 6 । 3) இதி ச ப்ராணபா3ஹ்யஸ்ய அந்யஸ்ய அநப்4யுபக3மாத் போ4க்து꞉ । ‘ஏஷ உ ஹ்யேவ ஸர்வே தே3வா꞉, கதம ஏகோ தே3வ இதி, ப்ராண꞉’ (ப்3ரு. உ. 3 । 9 । 9) இதி ச ஸர்வதே3வாநாம் ப்ராண ஏவ ஏகத்வோபபாத3நாச்ச । ததா2 கரணபே4தே3ஷ்வநாஶங்கா, தே3ஹபே4தே3ஷ்விவ ஸ்ம்ருதிஜ்ஞாநேச்சா2தி3ப்ரதிஸந்தா4நாநுபபத்தே꞉ ; ந ஹி அந்யத்3ருஷ்டம் அந்ய꞉ ஸ்மரதி ஜாநாதி இச்ச2தி ப்ரதிஸந்த3தா4தி வா ; தஸ்மாத் ந கரணபே4த3விஷயா போ4க்த்ருத்வாஶங்கா விஜ்ஞாநமாத்ரவிஷயா வா கதா3சித3ப்யுபபத்3யதே । நநு ஸங்கா4த ஏவாஸ்து போ4க்தா, கிம் வ்யதிரிக்தகல்பநயேதி — ந, ஆபேஷணே விஶேஷத3ர்ஶநாத் ; யதி3 ஹி ப்ராணஶரீரஸங்கா4தமாத்ரோ போ4க்தா ஸ்யாத் ஸங்கா4தமாத்ராவிஶேஷாத் ஸதா3 ஆபிஷ்டஸ்ய அநாபிஷ்டஸ்ய ச ப்ரதிபோ3தே4 விஶேஷோ ந ஸ்யாத் ; ஸங்கா4தவ்யதிரிக்தே து புநர்போ4க்தரி ஸங்கா4தஸம்ப3ந்த4விஶேஷாநேகத்வாத் பேஷணாபேஷணக்ருதவேத3நாயா꞉ ஸுக2து3꞉க2மோஹமத்4யமாதா4மோத்தமகர்மப2லபே4தோ3பபத்தேஶ்ச விஶேஷோ யுக்த꞉ ; ந து ஸங்கா4தமாத்ரே ஸம்ப3ந்த4கர்மப2லபே4தா3நுபபத்தே꞉ விஶேஷோ யுக்த꞉ ; ததா2 ஶப்3தா3தி3படுமாந்த்3யாதி3க்ருதஶ்ச । அஸ்தி சாயம் விஶேஷ꞉ — யஸ்மாத் ஸ்பர்ஶமாத்ரேண அப்ரதிபு3த்4யமாநம் புருஷம் ஸுப்தம் பாணிநா ஆபேஷம் ஆபிஷ்ய ஆபிஷ்ய போ3த4யாஞ்சகார அஜாதஶத்ரு꞉ । தஸ்மாத் ய꞉ ஆபேஷணேந ப்ரதிபு3பு3தே4 — ஜ்வலந்நிவ ஸ்பு2ரந்நிவ குதஶ்சிதா3க3த இவ பிண்ட3ம் ச பூர்வவிபரீதம் போ3த4சேஷ்டாகாரவிஶேஷாதி3மத்த்வேந ஆபாத3யந் , ஸோ(அ)ந்யோ(அ)ஸ்தி கா3ர்க்3யாபி4மதப்3ரஹ்மப்4யோ வ்யதிரிக்த இதி ஸித்3த4ம் । ஸம்ஹதத்வாச்ச பாரார்த்2யோபபத்தி꞉ ப்ராணஸ்ய ; க்3ருஹஸ்ய ஸ்தம்பா4தி3வத் ஶரீரஸ்ய அந்தருபஷ்டம்ப4க꞉ ப்ராண꞉ ஶரீராதி3பி4꞉ ஸம்ஹத இத்யவோசாம — அரநேமிவச்ச, நாபி4ஸ்தா2நீய ஏதஸ்மிந்ஸர்வமிதி ச ; தஸ்மாத் க்3ருஹாதி3வத் ஸ்வாவயவஸமுதா3யஜாதீயவ்யதிரிக்தார்த2ம் ஸம்ஹந்யத இத்யேவம் அவக3ச்சா2ம । ஸ்தம்ப4குட்3யத்ருணகாஷ்டா2தி3க்3ருஹாவயவாநாம் ஸ்வாத்மஜந்மோபசயாபசயவிநாஶநாமாக்ருதிகார்யத4ர்மநிரபேக்ஷலப்3த4ஸத்தாதி3 — தத்3விஷயத்3ரஷ்ட்ருஶ்ரோத்ருமந்த்ருவிஜ்ஞாத்ரர்த2த்வம் த்3ருஷ்ட்வா, மந்யாமஹே, தத்ஸங்கா4தஸ்ய ச — ததா2 ப்ராணாத்3யவயவாநாம் தத்ஸங்கா4தஸ்ய ச ஸ்வாத்மஜந்மோபசயாபசயவிநாஶநாமாக்ருதிகார்யத4ர்மநிரபேக்ஷலப்3த4ஸத்தாதி3 — தத்3விஷயத்3ரஷ்ட்ருஶ்ரோத்ருமந்த்ருவிஜ்ஞாத்ரர்த2த்வம் ப4விதுமர்ஹதீதி । தே3வதாசேதநாவத்த்வே ஸமத்வாத்3கு3ணபா4வாநுபக3ம இதி சேத் — ப்ராணஸ்ய விஶிஷ்டைர்நாமபி4ராமந்த்ரணத3ர்ஶநாத் சேதநாவத்த்வமப்4யுபக3தம் ; சேதநாவத்த்வே ச பாரார்த்2யோபக3ம꞉ ஸமத்வாத3நுபபந்ந இதி சேத் — ந நிருபாதி4கஸ்ய கேவலஸ்ய விஜிஜ்ஞாபயிஷிதத்வாத் க்ரியாகாரகப2லாத்மகதா ஹி ஆத்மநோ நாமரூபோபாதி4ஜநிதா அவித்3யாத்4யாரோபிதா ; தந்நிமித்தோ லோகஸ்ய க்ரியாகாரகப2லாபி4மாநலக்ஷண꞉ ஸம்ஸார꞉ ; ஸ நிரூபாதி4காத்மஸ்வரூபவித்3யயா நிவர்தயிதவ்ய இதி தத்ஸ்வரூபவிஜிஜ்ஞாபயிஷயா உபநிஷதா3ரம்ப4꞉ — ‘ப்3ரஹ்ம தே ப்3ரவாணி’ (ப்3ரு. உ. 2 । 1 । 1) ‘நைதாவதா விதி3தம் ப4வதி’ (ப்3ரு. உ. 2 । 1 । 1) இதி ச உபக்ரம்ய ‘ஏதாவத3ரே க2ல்வம்ருதத்வம்’ (ப்3ரு. உ. 4 । 5 । 15) இதி ச உபஸம்ஹாராத் ; ந ச அதோ(அ)ந்யத் அந்தராலே விவக்ஷிதம் உக்தம் வா அஸ்தி ; தஸ்மாத3நவஸர꞉ ஸமத்வாத்3கு3ணபா4வாநுபக3ம இதி சோத்3யஸ்ய । விஶேஷவதோ ஹி ஸோபாதி4கஸ்ய ஸம்வ்யவஹாரார்தோ2 கு3ணகு3ணிபா4வ꞉, ந விபரீதஸ்ய ; நிருபாக்2யோ ஹி விஜிஜ்ஞாபயிஷித꞉ ஸர்வஸ்யாமுபநிஷதி3, ‘ஸ ஏஷ நேதி நேதி’ (ப்3ரு. உ. 4 । 5 । 15) இத்யுபஸம்ஹாராத் । தஸ்மாத் ஆதி3த்யாதி3ப்3ரஹ்மப்4ய ஏதேப்4யோ(அ)விஜ்ஞாநமயேப்4யோ விலக்ஷண꞉ அந்யோ(அ)ஸ்தி விஜ்ஞாநமய இத்யேதத்ஸித்3த4ம் ॥
இப்பகுதிக்கு மொழிபெயர்ப்பு இன்னும் இல்லை.
இப்பகுதிக்கு மொழிபெயர்ப்பு இன்னும் இல்லை.