पञ्चशत् 1 #
त्रिꣳ॒॒शत्त्रय॑श्च ग॒णिनो॑ रु॒जन्तो॒ दिवꣳ॑ रु॒द्राः पृ॑थि॒वीं च॑ सचन्ते । ए॒का॒द॒शासो॑ अफ्सु॒षदः॑ सु॒तꣳ सोमं॑ जुषन्ताꣳ॒॒ सव॑नाय॒ विश्वे᳚ ॥ उ॒प॒या॒मगृ॑हीतो -ऽस्याग्रय॒णो॑ऽसि॒ स्वा᳚ग्रयणो॒ जिन्व॑ य॒ज्ञ्ं जिन्व॑ य॒ज्ञ्प॑तिम॒भि सव॑ना पाहि॒ विष्णु॒स्त्वां पा॑तु॒ विशं॒ त्वं पा॑हीन्द्रि॒येणै॒ष ते॒ योनि॒र् विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥
पदपाठः (Word-by-word)
त्रिꣳ॒॒शत् । त्रयः॑ । च॒ । ग॒णिनः॑ । रु॒जन्तः॑ । दिव᳚म् । रु॒द्राः । पृ॒थि॒वीम् । च॒ । स॒च॒न्ते॒ ॥ ए॒का॒द॒शासः॑ । अ॒फ्सु॒षद॒ इत्य॑फ्सु-सदः॑ । सु॒तम् । सोम᳚म् । जु॒ष॒न्ता॒म् । सव॑नाय । विश्वे᳚ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । आ॒ग्र॒य॒णः । अ॒सि॒ । स्वा᳚ग्रयण॒ इति॒ सु - आ॒ग्र॒य॒णः॒ । जिन्व॑ । य॒ज्ञ्म् । जिन्व॑ । य॒ज्ञ्प॑ति॒मिति॑ य॒ज्ञ् - प॒ति॒म् । अ॒भीति॑ । सव॑ना । पा॒हि॒ । विष्णुः॑ । त्वाम् । पा॒तु॒ । विश᳚म् । त्वम् । पा॒हि॒ । इ॒न्द्रि॒येण॑ । ए॒षः । ते॒ । योनिः॑ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ ॥
सायणभाष्यम् (Sayana Commentary)
Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.10. (अथ प्रथमकाण्डे चतुर्थप्रपाठके दशमैकादशानुवाकौ)।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 आग्रयणमेव भ्रातृव्यवतो गृह्णाति - त्रिंशदिति चतुष्पदया त्रिष्टुभा ॥ 'रुग्णवत्यर्चा भ्रातृव्यवतः' इति ब्राह्मणम् । त्रिंशत्त्रयश्च गणिनः गणवन्तः एकादशात्मकैस्त्रिभिर्गणैश्च तद्वन्तः रुजन्तस्सामर्थ्याद्भ्रातृव्यान् । रुजो भङ्गे तौदादिकः । रुद्राः रोदयितारः शत्रूणां नारीणाम् । 'रोदेर्णिलुक्च' इति रक्प्रत्ययः । एवांविधा एकादशास एकादशाना पूरणाः । पूरणप्रत्ययान्तात् 'आज्जसेरसुक्' । एतदुक्तं भवति - ये त्रिंशद्देवा दशवर्गत्रयात्मकाः ये च त्रयो गणिनः तत्तद्दशात्मकगणवन्त एकादशास्स्वयमिति इत्थं त्रयस्त्रिशत्सम्पद्यन्ते । क्व पुनस्ते वर्तन्ते? इत्याह - ये दिवं सचन्ते सेवन्ते, ये च पृथिवीं, ये चाप्सुषदः अन्तरिक्षेणावतीर्णाः; पूरणप्रत्ययान्ता वा ये त्रयो गणिनः, त्रयश्च गणा वर्तन्त इति; ते च विश्वे देवाः इमं सुतं सोमं आग्रयणाख्यं जुषन्तां सेवन्तां सवनाय सवनार्थं तृतीयसवनार्थं; तत्र हि तस्य सावित्रपात्नीवतहारियोजनेषु विनियोगः । यद्वा - तृतीयसवने जुषन्तामिति सप्तम्यर्थे चतुर्थी । 'रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात्' इति ब्राह्मणम् ॥
इत्यनुद्रुत्य उपयामगृहीतोसीति यजुरादिकया गृह्णाति ॥
2 अधिवदते - आग्रयणोसीत्यादि ॥
3 एष ते योनिरित्यादिना सादयति ॥
इति चतुर्थे एकादशः ॥