पञ्चशत् 1 #
म॒हाꣳ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु । स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मानं॒ ॅयो᳚ऽस्मान् द्वेष्टि॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥
पदपाठः (Word-by-word)
म॒हान् । इन्द्रः॑ । वज्र॑बाहु॒रिति॒ वज्र॑ - बा॒हुः॒ । षो॒ड॒शी । शर्म॑ । य॒च्छ॒तु॒ ॥ स्व॒स्ति । नः॒ । म॒घवेति॑ म॒घ - वा॒ । क॒रो॒तु॒ । हन्तु॑ । पा॒प्मान᳚म् । यः । अ॒स्मान् । द्वेष्टि॑ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ ॥
सायणभाष्यम् (Sayana Commentary)
Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.29. (अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 महाꣳ इन्द्र इत्यादि । इयमप्यनुष्टुप् ॥ महत्त्वादिगुणविशिष्ट इन्द्रः अस्मभ्यं शर्म सुखं यच्छतु ददातु । स्वस्ति अविनाशं चास्माकं करोतु । हन्तु चास्माकं पाप्मानं पापम् । योस्मान्द्वेष्टि तं च हन्तु । यद्वा - योस्मान्द्वेष्टि तं पाप्मानं हन्तु ॥
2 -3ग्रहणसादने स्पष्टे ॥
इति चतुर्थे पञ्चत्रिंशोनुवाकः ॥