अनुवाकः 9 TS 1.4.9

(A9)

(तं प्र॒त्नया॒-षट्विꣳ॑शतिः )

अनुवाकः 9 - Complete Audio

TS 1.4.9 - स्वरानुगामी

0:00 0:00
PS1.1 तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा᳚
PS1.2 ज्ये॒ष्ठता॑तिं बर्.हि॒षदꣳ॑ सुव॒र्विदं॑ प्रतीची॒नं
PS1.3 ॅवृ॒जनं॑ दोहसे गि॒राऽऽशुं जय॑न्त॒मनु॒
PS1.4 यासु॒ वर्द्ध॑से
PS1.5 उ॒प॒या॒मगृ॑हीतो-ऽसि॒ मर्का॑य त्वै॒ष ते॒
PS1.6 योनिः॑ प्र॒जाः पा॑हि

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.9.1 TS 1.4.9.1
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता॑तिं बर्.हि॒षदꣳ॑ सुव॒र्विदं॑ प्रतीची॒नं ॅवृ॒जनं॑ दोहसे गि॒राऽऽशुं जय॑न्त॒मनु॒ यासु॒ वर्द्ध॑से । उ॒प॒या॒मगृ॑हीतो-ऽसि॒ मर्का॑य त्वै॒ष ते॒ योनिः॑ प्र॒जाः पा॑हि ॥
▶ पदपाठः (Word-by-word)
तम् । प्र॒त्नथा᳚ । पू॒र्वथा᳚ । वि॒श्वथा᳚ । इ॒मथा᳚ । ज्ये॒ष्ठता॑ति॒मिति॑ ज्ये॒ष्ठ - ता॒ति॒म् । ब॒र्॒.हि॒षद॒मिति॑ बर्.हि - सद᳚म् । सु॒व॒र्विद॒मिति॑ सुवः - विद᳚म् । प्र॒ती॒ची॒नम् । वृ॒जन᳚म् । दो॒ह॒से॒ । गि॒रा । आ॒शुम् । जय॑न्तम् । अन्विति॑ । यासु॑ । वर्ध॑से ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । मर्का॑य । त्वा॒ । ए॒षः । ते॒ । योनिः॑ । प्र॒जा इति॑ प्र - जाः । पा॒हि॒ ॥
पदसंख्या: 26
▶ सायणभाष्यम् (Sayana Commentary)

Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.8. (अथ प्रथमाष्टके चतुर्थप्रपाठकेऽष्टमनवमानुवाकौ)।

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 मन्थिनं गृह्णाति - तं प्रत्नथेति चतुष्पदया जगत्या ॥ अत्रापि स एवेन्द्रः प्रत्यक्षेण स्तूयते । प्रत्नशब्दः पुराणवचनः । 'प्रगस्य गलोपः' इति व्युत्पादितः । थेत्युपमायाम् । 'प्रत्नपूर्वविश्वेमात्थाल् छन्दसि' इति थाल्, लिति प्रत्ययात्पूर्वस्योदात्तत्वम् । तमित्यत्र त्वां स्तुम इति शेषः । अयमर्थः - यथा शक्त्यादयः पुराणास्त्वामस्तुवन् तथा वयमपि त्वां स्तुमः । यथा च ततोपि पूर्वे भृगुप्रभृतयो मदीयाः पित्रादयो वा त्वामस्तुवन् तथा वयं स्तुमः । यथा विश्वेपि त्वां स्तुवन्ति तथा च स्तुमः । यथा वा इमे वर्तमानास्त्वां स्तुवन्ति तथा स्तुमः । कीदृशम् ? ज्येष्ठतातिं प्रशस्यतमम् । 'वृकज्येष्ठाभ्याम्' इति स्यार्थिकस्तातिल्प्रत्ययः । बर्हिषि यागे सीदतीति बर्हिषदं, पृषोदरादित्वात्सकारलोपः, 'सत्सूद्विष' इत्यादिना क्विप् । सुवः स्वर्गमादित्यं वा वेत्तीति सुवर्विदम् । अधुनार्धर्चा न्तरेण स्तुतिहेतुमाह - त्वां खलु प्रतीचीनं प्रतीचीनगतिं पराङ्मुखमपि सामर्थ्यान्मेघम् । 'विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । वृजनं बलवन्तम् । उभयत्र मत्वर्थीर्योकारः । प्रतीचीना गतिरस्यास्तीति प्रतीचीनम् । मत्वर्थीयोकारो लुप्यते । गिरा गर्जितलक्षणया शब्देन जयन्तं लोकानभिभवन्तम् । आशुं शीघ्रं, व्यापकं वा दिगन्तानां । 'कृपावाजि' इत्युण्प्रत्ययः । इर्दृशं मेघं दोहसे क्षारयसि । विकरणव्यत्ययेन शप्, स्वरितेत् । य इति वाध्याह्रियते, यस्त्वं धोक्षि तं स्तुमः । क्व पुनस्तुमः? इति चेत्, आह – यासु क्रियासु यागलक्षणासु त्वमनुवर्धसे अनुक्रमेण वृद्धिं गच्छासि, स्तुत्यनन्तरं वा वृद्धिं गच्छसि, तासु स्तुमः । यद्वा - यासु स्तुतिषु त्वमनुवर्धसे स्तुतो वृद्धिं गच्छसि तास्स्तुतीः कुर्म इति शेषः । स्तुत्या हि स्तोतव्यो वर्धते, यथा 'वर्धन्तु त्वा सुष्टुतयः' इति । यद्वा - ईदृशं मेघं दोहसे । कम्? वृजनं बलकरमुदकं गिरा गर्जितेनोपलक्षितः ॥

इमामनुद्रुत्योपयामगृहीतोसि मर्काय त्वेति गृह्णाति ॥ 2एष ते योनिः प्रजाः पाहीति सादयति ॥ प्रजाः यनमानस्य स्वभूतास्सर्वा वा ॥

इति चतुर्थे नवमः ॥