पञ्चशत् 1 #
ओमा॑सश्चर्.षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वाꣳसो॑ दा॒शुषः॑ सु॒तं ॥ उ॒प॒या॒मगृ॑हीतो-ऽसि॒ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र् विश्वे᳚भ्यस्त्वा दे॒वेभ्यः॑ ॥
पदपाठः (Word-by-word)
ओमा॑सः । च॒र्॒.ष॒णी॒धृ॒त॒ इति॑ चर्.षणि - धृ॒तः॒ । विश्वे᳚ । दे॒वा॒सः॒ । एति॑ । ग॒त॒ ॥ दा॒श्वाꣳसः॑ । दा॒शुषः॑ । सु॒तम् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ । ए॒षः । ते॒ । योनिः॑ । विश्वे᳚भ्यः । त्वा॒ । दे॒वेभ्यः॑ ॥
सायणभाष्यम् (Sayana Commentary)
Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.15. (अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्चदशषोडशानुवाकौ)।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 शुक्रपात्रेण वैश्वदेवं कलशाद्गृह्णाति - ओमास इति त्रिपदया गायत्र्या ॥ हे ओमासः अवितारः प्रजानां रक्षितारः । अवतेर्मन्प्रत्ययान्तात् 'ज्वरत्वर' इत्यादिना ऊठादेशे गुणः, आज्जसेरसुक् । चर्षणीधृतः, चर्षणयो मनुष्याः, तेषां प्रतिष्ठाद्यनु प्रदानेन धारयितारः । 'अन्येषामपि दृश्यते' इति पूर्वपदस्य दीर्घः, 'विभाषितं विशेषवचने बहुवचनम्' इति पूर्वस्याविद्यमानत्वनिषेधान्निहन्यते । विश्वे इति पादादित्वान्न निहन्यते । देवास इति पूर्ववन्निहन्यते, पूर्ववदसुक् । हे इर्दृशा विश्वे देवाः आगत आगच्छत । पूर्ववच्छपो लुक् । आमन्त्रितानामविद्यमान- त्वेपि आङः परत्वान्न निहन्यते । दाश्वांसो यूयम् । दाशृ दाने, लिटः क्वसुः 'दाश्वान्साश्वान्' इति निपातितः । यजमानेभ्यो धनानि दत्तवन्तः दाशुषोस्य यजमानस्य सुतं सोमं प्रत्यागच्छत । अयं हि यजमानो युष्मभ्यं हवींषि दत्तवान् ददाति दास्यति । तेन युष्मदुपकारिणोस्य सुतं प्रति दानशीला यूयं प्रत्यागच्छत । यद्वा - चतुर्थ्यर्थे षष्ठी, यो नाम कश्चिद्युष्मभ्यं हवींषि ददाति तस्मै दाशुषे दाश्वांसो यूयं धनानि दत्तवन्तो यूयम् । यद्वा - 'छन्दसि लुङ्लङ्लिटः' इत्युभयत्र वर्तमाने लिट् । युष्मभ्यं हवींषि ददतोस्य सुतं प्रति यूयमपि धनानि ददत एवागच्छत इति ॥
इमामनुद्रुत्योपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्यः इति गृह्णाति ॥
2 एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्य इति सादयति ॥ 'वैश्वदेव्यो वै प्रजा असावादित्यश्शुक्रः' इत्यादि ब्राह्मणम् ॥
इति चतुर्थे षोडशोनुवाकः ॥