अनुवाकः 37 TS 1.4.37

(A37)

(आ ति॑ष्ट॒-षट्विꣳ॑शतिः)

अनुवाकः 37 - Complete Audio

TS 1.4.37 - स्वरानुगामी

0:00 0:00
PS1.1 आ ति॑ष्ठ वृत्रह॒न् रथं॑
PS1.2 ॅयु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚
PS1.3 अ॒र्वा॒चीनꣳ॒॒ सु ते॒ मनो॒
PS1.4 ग्रावा॑ कृणोतु व॒ग्नुना᳚
PS1.5 उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष
PS1.6 ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.37.1 TS 1.4.37.1
आ ति॑ष्ठ वृत्रह॒न् रथं॑ ॅयु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚ । अ॒र्वा॒चीनꣳ॒॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना᳚ ॥उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥
▶ पदपाठः (Word-by-word)
एति॑ । ति॒ष्ठ॒ । वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । रथ᳚म् । यु॒क्ता । ते॒ । ब्रह्म॑णा । हरी॒ इति॑ ॥ अ॒र्वा॒चीन᳚म् । स्विति॑ । ते॒ । मनः॑ । ग्रावा᳚ । कृ॒णो॒तु॒ । व॒ग्नुना᳚ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ ॥
पदसंख्या: 26
▶ सायणभाष्यम् (Sayana Commentary)

Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.29. (अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 षोडशिनं गृह्नाति - आतिष्ठेत्यनुष्टुभा ॥ हे वृत्रहन् रथमातिष्ठ । यस्मात्ते तव स्वभूतौ हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता युक्तौ । 'सुपां सुलुक्' इत्याकारः । तस्माद्रथमातिष्ठेति । किञ्च - ते तव मनः अर्वाचीनं अस्मद्यज्ञाभिमुखं ग्रावा अभिषवाश्मा सुकृणोतु सुष्ठु करोतु वग्नुना वचनीयेन श्रवणीयेनाभिषवशब्देन ॥
2 -3ग्रहणसादने व्याख्याते । षोडशिनः षोडशेन स्तोत्रेण शस्त्रेण च तद्वानिन्द्रष्षोदशी । 'प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्सरिरिचानोमन्यत स यज्ञानां षोडशधा' इत्यादि ब्राह्मणम् ॥
इति चतुर्थे एकत्रिंशोनुवाकः ॥