अनुवाकः 7 TS 1.4.7

(A7)

(प्रा॒त॒र्युजा॒वे-का॒न्नविꣳ॑श॒तिः)

अनुवाकः 7 - Complete Audio

TS 1.4.7 - स्वरानुगामी

0:00 0:00
PS1.1 प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒-मश्वि॑ना॒वेह ग॑च्छतं
PS1.2 अ॒स्य सोम॑स्य पी॒तये᳚
PS1.3 उ॒प॒या॒मगृ॑हीतो-ऽस्य॒श्विभ्यां᳚ त्वै॒ष ते॒ योनि॑र॒श्विभ्यां᳚ त्वा

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.7.1 TS 1.4.7.1
प्रा॒त॒र्युजौ॒ वि मु॑च्येथा॒-मश्वि॑ना॒वेह ग॑च्छतं । अ॒स्य सोम॑स्य पी॒तये᳚ ॥ उ॒प॒या॒मगृ॑हीतो-ऽस्य॒श्विभ्यां᳚ त्वै॒ष ते॒ योनि॑र॒श्विभ्यां᳚ त्वा ॥꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡꣡
▶ पदपाठः (Word-by-word)
प्रा॒त॒र्युजा॒विति॑ प्रातः - युजौ᳚ । वीति॑ । मु॒च्ये॒था॒म् । अश्वि॑नौ । एति॑ । इ॒ह । ग॒च्छ॒त॒म् ॥ अ॒स्य । सोम॑स्य । पी॒तये᳚ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ह॒तः॒ । अ॒सि॒ । अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । त्वा॒ । ए॒षः । ते॒ । योनिः॑ । अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । त्वा॒ ॥
पदसंख्या: 19
▶ सायणभाष्यम् (Sayana Commentary)

Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.6. (अथ प्रथमकाण्डे चतुर्थप्रपाठके षष्टसप्तमानुवाकौ)।

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरप्याश्विनग्रहणमन्त्रः - प्रातर्युजाविति गायत्री त्रिपदा । पूर्वेण सहास्य विकल्पः ॥ हे अश्विनौ यौ युवां प्रातर्युजौ प्रातर्योक्तारौ तौ विमुच्येथाम् यजमानान्तरैर्विमुक्तौ भवतं अन्ययजमानान्विहाय इहास्मिन्कर्मण्यागच्छतम् । किमर्थम् ? - अस्य सोमस्य पीतये पानाय । 'क्तिच्कौ च संज्ञायाम्' इति क्तिच्, पानविशेषस्य संज्ञात्वात् ॥

इत्यनुद्रुत्योपयामगृहीतोस्यश्विभ्यां त्वेति गृह्णाति ॥

2 एष ते योनिरस्विभ्यां त्वेति सादयति ॥
इति चतुर्थे सप्तमोनुवाकः ॥