अनुवाकः 42 TS 1.4.42

(A42)

(स॒जोषाः᳚-त्रिꣳ॒॒शत्)

अनुवाकः 42 - Complete Audio

TS 1.4.42 - स्वरानुगामी

0:00 0:00
PS1.1 स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒
PS1.2 सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान्
PS1.3 ज॒हि शत्रूꣳ॒॒ रप॒ मृधो॑
PS1.4 नुद॒स्वाऽथाभ॑यं कृणुहि वि॒श्वतो॑ नः
PS1.5 उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष
PS1.6 ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.42.1 TS 1.4.42.1
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान् । ज॒हि शत्रूꣳ॒॒ रप॒ मृधो॑ नुद॒स्वाऽथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥
▶ पदपाठः (Word-by-word)
स॒जोषा॒ इति॑ स - जोषाः᳚ । इ॒न्द्र॒ । सग॑ण॒ इति॒ स - ग॒णः॒ । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । सोम᳚म् । पि॒ब॒ । वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । शू॒र॒ । वि॒द्वान् ॥ ज॒हि । शत्रून्॑ । अपेति॑ । मृधः॑ । नु॒द॒स्व॒ । अथ॑ । अभ॑यम् । कृ॒णु॒हि॒ । वि॒श्वतः॑ । नः॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ ॥
पदसंख्या: 30
▶ सायणभाष्यम् (Sayana Commentary)

Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.29. (अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सजोषा इत्यादि त्रिष्तुप् ॥ हे इन्द्र सगणः सर्वैर्गणैस्सहितः मरुद्भिस्सजोषाः समानप्रीतिः । पूर्ववदुत्तरपदाद्युदात्तत्वम् । हे इन्द्र वृत्रहन् वृत्रहन्तः शूर महाबल विद्वान् स्वमधिकारं जानन्, सर्वविशेषज्ञानदक्षो वा । ईदृशस्त्वं सोमं पिब । पीत्वा चास्मदीयान् शत्रून् जहि नाशय । मृधश्च सङ्ग्रामान् कर्तुकामानपनुदस्व । अथानन्तरमस्मभ्यं विश्वतस्सर्वतोप्यभयं कृणुहि कुरु । 'उतश्च प्रत्ययाच्छन्दो दो वा वचनम्' इति हिलोपाभावः । शत्रूनित्यस्य संहितायां 'दीर्घादटि समानपादे' इति रुत्वम्, पूर्ववदनुनासिकत्वम् ॥
2 -3ग्रहणसादने प्रसिद्धे ॥
इति चतुर्थे षट्त्रिंशोनुवाकः ॥