अनुवाकः 38 TS 1.4.38

(A38)

(इन्द्र॒मित्-त्रयो॑विꣳशतिः)

अनुवाकः 38 - Complete Audio

TS 1.4.38 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्र॒मिद्धरी॑ वह॒तो-ऽप्र॑तिधृष्टशवस॒-मृषी॑णां च स्तु॒तीरुप॑
PS1.2 य॒ज्ञ्ं च॒ मानु॑षाणां
PS1.3 उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष
PS1.4 ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.38.1 TS 1.4.38.1
इन्द्र॒मिद्धरी॑ वह॒तो-ऽप्र॑तिधृष्टशवस॒-मृषी॑णां च स्तु॒तीरुप॑ य॒ज्ञ्ं च॒ मानु॑षाणां ॥ उ॒प॒या॒मगृ॑हीतो॒-ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । इत् । हरी॒ इति॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टशवस॒मित्यप्र॑तिधृष्ट - श॒व॒स॒म् । ऋषी॑णाम् । च॒ । स्तु॒तीः । उपेति॑ । य॒ज्ञ्म् । च॒ । मानु॑षाणाम् ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ ॥
पदसंख्या: 23
▶ सायणभाष्यम् (Sayana Commentary)

Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.29. (अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 तस्मिन्नेव माध्यंदिनसवने गृह्णाति - इन्द्रमित्यनुष्टुभा ॥ 'सवने सवनेभि गृह्णाति' इत्यादि ब्राह्मणम् । इन्द्रमित् इन्द्रमेव अप्रतिधृष्टशवसं केनाप्यप्रधर्षितबलम् । हरी अश्वौ यज्ञमुपवहतः यज्ञस्य समीपं प्रापयतः । ऋषीणां मनुष्याणां च स्तुतीः स्तोत्राणि उपवहतः यत्र यत्र ते स्तुवन्ति तत्र सर्वत्र प्रापयतः । यद्वा - इन्द्रं हरी अश्वौ यज्ञं प्रापयतः ऋषीणां च मनुष्याणां च स्तुतय इन्द्रमेव यज्ञसमीपं प्रापयन्ति, यथासौ यज्ञसमीपमागच्छति तथा ते अमुं स्तुवन्तीत्यर्थः । व्यत्ययेन प्रथमास्थाने द्वितीया । 'मनोर्जातौ' इति मनुशब्दादञ् षुगागमश्च ॥
2 -3ग्रहणसादने गते ॥
इति चतुर्थे द्वात्रिंशोनुवाकः ॥