अनुवाकः 32 TS 1.4.32

(A32)

(आ प्या॑यस्व॒-नव॑)

अनुवाकः 32 - Complete Audio

TS 1.4.32 - स्वरानुगामी

0:00 0:00
PS1.1 आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भि-रू॒तिभिः॑
PS1.2 भवा॑ नः स॒प्रथ॑स्तमः

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.32.1 TS 1.4.32.1
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भि-रू॒तिभिः॑ । भवा॑ नः स॒प्रथ॑स्तमः ॥
▶ पदपाठः (Word-by-word)
एति॑ । प्या॒य॒स्व॒ । म॒दि॒न्त॒म॒ । सोम॑ । विश्वा॑भिः । ऊ॒तिभि॒रित्यू॒ति - भिः॒ ॥ भव॑ । नः॒ । स॒प्रथ॑स्तम॒ इति॑ स॒प्रथः॑ - त॒मः॒ ॥
पदसंख्या: 9
▶ सायणभाष्यम् (Sayana Commentary)

प्रेतदाहस्थानसमीपेऽवटं खात्वा जलं प्रक्षिप्य तेन सेचनं संगाहनं तत्र विनियुक्तां सौमीमृचमाह -

हे मदिन्तमातिशयेन हर्षयुक्त सोम विश्वाभिरूतिभिः सर्वप्रकारैरस्मदीयरक्षणैराप्यायस्व सर्वतो वर्धस्व । नोऽस्मान्प्रति सप्रथस्तमोऽतिशयेन प्रथायुक्तो भव ॥

भट्टभास्करभाष्यम् — Bhaṭṭabhāskara does not comment on this anuvāka. The Mysore edition (Vol. II, p. 82) marks them with * and notes "आदावेवंचिह्निता अनुवाकाष्षडप्यत्रानाम्नाता इति भट्टभास्करमिश्रैरुच्यते" (the six so marked are not recited here). On 1.4.31 he records both views; his count of 1.4 runs to 40, site 1.4.37 being his 31st.