अनुवाकः 40 TS 1.4.40

(A40)

(सर्व॑स्य॒ षड्विꣳ॑शतिः)

अनुवाकः 40 - Complete Audio

TS 1.4.40 - स्वरानुगामी

0:00 0:00
PS1.1 सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त
PS1.2 स्यो॒नाऽस्मै॑ सु॒षदा॑ भव॒ यच्छा᳚ऽस्मै
PS1.3 शर्म॑ स॒प्रथाः᳚
PS1.4 उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष
PS1.5 ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 1.4.40.1 TS 1.4.40.1
सर्व॑स्य प्रति॒शीव॑री॒ भूमि॑स्त्वो॒पस्थ॒ आऽधि॑त । स्यो॒नाऽस्मै॑ सु॒षदा॑ भव॒ यच्छा᳚ऽस्मै शर्म॑ स॒प्रथाः᳚ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥
▶ पदपाठः (Word-by-word)
सर्व॑स्य । प्र॒ति॒शीव॒रीति॑ प्रति - शीव॑री । भूमिः॑ । त्वा॒ । उ॒पस्थ॒ इत्यु॒प - स्थे॒ । एति॑ । अ॒धि॒त॒ ॥ स्यो॒ना । अ॒स्मै॒ । सु॒षदेति॑ सु - सदा᳚ । भ॒व॒ । यच्छ॑ । अ॒स्मै॒ । शर्म॑ । स॒प्रथा॒ इति॑ स-प्रथाः᳚ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ ॥
पदसंख्या: 26
▶ सायणभाष्यम् (Sayana Commentary)

Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.29. (अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)

▶ भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परं षोडशिग्रहणमन्त्राः पूर्वैस्सह विकल्प्यन्ते । तत्र प्रथमा - सर्वस्येत्यनुष्टुप् ॥ सर्वस्य भूतजातस्य प्रतिशविरी प्रत्येकंसुखेन शयनाधिकरणभूता । शेतेरौणादिके क्वरच्युत्तरपदाद्युदात्तत्वम् । यद्वा - शयानस्य सर्वभूतजातस्य प्रतिशयनं प्रतिमुखं शयनं बालस्य जननीव करोतीति प्रतिशीवरी । 'अन्येभ्योपि दृश्यते' इति क्वनिप्, 'वनोरच' इति ङीब्रेफौ । हे इन्द्र इर्दृशी भूमिस्त्वामुपस्थे आधित आदधातु स्थापयतु । हे भूमे या त्वमसि अस्मै इन्द्राय यजमानाय वा स्योना सुखा सुषदा सुखासनभूता च भव । किञ्च - अस्मै शर्म शरणं सुखं वा यच्छ देहि । सप्रथाः सर्वत्र प्रथिता विस्तीर्णा । छान्दसस्सवर्स्य सभावः । प्रथया सहितेति वा । बहुव्रीहौ 'परादिश्छन्दसि बहुलम्' इत्युत्तरपदाद्युदात्तत्वम् ॥
2 -3ग्रहणसादने उक्ते ॥
इति चतुर्थे चतुस्त्रिंशोनुवाकः ॥