प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.4.36.1 TS 1.4.36.1
चि॒त्तꣳ स॑न्ता॒नेन॑ भ॒वं ॅय॒क्ना रु॒द्रं तनि॑म्ना पशु॒पति(ग्ग्)॑ स्थूलहृद॒येना॒ग्निꣳ हृद॑येन रु॒द्रं ॅलोहि॑तेन श॒र्वं मत॑स्नाभ्यां महादे॒व-म॒न्तःपा᳚र्श्वेनौषिष्ठ॒हनꣳ॑ शिङ्गीनिको॒श्या᳚भ्यां ॥ 37 (चि॒त्त-म॒ष्टाद॑श) (आ36)
▶ पदपाठः (Word-by-word)
चि॒त्तम् । स॒तां॒नेनेति॑ सं - ता॒नेन॑ । भ॒वम् । य॒क्ना । रु॒द्रम् । तनि॑म्ना । प॒शु॒पति॒मिति॑ पशु - पति᳚म् । स्थू॒ल॒हृ॒द॒येनेति॑ स्थूल - हृ॒द॒येन॑ । अ॒ग्निम् । हृद॑येन । रु॒द्रम् । लोहि॑तेन । श॒र्वम् । मत॑स्नाभ्याम् । म॒हा॒दे॒वमिति॑ महा - दे॒वम् । अ॒न्तः पा᳚र्श्वे॒नेत्य॒न्तः - पा॒र्श्वे॒न॒ । ओ॒षि॒ष्ठ॒हन॒मित्यो॑षिष्ठ - हन᳚म् । शि॒ङ्गी॒नि॒को॒श्या᳚भ्या॒मिति॑ शिङ्गी - नि॒को॒श्या᳚भ्याम् ॥
पदसंख्या: 18
▶ सायणभाष्यम् (Sayana Commentary)
अथ राजगवीहविषो होमार्थोऽयमनुवाक उच्यते । तत्र नव मन्त्रानाह -

अत्र द्वितीयान्ताश्चित्तादिशब्दा देवताविशेषवाचिनः । तृतीयान्ताः संतानादिशब्दाः पशोर्मांसविशेषवाचिनः । संतानाख्येन मांसविशेषेण चित्ताख्यं देताविशेषं परितोषयाम इति वाक्यशेषः । एवं सर्वत्र योजनीयम् । तदेवमस्मिन्प्रपाठके ब्रह्मचितिब्रह्ममेधयोरङ्गभूता मन्त्रा उक्ताः । चातुर्होत्रियचितिर्ब्रह्मचितिः । ब्रह्म वै चतुर्होतार इत्याम्नातत्वात् । तस्यां ब्रह्मचितौ चित्तिः स्रुगित्यादयः सुवर्णं घर्ममित्येवमन्ता अनुवाका विनियुक्ताः । ब्रह्ममेधे तु कृत्नोऽपि प्रपाठको विनियुक्तः । आहिताग्नेर्यो दहनादिसंस्कारः सोऽयं पितृमेधः । आहिताग्नित्वे सति यो ब्रह्मतत्वं जानाति तस्य दहनादिसंस्कारो ब्रह्ममेध इत्युच्यते । तस्मिन्ब्रह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्वाज आह - "अथात उत्तरं पितृमेधं व्याख्यास्यामो ब्रह्ममेध इत्याचक्षते । तथाऽप्युदाहरन्ति द्विजातीनामपवर्गार्थस्तत्वदर्शिभिः । ऋषिभिस्तपसो योगाद्वेष्टितुं पुरुषोत्तमम् । होतॄंश्च पितृमेधं च संसृज्य विधिरुत्तरः । विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः" इति । तस्य सग्रहैर्होतृभिर्होमो भर्तृसूक्तेन भरणं पत्नीभिरुपसादनं दक्षिणाप्रतिग्रहैर्निर्मार्गो हृदयैर्हिरण्यशकलान्संभारयजुर्भिः पात्रचयनं ज्योतिष्मतीभिरुपोषणं नारायणाभ्यामुपस्थानं ब्राह्मण एकहोतेति चानुमन्त्रणं चित्तँ संतानेनेति हविराहुतीः प्रयासायस्वाहेति स्रुवाहुतीर्मृत्युसूक्तेनानुशंसनं सौम्या संगाहनं सौर्येणाऽऽदित्योपस्थानमीयुष्ट इत्यवगाहनं समानमत ऊर्ध्वं पैतृमेधिकमायवौदनप्राशनात्परं ब्रह्मेत्याचक्षते तानसाधारणे श्मशाने प्रयुञ्जीत नानाचार्याय द्विजातीनामेव संतिष्ठते ब्रह्ममेधः ॥

भट्टभास्करभाष्यम् — Bhaṭṭabhāskara does not comment on this anuvāka. The Mysore edition (Vol. II, p. 82) marks them with * and notes "आदावेवंचिह्निता अनुवाकाष्षडप्यत्रानाम्नाता इति भट्टभास्करमिश्रैरुच्यते" (the six so marked are not recited here). On 1.4.31 he records both views; his count of 1.4 runs to 40, site 1.4.37 being his 31st.