असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि । आ त्वा॑ पृणक्त्विन्द्रि॒यꣳ रजः॒ सूर्यं॒ न र॒श्मिभिः॑ ॥ उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने᳚ ॥
पदपाठः (Word-by-word)
असा॑वि । सोमः॑ । इ॒न्द्र॒ । ते॒ । शवि॑ष्ठ । धृ॒ष्णो॒ । एति॑ । ग॒हि॒ ॥ एति॑ । त्वा॒ । पृ॒ण॒क्तु॒ । इ॒न्द्रि॒यम् । रजः॑ । सूर्य᳚म् । न । र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ । ए॒षः । ते॒ । योनिः॑ । इन्द्रा॑य । त्वा॒ । षो॒ड॒शिने᳚ ॥
सायणभाष्यम् (Sayana Commentary)
Sāyaṇa comments on this anuvāka together with others; the commentary is on TS 1.4.29. (अथ प्रथमकाण्डे चतुर्थप्रपाठके एकोनत्रिंशत्रिंशैकत्रिंशद्वात्रिंशत्रयस्त्रिंशचतु–स्त्रिंशपञ्चत्रिंशषट्त्रिंशानुवाकाः)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 तस्मिन्नेव तृतीयसवने गृह्णाति - असावित्यनुष्टुभा ॥ हे इन्द्र शविष्ठ बलवत्तम । शवस्वच्छब्दादिष्ठनि 'विन्मतोर्लुक्' इति मतुपो लुक्, 'टेः' इति टिलोपः । हे धृष्णो शत्रूणां धर्षयितः । 'त्रसिगृधिधृषिक्षिपेः क्नुः' इति क्नुप्रत्ययः । आगहि आगच्छ अस्मद्यज्ञम् । गमेश्शपो लुक् । कस्मादेवमुच्यस इति चेत्? त्वदर्थमयं सोमोऽसावि अभिषुतस्तस्मादागच्छेति । किञ्च - इन्द्रियं वीर्यं सोमपानेन च प्रभूततां गतं त्वामापृणक्तु आपुरयतु । सूर्यमिव रज उदकं यथा रश्मिभिर्द्वारभूतैः सूर्यमापूरयति ॥
2 -3ग्रहणसादने समाने ॥
इति चतुर्थे त्रयस्त्रिंशोनुवाकः ॥