द्वितीयं मण्डलम् - सूक्तम् 37

6 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: द्रविणोदाः छन्दः: जगती

सूक्तम् 2.37 - सम्पूर्णम्

1 / 6
ऋक्: 2.37.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
2.37.1 समानपद
मन्द᳚स्व हो॒त्रादनु॒ जोष॒मन्ध॒सो॑ध्व᳚र्यव॒ः स पू॒र्णां व᳚ष्ट्या॒सिच᳚म् ।
तस्मा᳚ ए॒तं भ᳚रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं᳚ द्रविणोद॒ः पिब᳚ ऋ॒तुभि᳚ः ॥
▶ पदपाठः (Word-by-word)
मन्द᳚स्व । हो॒त्रात् । अनु᳚ । जोष᳚म् । अन्ध᳚सः । अध्व᳚र्यवः । सः । पू॒र्णाम् । व॒ष्टि॒ । आ॒॑सिच᳚म् ।
तस्मै᳚ । ए॒तम् । भ॒र॒त॒ । त॒त्॑व॒शः । द॒दिः । हो॒त्रात् । सोम᳚म् । द्र॒वि॒णः॒॑दः॒ । पिब᳚ । ऋ॒तु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदाभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथद्वितीयाष्टकस्याष्टमोध्यायआरभ्यते द्वितीयमण्डलस्यचतुर्थेनुवाकेमन्दस्वेतिषळृचंपञ्चमंसूक्तं गार्त्समदं मन्दस्वेत्यनुक्रान्तं पूर्वत्रऋतव्यंतुजागतंत्वितितुशब्दप्रयोगादिदमपिजागतमृतव्यं तत्रा द्याश्चतस्रऋचोद्रविणोदोदेवताकाः पञ्चम्याश्विनी पष्ठ्याग्नेयी दशरात्रेषष्ठेहनिऋतुयाजेषुप्रैषानृक् शिरस्कान् कृत्वातैः प्रैषैः प्रेषितव्यंयष्टव्यंच तत्रसप्तमादीनांप्रैषाणामुपरिष्टात् मन्दस्वेत्याद्याःषळृ चः क्रमेणप्रक्षेपणीयाः सूत्रंतुपूर्वमेवोदाहृतम् ।

हेद्रविणोदः द्रविणसोधनस्यदातः एतन्नामकदेव अन्धसः देवानामन्नरूपस्य सोमस्य सोमेन होत्रात् होतृकर्तृकाद्यागात् अनुजोषं प्रीतिमनुमन्दस्व हर्षंप्राप्नुहि हेअध्वर्यवः सद्रविणोदाः—पूर्णां संपूर्णां आसिचं आसिच्यमानाहुतिं वष्टि कामयते अतस्तस्मैद्रविणोदसेग्नये एतंसोमंभरत प्रापयत तद्वशस्तत्कामोद्रविणोदाःददिर्दाता युष्माकमभीष्टफलस्यदाताभवतीतिशेषः किंच हेद्र विणोदः होत्रात् होतुर्यागात् ऋतुभिः इषमासाभिमानिभिः ऋतुदेवैः सहसोमंपिब ॥ १ ॥

2.37.2
यमु॒ पूर्व॒महु᳚वे॒ तमि॒दं हु᳚वे॒ सेदु॒ हव्यो᳚ द॒दिर्यो नाम॒ पत्य᳚ते ।
अ॒ध्व॒र्युभि॒ः प्रस्थि᳚तं सो॒म्यं मधु᳚ पो॒त्रात्सोमं᳚ द्रविणोद॒ः पिब᳚ ऋ॒तुभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यम् । ऊं॒ इति᳚ । पूर्व᳚म् । अहु᳚वे । तम् । इ॒दम् । हु॒वे॒ । सः । इत् । ऊं॒ इति᳚ । हव्यः᳚ । द॒दिः । यः । नाम᳚ । पत्य᳚ते ।
अ॒ध्व॒र्यु॑भिः᳚ । प्र॑स्थि᳚तम् । सो॒म्यम् । मधु᳚ । पो॒त्रात् । सोम᳚म् । द्र॒वि॒णः॒॑दः॒ । पिब᳚ । ऋ॒तु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेद्रविणोदः यमु यंत्वामेवपूर्वंहोतृकर्तृकेसोमयागेहुवे आहुतवानस्मि इदंसंप्रति तं तमेव पोतृ कर्तृकेसोमयागेहुवे आह्वयामि सेत् सएवद्रविणोदाः हव्यः ह्वातव्यः उइतिपूरणे ददिरभीष्ट फलस्यदातायोनाम यः खलुपत्यते देवतात्वेनेष्टे तस्मैद्रविणोदसे सोम्यंसोमात्मकं मधुअध्वर्युभिः प्रस्थितंप्रणीतमासीत् हेद्रविणोदः पोत्रात् पोतुर्यागात् ऋतुभिः ऊर्जसंज्ञकैः सहसोमंपिब ॥ २ ॥

2.37.3
मेद्य᳚न्तु ते॒ वह्न᳚यो॒ येभि॒रीय॒से॑रि᳚षण्यन्वीळयस्वा वनस्पते ।
आ॒यूया᳚ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं᳚ द्रविणोद॒ः पिब᳚ ऋ॒तुभि᳚ः ॥
▶ पदपाठः (Word-by-word)
मेद्य᳚न्तु । ते॒ । वह्न᳚यः । येभिः᳚ । ईय᳚से । अरि᳚षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ ।
आ॒॑यूय᳚ । धृ॒ष्णो॒ इति᳚ । अ॒भि॒॑गूर्य᳚ । त्वम् । ने॒ष्ट्रात् । सोम᳚म् । द्र॒वि॒णः॒॑दः॒ । पिब᳚ । ऋ॒तु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेद्रविणोदः येभिर्यैःवाहैः ईयसेप्राप्नोषि तेतव वह्नयोवोढारइतियास्केनोक्तत्वात् तेमेद्यन्तु तृप्यन्तु हेवनस्पतेवनानांपते अरिषण्यन् अहिंसन् वीळयस्व दृढीभव हेधृष्णोधर्षकत्वं आयूय आगत्य अभिगूर्य उद्यम्य नेष्ट्रात् नेष्टुर्यागात् ऋतुभिः सहः संज्ञकैः सहसोमंपिब ॥ ३ ॥

2.37.4
अपा᳚द्धो॒त्रादु॒त पो॒त्राद᳚मत्तो॒त ने॒ष्ट्राद᳚जुषत॒ प्रयो᳚ हि॒तम् ।
तु॒रीयं॒ पात्र॒ममृ᳚क्त॒मम᳚र्त्यं द्रविणो॒दाः पि᳚बतु द्राविणोद॒सः ॥
▶ पदपाठः (Word-by-word)
अपा᳚त् । हो॒त्रात् । उ॒त । पो॒त्रात् । अ॒म॒त्त॒ । उ॒त । ने॒ष्ट्रात् । अ॒जु॒ष॒त॒ । प्रयः᳚ । हि॒तम् ।
तु॒रीय᳚म् । पात्र᳚म् । अमृ᳚क्तम् । अम᳚र्त्यम् । द्र॒वि॒णः॒॑दाः । पि॒ब॒तु॒ । द्रा॒वि॒णः॒॑द॒सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अच्छावाकस्येयं योद्रविणोदाः होत्रात् होतुर्यागात् सोममपात् पीतवान् उत किंच पोत्रा त्पोतुर्यागात् अमत्त सोमंपीत्वाअमाद्यत् उतअपिच नेष्ट्रात् नेष्टुर्यागात् हितंदत्तंपयः देवानामन्न रूपं सोमंअजुषत असेविष्ट सद्राविणोदसः हवीरूपद्रविणस्य प्रदातृभ्यऋत्विग्भ्योहितः ऋत्वि जोत्रद्रविणोदसउच्यन्ते हविषोदातारस्तेचैनंजनयन्तीतियास्केनोक्तत्वात् तादृशोद्रविणोदाः अमृ क्तंदशापवित्रेणामृष्टं अमर्त्यं अमरणसाधनंतुरीयंपात्रं चतुर्थपात्रस्थंसोमंपिबतु ॥ ४ ॥

2.37.5
अ॒र्वाञ्च᳚म॒द्य य॒य्यं᳚ नृ॒वाह᳚णं॒ रथं᳚ युञ्जाथामि॒ह वां᳚ वि॒मोच᳚नम् ।
पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं᳚ ग॒तमथा॒ सोमं᳚ पिबतं वाजिनीवसू ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाञ्च᳚म् । अ॒द्य । य॒य्य᳚म् । नृ॒॑वाह᳚नम् । रथ᳚म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒॑मोच᳚नम् ।
पृ॒ङ्क्तम् । ह॒वींषि । मधु᳚ना । आ । हि । क॒म् । ग॒तम् । अथ᳚ । सोम᳚म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ अद्यास्मिन्नहनि यय्यंययिंगन्तारं नृवाहणं न्त्रोर्युवयोर्वोढारं इहयज्ञे वांयुवयोर्वि मोचनं विमोचयितारं रथंअर्वाञ्चं यथार्वाग्भवति तथा युञ्चाथां किंच मधुनास्वादुरसेन हवींषि पृङ्क्तं संयोजयतं अथच आगतं आगच्छतं हिकमितिपूरणे अथानन्तरं हेवाजिनीवसूवाजएववा जिनी अन्नेनवासयितारौ बलवर्धनौवा सोमंपिबतम् ॥ ५ ॥

2.37.6 समानपद
जोष्य᳚ग्ने स॒मिधं॒ जोष्याहु᳚तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि᳚ सुष्टु॒तिम् ।
विश्वे᳚भि॒र्विश्वा{4}᳚ ऋ॒तुना᳚ वसो म॒ह उ॒शन्दे॒वा{4} उ᳚श॒तः पा᳚यया ह॒विः ॥
▶ पदपाठः (Word-by-word)
जोषि᳚ । अ॒ग्ने॒ । स॒म्॑इध᳚म् । जोषि᳚ । आ॑हु᳚तिम् । जोषि᳚ । ब्रह्म᳚ । जन्य᳚म् । जोषि᳚ । सु॒॑स्तु॒तिम् ।
विश्वे᳚भिः । विश्वा᳚न् । ऋ॒तुना᳚ । व॒सो॒ इति᳚ । म॒हः । उ॒शन् । दे॒वान् । उ॒श॒तः । पा॒य॒य॒ । ह॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने समिधं जोषिजुषस्व आहुतिं जोषिजुषस्व ब्रह्मशस्त्रंजन्यं जनेभ्योहितं जोषि जुषस्व सुष्टुतिंशोभनस्तोत्रं जोषिजुषस्व किंच वसो सर्वेषामावासभूत हेअग्ने उशतःकामयमानान् महः महतः विश्वान् सर्वान् देवान् उशन् कामयमानस्त्वं ऋतुनातपस्यसंज्ञकेनसह तथा विश्वेभिः सर्वैः देवैः सहहविः हवीरूपंसोमंपायय ॥ ६ ॥

उदुष्यइत्येकादशर्चंषष्ठंसूक्तंगार्त्समदंत्रैष्टुभंसवितृदेवताकं अत्रानुक्रमणिका उदुष्यएकादशसावि- त्रमिति व्यूढेदशरात्रेषष्ठेहनिवैशदेवशस्त्रीतत्सूक्तंसावित्रनिविद्धानीयं व्यूढश्चेदितिखण्डेसूत्रितम्— षष्ठस्योदुष्यदेवइतिगार्त्समदमिति ।