द्वितीयं मण्डलम् - सूक्तम् 13

13 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: जगती

सूक्तम् 2.13 - सम्पूर्णम्

1 / 13
ऋक्: 2.13.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
2.13.1
ऋ॒तुर्जनि᳚त्री॒ तस्या᳚ अ॒पस्परि᳚ म॒क्षू जा॒त आवि᳚श॒द्यासु॒ वर्ध᳚ते ।
तदा᳚ह॒ना अ᳚भवत्पि॒प्युषी॒ पयों॒॑शोः पी॒यूषं᳚ प्रथ॒मं तदु॒क्थ्य᳚म् ॥
▶ पदपाठः (Word-by-word)
ऋ॒तुः । जनि᳚त्री । तस्याः᳚ । अ॒पः । परि᳚ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु᳚ । वर्ध᳚ते ।
तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी᳚ । पयः᳚ । अं॒शोः । पी॒युष᳚म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतुर्वर्षाख्यःकालः जनित्री सोमस्यजनयित्रीजननीभवति तस्याःपरि तस्याः जनन्याः सकाशा- ज्जातः सोमः अपउदकानिमक्षुशीघ्रमाविशत् यास्वप्सुसोमोवर्धते ताअविशदित्यन्वयः तत्तस्मादप्सु- प्रविष्टत्वात् सोमआहनाआहन्त्व्योअभिषोतव्योभवति आहनाइतिसकारान्तमिदंपदम् तथाचमन्त्रव- र्णः—येतेमदाआहनसोविहायसइति । याचांशुरूपसोमलता पयः सारभूतं पिप्युषीवर्धयन्त्यभवत् प्यायतेर्लिटक्विसौलिड्यङोश्चेतिपीभावः वसोःसम्प्रसारणं उगितश्चेति ङीप् अंशोस्तस्याः सोमलता- याः पीयूषंरसभूतंपयः उक्थंप्रशस्यं हविरिन्द्रस्यतत्प्रथमंमुख्यं भवति ॥ १ ॥

2.13.2 समानपद
स॒ध्रीमा य᳚न्ति॒ परि॒ बिभ्र᳚ती॒ः पयो᳚ वि॒श्वप्स्न्या᳚य॒ प्र भ᳚रन्त॒ भोज᳚नम् ।
स॒मा॒नो अध्वा᳚ प्र॒वता᳚मनु॒ष्यदे॒ यस्ताकृ᳚णोः प्रथ॒मं सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒ध्री । ई॒म् । आ । य॒न्ति॒ । परि᳚ । बिभ्र᳚तीः । पयः᳚ । वि॒श्व॑प्स्न्या᳚य । प्र । भ॒र॒न्त॒ । भोज᳚नम् ।
स॒मा॒नः । अध्वा᳚ । प्र॒॑वता᳚म् । अ॒नु॒॑स्यदे᳚ । यः । ता । अकृ᳚णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सध्री अञ्चतेर्लुक् छान्दसःसहस्यसध्रिरितिसध्र्यदेशः अन्तोदात्तत्वेननिपातितः सध्रीचीनाः पय- उदकंपरिपरितोबिभ्रतीर्बिभ्राणाः ईंएतानद्यः आय्न्तिसर्वतोगच्छन्ति तानद्योविशप्स्याय विश्वासा- मपामाश्रयभूतायसमुद्रयभोजनं भुज्यतइतिभोजनंपयः प्रभरन्त प्रकर्षेणसंपादयन्ति कुतएतत्तदाह प्रवतांप्रवणवतांनिम्नगानांपयसामनुष्यदे कृत्यार्थेतवैकेन्केन्यन्यत्वनइतिक्रेन् प्रत्ययः अनुष्यन्दनीयो- ध्वामार्गः समानएकोहियस्तातानिसोमोत्पादननदीप्रवर्तनादीनिकर्माणिप्रथमंपूर्वंअक्रुणोः अकरोः सतादृङ्महिमोपेतस्त्वंउक्थ्योसि सर्वैःप्रशस्योभवसि ॥ २ ॥

2.13.3
अन्वेको᳚ वदति॒ यद्ददा᳚ति॒ तद्रू॒पा मि॒नन्तद᳚पा॒ एक᳚ ईयते ।
विश्वा॒ एक᳚स्य वि॒नुद᳚स्तितिक्षते॒ यस्ताकृ᳚णोः प्रथ॒मं सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । एकः᳚ । व॒द॒ति॒ । यत् । ददा᳚ति । तत् । रू॒पा । मि॒नन् । तत्॑अ᳚पाः । एकः᳚ । ई॒य॒ते॒ ।
विश्वाः᳚ । एक᳚स्य । वि॒॑नुदः᳚ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ᳚णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानोयद्धविर्देवेभ्योददाति तदेकोहोतानुवदतियाज्यापुरोनुवाक्याभ्यां देवताःस्मारयति ए- कोध्यर्युः रूपा पश्वादीनांरूपाणिमिनन् हिंसन् तदपाः तद्विशसनाख्यमपःकर्मयस्यतादृशः सन्तत्ईय- ते देवयजनेसर्वत्रगच्छति एकस्याध्वर्योर्विश्वाविनुदः सर्वाणितत्कर्तृकाणिविक्षेपणरूपाणिकर्मवैगु- ण्यानितितिक्षते तद्योग्यप्रायश्चित्तकरणेनब्रह्मसहते गुप्तिज्किड्भ्यःसन् क्षमायामिष्यते तानिहविः प्रदानादीनिकर्माणियस्त्वमकृणोरकरोः सत्वमुक्थ्योसि ॥ ३ ॥

2.13.4
प्र॒जाभ्य᳚ः पु॒ष्टिं वि॒भज᳚न्त आसते र॒यिमि᳚व पृ॒ष्ठं प्र॒भव᳚न्तमाय॒ते ।
असि᳚न्व॒न्दंष्ट्रै᳚ः पि॒तुर᳚त्ति॒ भोज᳚नं॒ यस्ताकृ᳚णोः प्रथ॒मं सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र॒॑जाभ्यः᳚ । पु॒ष्टिम् । वि॒॑भज᳚न्तः । आ॒स॒ते॒ । र॒यिम्॑इ᳚व । पृ॒ष्ठम् । प्र॒॑भव᳚न्तम् । आ॒॑य॒ते ।
असि᳚न्वन् । दंष्ट्रैः᳚ । पि॒तुः । अ॒त्ति॒ । भोज᳚नम् । यः । ता । अकृ᳚णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पुष्टिंत्वयादत्तंपोषकंधनंस्वकीयाभ्यः प्रजाभ्यः विभजन्तः अस्यैतावदस्यैतावदिति विभा- गंकुर्वन्तोगृहमेधिनआसते स्वस्वगृहेषुनिवसन्ति तत्रदृष्टान्तः—आयतेगृहंप्रत्यगच्छतेतिथयेपृष्टंधारकं प्रभवन्तं बहुभरणसमर्थं रयिमिवधनंयथाविभज्यप्रयच्छन्तितद्वत् असिन्वन् सेतुबन्धादिकंकर्मकुर्वन् लोकाः पितुः पालयित्र्यादिवःसकाशात् आगतंभोजनमुदकंतत्कार्याओषधीः दंष्ट्रैर्दन्तैरत्तिभक्षयति यद्वा असिन्वन् अव्याप्रियमाणोग्निः पितुः पालकस्ययजमानस्यसंबन्धिभोजनंहविर्लक्षणमन्नंदंष्ट्रैर्दन्त- रूपैर्ज्वालैरत्ति यस्ताकृणोरित्यादिसिद्धम् ॥ ४ ॥

2.13.5
अधा᳚कृणोः पृथि॒वीं सं॒दृशे᳚ दि॒वे यो धौ᳚ती॒नाम᳚हिह॒न्नारि᳚णक्प॒थः ।
तं त्वा॒ स्तोमे᳚भिरु॒दभि॒र्न वा॒जिनं᳚ दे॒वं दे॒वा अ᳚जन॒न्त्सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्॑दृशे᳚ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒॑ह॒न् । अरि᳚णक् । प॒थः ।
तम् । त्वा॒ । स्तोमे᳚भिः । उ॒द॑भिः᳚ । न । वा॒जिन᳚म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र अधापिचत्वंदिवेद्योतमानायसूर्यायपृथिवींचलितांसतींदृढीकृत्यसन्दृशेसन्दर्शनीयामकृणो- रकरोः दृशेविख्येचेतिकेन्प्रत्ययान्तत्वे नविपातितः धौतीनांचलन्तीनांनदीनांपथः मार्गान् अरिणक्- अरेचयः गन्तुंयोग्यानकरोरित्यर्थः रिचिर् विरेचने लङिसिप् तस्यहल् ङ्यादिनालोपः अहिहन् अहे- र्वृत्रस्यमेघस्यवाहन्तः हेइन्द्र देवाःस्तोतारस्तंतादृशंदेवंत्वात्वांस्तोमेभिः स्तोत्रैरजनन् अवर्धयन् तत्र- दृष्टान्तः—उदभिर्नवाजिनं यथावाजिनमश्वंउदभिः उदकैर्वर्धयन्ति तद्वत् पद्दन्नोमासित्यादिनाउदक- स्यउदन्भावः शेषंसिद्धम् ॥ ५ ॥

2.13.6
यो भोज᳚नं च॒ दय᳚से च॒ वर्ध᳚नमा॒र्द्रादा शुष्कं॒ मधु᳚मद्दु॒दोहि᳚थ ।
स शे᳚व॒धिं नि द᳚धिषे वि॒वस्व᳚ति॒ विश्व॒स्यैक᳚ ईशिषे॒ सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । भोज᳚नम् । च॒ । दय᳚से । च॒ । वर्ध᳚नम् । आ॒र्द्रात् । आ । शुष्क᳚म् । मधु᳚॑मत् । दु॒दोहि᳚थ ।
सः । शे॒व॒॑धिम् । नि । द॒धि॒षे॒ । वि॒वस्व᳚ति । विश्व᳚स्य । एकः᳚ । ई॒शि॒षे॒ । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यस्त्वंभोजनंभुज्यतेइतिभोजनमन्नादिव दयसे यजमानेभ्यःप्रच्छसि दयदानगतिरक्षणहिं- साग्रहणेषु आत्मनेपदी किञ्च वर्धनंवृद्धिकरंधनंबलंवादयसे तथाआर्द्रात्काण्डात् शुष्कमनार्द्रंवीह्यादि- कं मधुमत् मधुररसोपेतं आदुदोहिथ दुग्धवानसि दुहेर्लिटिक्रादिनियमादिडागमः सतादृशस्त्वंविव- स्वति तेपरिचरणंकुर्वाणेयजमानेथेवधिंधनसदनंदधिषे निदधासि किंबहुनाविश्वस्यसर्वस्यजगतः एकः अद्वितीयःएवसन् ईशिषे स्वामीभवसि ईशऎश्वर्ये ईशःसेइतीइतीडागमः सइत्यादिसिद्धम् ॥ ६ ॥

2.13.7
यः पु॒ष्पिणी᳚श्च प्र॒स्व᳚श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒᳚वनी॒रधा᳚रयः ।
यश्चास᳚मा॒ अज᳚नो दि॒द्युतो᳚ दि॒व उ॒रुरू॒र्वा{4} अ॒भित॒ः सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । पु॒ष्पिणीः᳚ । च॒ । प्र॒॑स्वः᳚ । च॒ । धर्म᳚णा । अधि᳚ । दाने᳚ । वि । अ॒वनीः᳚ । अधा᳚रयः ।
यः । च॒ । अस᳚माः । अज᳚नः । दि॒द्युतः᳚ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः᳚ । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यस्त्वं पुष्पिणीः पुष्पवतीश्चप्रस्वः प्रसूताः प्रसूयमानावा अवनीरवित्रीरोषधीः दानेधि दीयन्ते उपलूयन्तेसस्यान्यत्रेतिदानंक्षेत्रं अधिकरणेल्युट् तस्मिन्क्षेत्रे धर्मणा सकललक्षणेनकर्मणाच व्यधारयः न्यदधाः यश्चत्वंदिवोद्योतमानस्य सूर्यस्यअसमाः विषमाः नानाप्रकारादिद्युतः दीप्तीः रजनः अजनयः यद्वा दिवोनक्षत्राणि जनेर्लङिव्य्तत्ययेनशप् यश्चोरुः महांस्त्वं अभितः सर्वतः ऊर्वान् महतः प्राणिनिकायान् पर्वतान्वा अजनयः शिष्ठंस्पष्टम् ॥ ७ ॥

2.13.8
यो ना᳚र्म॒रं स॒हव᳚सुं॒ निह᳚न्तवे पृ॒क्षाय᳚ च दा॒सवे᳚शाय॒ चाव᳚हः ।
ऊ॒र्जय᳚न्त्या॒ अप᳚रिविष्टमा॒स्य᳚मु॒तैवाद्य पु᳚रुकृ॒त्सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । ना॒र्म॒रम् । स॒ह॑व᳚सुम् । नि॑ह᳚न्तवे । पृ॒क्षाय᳚ । च॒ । दा॒स॑वे᳚शाय । च॒ । अव᳚हः ।
ऊ॒र्जय᳚न्त्याः । अप᳚रि॑विष्टम् । आ॒स्य᳚म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒॑कृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुकृत् पुरूणांकर्मणांकर्तःहेइन्द्र यस्त्वं नार्मरंनॄन् मनुष्यान् मारयतीतिनृमरः कश्चिदसुरः तस्या- पत्यंनार्मरः तं सहवसुं वसुनासहवर्ततइतिसहवसुः असुरनामैतत् एतन्नामकमसुरं निहन्तवे हन्तेस्तु- मर्थेतवेन्प्रत्ययः तादौचनितीतिगतेः प्रकृतिस्वरत्वम् निहन्तुंऊर्जयन्त्याः बलवत्याः वज्रधारायाः अपरिविष्टंमलादिभिरव्याप्तं आस्यंअद्यैवअवहन्तमसुरंप्रापयः यद्वा ऊर्जयन्त्याः पिशाचिकायाः आ- स्यंप्रापयः किमर्थं पृक्षायतवहविर्लक्षणान्नलाभाय उतापिचदासवेशायदासानां दस्यूनांवेशायविना- शायच यद्वा अस्माकमन्नलाभायदस्युविनाशायच ॥ ८ ॥

2.13.9
श॒तं वा॒ यस्य॒ दश᳚ सा॒कमाद्य॒ एक᳚स्य श्रु॒ष्टौ यद्ध᳚ चो॒दमावि᳚थ ।
अ॒र॒ज्जौ दस्यू॒न्त्समु᳚नब्द॒भीत᳚ये सुप्रा॒व्यो᳚ अभव॒ः सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
श॒तम् । वा॒ । यस्य᳚ । दश᳚ । सा॒कम् । आ । अद्यः᳚ । एक᳚स्य । श्रु॒ष्टौ । यत् । ह॒ । चो॒दम् । आवि᳚थ ।
अ॒र॒ज्जौ । दस्यू᳚न् । सम् । उ॒न॒प् । द॒भीत᳚ये । सु॒प्र॒॑अ॒व्यः᳚ । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र एकस्यएकाकिनः श्रेष्ठस्यवायस्यतेश्रुष्टौसुआखनिमित्तेतदर्थंशतंदश दशशतानिहरयः साकं- सहवाहनार्थंभवन्ति तथाचमन्त्रवर्णः—इन्द्रोमायाभिः पुरुरूपईयतेयुक्ताह्यस्यहरयःशतादशॆति । वा- अपिच यश्चआअद्यः सर्वेषांसर्वतः उपजीव्यः नतस्येशेयंनाद्याद्यद्वैनंनाद्युरितिहिश्रुतिः । यद्ध यश्च त्वंचोदंस्तोतॄणांप्रेरकंयजमानंआविथ रक्षितवानसि किञ्च यस्त्वंअरज्जौरज्जुवर्जितेबन्धनागारेदस्यू- नुपक्षपयितॄन् दभीतयेदभीतिर्नामकश्चिदृषिः तदर्थंसमुनप् हिंसितवानसि उभ्रातेर्हिंसाकर्मणोलङि- व्यत्ययेनश्नम् हल् ङ्यादिनासिपोलोपः अडभावश्छान्दसः किञ्च सुप्राव्यः सुखेनसर्वैरुपसर्पणीयोभवः शिष्टंसिद्धम् ॥ ९ ॥

2.13.10
विश्वेदनु᳚ रोध॒ना अ᳚स्य॒ पौंस्यं᳚ द॒दुर᳚स्मै दधि॒रे कृ॒त्नवे॒ धन᳚म् ।
षळ᳚स्तभ्ना वि॒ष्टिर॒ः पञ्च᳚ सं॒दृश॒ः परि᳚ प॒रो अ᳚भव॒ः सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । इत् । अनु᳚ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य᳚म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे᳚ । धन᳚म् ।
षट् । अ॒स्त॒भ्नाः॒ । वि॒॑स्तिरः᳚ । पञ्च᳚ । स॒म्॑दृशः᳚ । परि᳚ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वेत् सुपांसुलुगितिजसआकारः सर्वाएवरोधनाः रोधस्वत्योनद्यः अस्येन्द्रस्यपौंस्यंपुंसोभावः पौंस्यं वीर्यमितियावत् अनु तद्वीर्यमनुवर्तन्ते अस्मैइन्द्रायददुः हविर्लक्षणमन्नंयजमानाः प्रयच्छन्ति किञ्च कृत्नवेकर्मणांकर्त्रेइन्द्रायधनंदधिरे सर्वजनाधारयन्ति तथाचमन्त्रः—इन्द्रायद्यावओषधीरुता- पोरयिंरक्षन्तिजीरयोवनानीति । विष्टिरोविस्तीर्णः षट्संख्याकाऊर्वीः ताश्चद्यौश्चपृथिवीचाहश्चरा- त्रिश्चापश्चौषधयइत्येवंरूपाः ताअस्तभ्राः नियमितवानसि सन्दृशः सम्यक् पश्यन्तीतिसन्दृशोजनाः पञ्चजनान् परिसर्वतः परः पारयितापालयितावा अभवः भवसि गतमन्यत् ॥ १० ॥

2.13.11
सु॒प्र॒वा॒च॒नं तव᳚ वीर वी॒र्यं१॒᳚ यदेके᳚न॒ क्रतु᳚ना वि॒न्दसे॒ वसु᳚ ।
जा॒तूष्ठि᳚रस्य॒ प्र वय॒ः सह᳚स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा᳚स्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
सु॒॑प्र॒वा॒च॒नम् । तव᳚ । वी॒र॒ । वी॒र्य᳚म् । यत् । एके᳚न । क्रतु᳚ना । वि॒न्दसे᳚ । वसु᳚ ।
जा॒तू॑स्थि᳚रस्य । प्र । वयः᳚ । सह᳚स्वतः । या । च॒कर्थ᳚ । सः । इ॒न्द्र॒ । विश्वा᳚ । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वीर् बलवन् हेइन्द्र तववीर्यंसामर्थ्यंसुप्रवाचनंसुष्ठुप्रवचनीयं सर्वैःश्लाघनीयमित्यर्थः किंतत् एकेन- क्रतुनाकर्मणावसुविन्दसे शत्रूणांधनंलभते विदॢलाभे तुदादिःस्वरितेत् यद्वा तदीयंधनं स्तोतृण् प्राप- यसि इतियत् तवप्रशास्यमित्यर्थः किञ्च सहस्वतोबलवतोजातूष्ठिरस्यएतन्नामकः कश्चित्तस्यवयोन्नं- प्रादाः यद्वा जातूष्ठिरस्यजातुकदाचित् सर्वदास्थिरस्यसहस्वतः बलवतोयज्ञादेःकर्मणः संबन्धिव योह विर्लक्षणमन्नंप्र्विन्दसइतिसमन्वयः यायानीमानिअन्याविशासर्वाणिकर्माणिचकर्थ कृतवानसि सता- दृशस्त्वंउक्थ्यः सर्वैः प्रशंसनीयोसि भवसि ॥ ११ ॥

2.13.12
अर᳚मय॒ः सर᳚पस॒स्तरा᳚य॒ कं तु॒र्वीत᳚ये च व॒य्या᳚य च स्रु॒तिम् ।
नी॒चा सन्त॒मुद᳚नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अर᳚मयः । सर᳚॑अपसः । तरा᳚य । कम् । तु॒र्वीत᳚ये । च॒ । व॒य्या᳚य । च॒ । स्रु॒तिम् ।
नी॒चा । सन्त᳚म् । उत् । अ॒न॒यः॒ । प॒रा॒॑वृज᳚म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय᳚न् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सरपसः सरणमपःकर्मयासांताः सरपसः शकन्ध्वादित्वात्पररूपत्वम् ताअपः कंसुखेन तराय तरणायअरमयः अक्रीडयः किञ्च तुर्वीतयेतुर्वीतिर्नामकश्चिद्राजर्षिः तस्मैवय्यायच वय्यो- नामकश्चित् तस्मै ताभ्यांस्रुतिंसरणं प्रतिअरमयः तौहिजलपूर्णांमहानदींदृष्ट्वातरायतरीतुमसम- र्थावास्तां तौचत्वयातारितौ परावृजं परितः पापानिवृणक्तिदहतीतिपरावृक् कश्चिदृषिः तमप्सु- निमग्नंतथानीचानीचंसन्तंउदनयः आपद्भ्यःऊर्ध्वंनीतवानसि किञ्च अन्धंसन्तं श्रोणंपङ्गुंसन्तं चक्षु- र्दानादपङ्गुकरणाच्चउदनयः किंकुर्वन् प्रकर्षेणश्रवयन् आत्मानंकीर्तिमन्तं कुर्वन् उदनयइतिसमन्वयः सइत्यादिसिद्धम् ॥ १२ ॥

2.13.13
अ॒स्मभ्यं॒ तद्व᳚सो दा॒नाय॒ राध॒ः सम᳚र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् ।
इन्द्र॒ यच्चि॒त्रं श्र᳚व॒स्या अनु॒ द्यून्बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । तत् । व॒सो॒ इति᳚ । दा॒नाय᳚ । राधः᳚ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य᳚म् ।
इन्द्र᳚ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु᳚ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसो सर्वस्यवासकवसुमन्वा हेइन्द्र स्तोतृभ्योस्मभ्यंतद्राधोधनंदानायउपलक्षणमेतत् भोगाय- चसमर्थयस्व देहि अस्मान्सङ्गमयेत्यर्थः अर्थयाचने चुरादिरदन्तआत्मनेपदी तेतवतद्वहुप्रभूतंवसव्यं- वस्वेववसव्यंवस्वादित्वात् स्वार्थिकोयत् तादृशंप्रभूतंधनमस्तिखलु चित्रंचायनीयं यद्धनंअनुद्यून् अन्वहंकालाध्वनोरितिद्वितीया श्रवस्याः भोग्यमिच्छेः अन्तर्णीतण्यर्थत्वादकर्मकत्वम् यथारोदितीति सत्वन्यः द्वेह्यत्रकर्मणीउद्देश्यकर्मचविधेयकर्मान्तर्भूतम् उद्देश्यकर्मणासकर्मकोभविष्यति यथामाणव- कः पुत्रीयतीतिभाष्येउदाहृतम् श्रवःशब्दाच्छन्दसिपरेच्छायांक्यप् तदन्तस्यलेट्यडागमेरूपम् सुवी- राः कल्याणपुत्रपौत्राःसन्तोवयंविदथेस्मिन् यज्ञेबृहत्प्रभूतंशस्त्रादिकंवाक्यंवदेम ॥ १६ ॥

अध्वर्यवोभ्रतेतिद्वादशर्चंतृतीयंसूक्तम् गार्त्समदंत्रैष्टुभमैन्द्रं अध्वर्य्वोद्वादशेत्यनुक्रान्तम सूक्तविनि- योगोलैङ्गिकः अतिरात्रेप्रथमेपर्यायेहोतुःशस्त्रयाज्याअध्वर्यवइत्येषा अध्वर्यवोभरतेन्द्रायसोममिति- याज्येतिसूत्रितम् ।