श्रवणम्

2.13.3
अन्वेको᳚ वदति॒ यद्ददा᳚ति॒ तद्रू॒पा मि॒नन्तद᳚पा॒ एक᳚ ईयते ।
विश्वा॒ एक᳚स्य वि॒नुद᳚स्तितिक्षते॒ यस्ताकृ᳚णोः प्रथ॒मं सास्यु॒क्थ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । एकः᳚ । व॒द॒ति॒ । यत् । ददा᳚ति । तत् । रू॒पा । मि॒नन् । तत्॑अ᳚पाः । एकः᳚ । ई॒य॒ते॒ ।
विश्वाः᳚ । एक᳚स्य । वि॒॑नुदः᳚ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ᳚णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यजमानोयद्धविर्देवेभ्योददाति तदेकोहोतानुवदतियाज्यापुरोनुवाक्याभ्यां देवताःस्मारयति ए- कोध्यर्युः रूपा पश्वादीनांरूपाणिमिनन् हिंसन् तदपाः तद्विशसनाख्यमपःकर्मयस्यतादृशः सन्तत्ईय- ते देवयजनेसर्वत्रगच्छति एकस्याध्वर्योर्विश्वाविनुदः सर्वाणितत्कर्तृकाणिविक्षेपणरूपाणिकर्मवैगु- ण्यानितितिक्षते तद्योग्यप्रायश्चित्तकरणेनब्रह्मसहते गुप्तिज्किड्भ्यःसन् क्षमायामिष्यते तानिहविः प्रदानादीनिकर्माणियस्त्वमकृणोरकरोः सत्वमुक्थ्योसि ॥ ३ ॥