द्वितीयं मण्डलम् - सूक्तम् 16

9 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: जगती

सूक्तम् 2.16 - सम्पूर्णम्

1 / 9
ऋक्: 2.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
2.16.1
प्र वः᳚ स॒तां ज्येष्ठ᳚तमाय सुष्टु॒तिम॒ग्नावि᳚व समिधा॒ने ह॒विर्भ᳚रे ।
इन्द्र᳚मजु॒र्यं ज॒रय᳚न्तमुक्षि॒तं स॒नाद्युवा᳚न॒मव᳚से हवामहे ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । स॒ताम् । ज्येष्ठ᳚तमाय । सु॒॑स्तु॒तिम् । अ॒ग्नौ॑इ᳚व । स॒म्॑इ॒धा॒ने । ह॒विः । भ॒रे॒ ।
इन्द्र᳚म् । अ॒जु॒र्यम् । ज॒रय᳚न्तम् । उ॒क्षि॒तम् । स॒नात् । युवा᳚नम् । अव᳚से । ह॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृत्समदोब्रूते हेयजमानाः वोयुष्मदर्थंसतांमहतांदेवानांज्येष्थतमायअतिशयेनश्रेष्ठायइन्द्रायतदर्थं अग्नाविवसमिधाने इवशब्दएवार्थः दीप्यमानएवाग्नौहविःप्रभरे संपादयामि ततः परंसुष्टुतिंशोभनां- स्तुतिंकरोमि भरेति भृञ् भरणे ञित्त्वादुभयपदी लटिरूपं अजुर्यमजरणीयंजरयन्तंसर्वमन्यज्जरयन्तं उक्षितंसोमेनसिक्तंसनात् सनातनंयुवानंनित्यतरुणंतादृशमिन्द्रमवसेस्माकंरक्षणायतस्यतर्पणायवा हवामहे आह्वयामः ॥ १ ॥

2.16.2
यस्मा॒दिन्द्रा᳚द्बृह॒तः किं च॒नेमृ॒ते विश्वा᳚न्यस्मि॒न्त्सम्भृ॒ताधि᳚ वी॒र्या᳚ ।
ज॒ठरे॒ सोमं᳚ त॒न्वी॒३॒᳚ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर᳚ति शी॒र्षणि॒ क्रतु᳚म् ॥
▶ पदपाठः (Word-by-word)
यस्मा᳚त् । इन्द्रा᳚त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा᳚नि । अ॒स्मि॒न् । सम्॑भृ᳚ता । अधि᳚ । वी॒र्या᳚ ।
ज॒ठरे᳚ । सोम᳚म् । त॒न्वि᳚ । सहः᳚ । महः᳚ । हस्ते᳚ । वज्र᳚म् । भर᳚ति । शी॒र्षणि᳚ । क्रतु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

बृहतोमहतः यस्मादिन्द्रादृतेकिमपिईमिदंजगत् चननास्तीत्यर्थः चेतिनेतिनिपातद्वयसमुदायश्च- नेति चेतिचिदित्यर्थे नेतिनिषिद्धार्थे ऎकपद्यंतुसांप्रदायिकं उक्तार्थेमन्त्रः—नेन्द्रादृतेपवतेधामकिञ्चने- ति । यद्वा इन्द्रादृतेईमिदंजगत् किंचनक्षुद्रमत्यल्पमित्यर्थः कुतएतत्तदेवोच्यते—अस्मिन्निन्द्रेविश्वा- निसर्वाणिवीर्यवीर्याणिसामर्थ्यानिअधिसंभृताधिकंसंभृतान्यासुते यश्चेन्द्रोजठरेस्वोदरेसोममभिषुतं- सोमरसंभरतिबिभर्ति किञ्च तन्वि तन्वांस्वकीयेसर्वस्मिन शरीरेसहोबलंमहस्तेजश्चबिभर्ति हस्तेव- ज्रमायुधंबिभर्ति शीर्षणिशिरसिक्रतुंविज्ञानंभरतिबिभर्ति यद्वृत्तयोगादनिघातः वाक्यभेदाद्वानिघा- ताभावः शीर्षणि शीर्षंश्छ्न्दसीति ॥ २ ॥

2.16.3
न क्षो॒णीभ्यां᳚ परि॒भ्वे᳚ त इन्द्रि॒यं न स᳚मु॒द्रैः पर्व᳚तैरिन्द्र ते॒ रथः᳚ ।
न ते॒ वज्र॒मन्व᳚श्नोति॒ कश्च॒न यदा॒शुभि॒ः पत᳚सि॒ योज᳚ना पु॒रु ॥
▶ पदपाठः (Word-by-word)
न । क्षो॒णीभ्या᳚म् । प॒रि॒॑भ्वे᳚ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व᳚तैः । इ॒न्द्र॒ । ते॒ । रथः᳚ ।
न । ते॒ । वज्र᳚म् । अनु᳚ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शु॑भिः᳚ । पत᳚सि । योज᳚ना । पु॒रु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेतवइन्द्रियंबलंक्षोणीभ्यांद्यावापृथिवीभ्यांनपरिभ्वे नपरिभवनीयंक्रुत्यार्थेतवैकेन्केन्य- त्वनइतिकेन्प्रत्ययः उदात्तस्वरितयोरितिस्वरितत्वं किञ्च तेरथः समुद्रैः पर्वतैश्चनपरिभवनीयः तेव- ज्रमायुधंकश्चनपुमान् नान्वश्नोति नव्याप्नोतिपरिभवितुं अशूव्याप्तौव्यत्ययेनपरस्मैपदम् यद्यदाऽ– सुरवधार्थंदिग्विजयकाले आशुभिः शीघ्रगामिभिरश्वैः पुरुपुरूणिबहूनियोजनायोजनानिपतसि गच्छसि तदातवबलादिनपरिभवनीयमितिसमन्वयः ॥ ३ ॥

2.16.4 समानपद
विश्वे॒ ह्य᳚स्मै यज॒ताय᳚ धृ॒ष्णवे॒ क्रतुं॒ भर᳚न्ति वृष॒भाय॒ सश्च᳚ते ।
वृषा᳚ यजस्व ह॒विषा᳚ वि॒दुष्ट᳚र॒ः पिबे᳚न्द्र॒ सोमं᳚ वृष॒भेण᳚ भा॒नुना᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚ । हि । अ॒स्मै॒ । य॒ज॒ताय᳚ । धृ॒ष्णवे᳚ । क्रतु᳚म् । भर᳚न्ति । वृ॒ष॒भाय᳚ । सश्च᳚ते ।
वृषा᳚ । य॒ज॒स्व॒ । ह॒विषा᳚ । वि॒दुः॑त᳚रः । पिब᳚ । इ॒न्द्र॒ । सोम᳚म् । वृ॒ष॒भेण᳚ । भा॒नुना᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजमान विशेसर्वेजनाः यजतायसर्वैर्यजनीयायधृष्णवेशत्रूणांधर्षणशीलाय वृषभायकामानांव-र्षित्रेस्श्चतेसज्जमानायस्तुत्यादिकर्मवत्सुस्तोतृषुएतादृशायास्माइन्द्रायक्रतुंयज्ञादिलक्षणंकर्मभरन्तिहि हरन्तिखलु प्र्णयन्तीत्यर्थः भरन्ति हियोगादनिघातः यस्मादेवंतस्माद्वृषासोमरससेचनसमर्थः विदु- ष्टरः विद्वच्छब्दात्तरपिछान्दसंसंप्रसारणं शासिवसिघसीनांचेतिसंहितायांषत्वम् विद्वत्तरस्त्वंहविषा- तमिन्द्रंयजस्व इदानीमिन्द्रंसंबोध्यआह—हेइन्द्र वृषभेणकामानांवर्षकेणभानुनादीप्यमानेनाग्निनास- हसोमंपिब ॥ ४ ॥

2.16.5 समानपद
वृष्ण॒ः कोशः᳚ पवते॒ मध्व᳚ ऊ॒र्मिर्वृ᳚ष॒भान्ना᳚य वृष॒भाय॒ पात᳚वे ।
वृष᳚णाध्व॒र्यू वृ᳚ष॒भासो॒ अद्र᳚यो॒ वृष᳚णं॒ सोमं᳚ वृष॒भाय᳚ सुष्वति ॥
▶ पदपाठः (Word-by-word)
वृष्णः᳚ । कोशः᳚ । प॒व॒ते॒ । मध्वः᳚ । ऊ॒र्मिः । वृ॒ष॒भ॑अ᳚न्नाय । वृ॒ष॒भाय᳚ । पात᳚वे ।
वृष᳚णा । अ॒ध्व॒र्यू इति᳚ । वृ॒ष॒भासः᳚ । अद्र᳚यः । वृष᳚णम् । सोम᳚म् । वृ॒ष॒भाय᳚ । सु॒स्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र वृष्णः फलस्यवर्षितुः मध्वः मदकरस्यसोमस्यकोशोरसः ऊर्मिः अनुष्ठातॄणां पातॄणांचप्रेरकः सन् पवतेगच्छति पवगतौ अनुदात्तेत् किमर्थं वृषभान्नाय बलवर्षकानिअन्नानि यस्यसतथोक्तः तादृ- शायवृषभायकामानंवर्षित्रे इन्द्रायपातवेपानार्थंपवतइतिसमन्वयः किञ्च वृषणासोमरससेचनसमर्थौ अध्वर्यूअध्वर्युप्रतिप्रस्थातारौवृषभासः वर्षकाअद्रयोभिषवग्रावाणश्चवृषणंस्वर्गादिफ्बलस्यसेक्तारं सोमंवृषभायदेवानांश्रेष्ठायतुभ्यंसुष्वति सुन्वन्ति सुनोतेर्लटिबहुलंछन्दसीतिविकरणस्यश्लुः अदभ्य- स्तादितिझेरदादेशः ॥ ५ ॥

2.16.6
वृषा᳚ ते॒ वज्र᳚ उ॒त ते॒ वृषा॒ रथो॒ वृष᳚णा॒ हरी᳚ वृष॒भाण्यायु᳚धा ।
वृष्णो॒ मद᳚स्य वृषभ॒ त्वमी᳚शिष॒ इन्द्र॒ सोम᳚स्य वृष॒भस्य᳚ तृप्णुहि ॥
▶ पदपाठः (Word-by-word)
वृषा᳚ । ते॒ । वज्रः᳚ । उ॒त । ते॒ । वृषा᳚ । रथः᳚ । वृष᳚णा । हरी॒ इति᳚ । वृ॒ष॒भाणि᳚ । आयु᳚धा ।
वृष्णः᳚ । मद᳚स्य । वृ॒ष॒भ॒ । त्वम् । ई॒शि॒षे॒ । इन्द्र᳚ । सोम᳚स्य । वृ॒ष॒भस्य᳚ । तृ॒प्णु॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषभ कामानांवर्षक हेइन्द्र तेतववज्रः वृषाकामवर्षकः तथातेरथोपिवृषा तेहरीएतन्नामकावश्वौ वृषणावर्षकौतवआयुधावज्रव्यतिरिक्तान्यायुधान्यपिवृषभाणि वृष्णोवर्षकस्यमदस्य मदकरस्यसोम- स्यत्वमेवईशिषे स्वामीभवसि हेइन्द्र वृषभस्यवर्षकेणसोमस्यसोमेनतृप्णुहि तृप्तोभव तृपप्रीणने स्वा- दिः क्षुभ्रादिषु नृमन तृमोतीतिपठितं तथापिसर्वविधीनांछन्दसिविकल्पितत्वादत्रणत्वप्रतिषेधोनभ- वति ॥ ६ ॥

2.16.7 समानपद
प्र ते॒ नावं॒ न सम᳚ने वच॒स्युवं॒ ब्रह्म᳚णा यामि॒ सव᳚नेषु॒ दाधृ᳚षिः ।
कु॒विन्नो᳚ अ॒स्य वच᳚सो नि॒बोधि᳚ष॒दिन्द्र॒मुत्सं॒ न वसु᳚नः सिचामहे ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । नाव᳚म् । न । सम᳚ने । व॒च॒स्युव᳚म् । ब्रह्म᳚णा । या॒मि॒ । सव᳚नेषु । दधृ᳚षिः ।
कु॒वित् । नः॒ । अ॒स्य । वच᳚सः । नि॒॑बोधि᳚षत् । इन्द्र᳚म् । उत्स᳚म् । न । वसु᳚नः । सि॒चा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दाधृषिः त्वत्प्रसादात् शत्रूणांधर्षकोहं समनएसंग्रामेवचस्युवं अमि तन्वादित्वादुवङादेशः स्ता- त्रमिच्छन्तंनावंन नावमिव आपद्भ्यस्तारकं तेत्वांसवनेषुत्रिषुब्रह्मणास्तोत्रेणप्रयामिप्राप्नोमि किञ्च नोस्माकंअस्यवचसः स्तुतिलक्षणमेतद्वाक्यं कुविद्बहुनिबोधिषत् इन्द्रोनितरांबुध्यतां बुधअवगमने लिटिसिब्बहुलमितिसिप् कुविद्योगादनिघातः तिङिचोदात्तवतीतिगतेर्निघातः वयंचउत्संन जलस्य- निधानभूतंकूपमिव वसुनोनिधानभूतमिन्द्रंसिचामहे सोमेनसिंचामः सिचिर् क्षरणे स्वरितेत् आग- मानुशासनस्यानित्यत्वान्नुमभावः ॥ ७ ॥

2.16.8
पु॒रा स᳚म्बा॒धाद॒भ्या व᳚वृत्स्व नो धे॒नुर्न व॒त्सं यव᳚सस्य पि॒प्युषी᳚ ।
स॒कृत्सु ते᳚ सुम॒तिभि᳚ः शतक्रतो॒ सं पत्नी᳚भि॒र्न वृष᳚णो नसीमहि ॥
▶ पदपाठः (Word-by-word)
पु॒रा । स॒म्॑बा॒धात् । अ॒भि । आ । व॒वृ॒त्स्व॒ । नः॒ । धे॒नुः । न । व॒त्सम् । यव᳚सस्य । पि॒प्युषी᳚ ।
स॒कृत् । सु । ते॒ । सु॒म॒ति॑भिः᳚ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । सम् । पत्नी᳚भिः । न । वृष᳚णः । न॒सी॒म॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र संबाधात् शत्रुजन्यात्स्वंबाधात्पुरानोस्मान् अभ्याववृत्स्व आवर्तय यथासंबाधोस्मान् नस्पृशति तथाकुर्वित्यर्थः तत्रदृष्टान्तः—धेनुर्नवत्सं यथायवसस्यघासेनपिप्युषी आप्यायिता धेनुर्वत्सं क्षुद्बाधात्परावर्तयति तद्वत् हेशतक्रतो वयंसुमतिभिः त्वद्विषयैःशोभनैःस्तोत्रैः सकृत् सकृदपिसुनसी- महि सुष्थुव्याप्येमहि तत्रदृष्टान्तः—वृषणोन सेक्तारोयुवानःयथापत्नीभिर्व्याप्यन्तेतद्वत् ॥ ८ ॥

2.16.9
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु᳚ही॒यदि᳚न्द्र॒ दक्षि᳚णा म॒घोनी᳚ ।
शिक्षा᳚ स्तो॒तृभ्यो॒ माति᳚ ध॒ग्भगो᳚ नो बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । सा । ते॒ । प्रति᳚ । वर᳚म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि᳚णा । म॒घोनी᳚ ।
शिक्ष᳚ । स्तो॒तृ॑भ्यः᳚ । मा । अति᳚ । ध॒क् । भगः᳚ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नूनंसातइतिव्याख्याता ॥ ९ ॥

तदस्माइतिनवर्चंषष्ठंसूक्तंगार्त्समदमैन्द्रं अत्रानुक्रमणिका तदस्मैद्वित्रिष्टुबन्तमिति अन्त्येद्वेत्रिष्टु- भे शिष्टाःसप्तजगत्यः अतिरात्रेद्वितीयेपर्यायेअच्छावाकशस्त्रे तदस्माइतिसूक्तम् अतिरात्रेपर्यायाणा- मितिखण्डेसूत्रितम् तदस्मैनव्यमस्यपिबयस्यजजानइन्द्रेतियाज्येति ।