द्वितीयं मण्डलम् - सूक्तम् 28

11 ऋचः

ऋषिः: कूर्मो गार्त्समदो गृत्समदो वा देवता: वरुणः छन्दः: त्रिष्टुप्

सूक्तम् 2.28 - सम्पूर्णम्

1 / 11
ऋक्: 2.28.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
2.28.1 समानपद
इ॒दं क॒वेरा᳚दि॒त्यस्य᳚ स्व॒राजो॒ विश्वा᳚नि॒ सान्त्य॒भ्य᳚स्तु म॒ह्ना ।
अति॒ यो म॒न्द्रो य॒जथा᳚य दे॒वः सु᳚की॒र्तिं भि᳚क्षे॒ वरु᳚णस्य॒ भूरे᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । क॒वेः । आ॒दि॒त्यस्य᳚ । स्व॒॑राजः᳚ । विश्वा᳚नि । सन्ति᳚ । अ॒भि । अ॒स्तु॒ । म॒ह्ना ।
अति᳚ । यः । म॒न्द्रः । य॒जथा᳚य । दे॒वः । सु॒॑की॒र्तिम् । भि॒क्षे॒ । वरु᳚णस्य । भूरेः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कवेः क्रान्तदर्शिनआदित्यस्य अदितेःपुत्रस्य स्वराजः स्वयमेवराजमानस्येश्वरस्यवा वरुणस्येदं हविःस्तोत्रंवा यजमानःकरोतीतिशेषः सचविश्वानिसर्वाणिसंति द्वितीयभावविकारभांजिभूतजाता निमह्नामहिम्नावरुणप्रसादाल्लब्धेनअभ्यस्तु अभिभवतु योदेवोद्योतमानोवरुणः यजथाययष्ट्रेपुरुषा यअतिशयेनमन्द्रः स्तुत्योहर्षयितावाभवति तस्यभूरेर्भर्तुर्वरुणस्यसुकीर्तिंशोभनांस्तुतिं भिक्षेप्रार्थये यद्वा वरुणस्येतितृतीयार्थेषष्ठी तेनवरुणेनदातव्यांशोभनांकीर्तिं अहंयाचे ॥ १ ॥

2.28.2
तव᳚ व्र॒ते सु॒भगा᳚सः स्याम स्वा॒ध्यो᳚ वरुण तुष्टु॒वांसः᳚ ।
उ॒पाय᳚न उ॒षसां॒ गोम᳚तीनाम॒ग्नयो॒ न जर᳚माणा॒ अनु॒ द्यून् ॥
▶ पदपाठः (Word-by-word)
तव᳚ । व्र॒ते । सु॒॑भगा᳚सः । स्या॒म॒ । सु॒॑आ॒ध्यः᳚ । व॒रु॒ण॒ । तु॒स्तु॒॑वांसः᳚ ।
उ॒प॒॑अय᳚ने । उ॒षसा᳚म् । गो॑म᳚तीनाम् । अ॒ग्नयः᳚ । न । जर᳚माणाः । अनु᳚ । द्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण स्वाध्यः शोभनाध्यानाः तुष्द्टुवांसः स्तुतवन्तोवयं तवव्रतेत्वदीयेपरिचरणाख्ये कर्म- णिवर्तमानाः सुभगासःस्याम शोभनधनाभवेम अपिचगोमतीनांरश्मिभिर्युक्तानामुषसांउपायने उपा ममनेसति अग्नयोन यथाअग्नयोग्निहोत्रादिकर्मार्थंसमिध्यन्ते एवमनुद्यून् अनुदितंजरमाणास्त्वांस्तु वन्तोवयंदीप्यमानाभवेम ॥ २ ॥

2.28.3
तव᳚ स्याम पुरु॒वीर᳚स्य॒ शर्म᳚न्नुरु॒शंस᳚स्य वरुण प्रणेतः ।
यू॒यं नः᳚ पुत्रा अदितेरदब्धा अ॒भि क्ष᳚मध्वं॒ युज्या᳚य देवाः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्या॒म॒ । पु॒रु॒॑वीर᳚स्य । शर्म᳚न् । उ॒रु॒॑शंस᳚स्य । व॒रु॒ण॒ । प्र॒ने॒त॒रिति᳚ प्र॑नेतः ।
यू॒यम् । नः॒ । पु॒त्राः॒ । अ॒दि॒तेः॒ । अ॒द॒ब्धाः॒ । अ॒भि । क्ष॒म॒ध्व॒म् । युज्या᳚य । दे॒वाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेप्रणेतः सर्वस्यजगतः प्रकर्षेणनेतः वरुण पुरुवीरस्यपुरुभिर्बहुभिःवीरैरुपेतस्य यद्वा पुरूणांबहूनां शत्रूणांविशेषेणप्रेरकस्य उरुशंसस्यउरुभिर्बहुभिः स्तूयमानस्यतवशर्मन् शर्मणिसुखेगृहेवा स्याम अ- दितेः पुत्राः मित्रादयः परमपिच्छन्दसीतिपरस्यषष्ठ्यन्तस्यपूर्वामन्त्रिताङ्गवद्भावेनानुप्रवेशात् पदद्वयसमुदायस्याष्टमिकंसर्वानुदात्तत्वम् अदब्धाशत्रुभिरहिंसिताः एवंभूताहेदेवाः यूयंनोस्मान् कृता पराधान् युज्यायसख्यायअभिक्षमध्वं अस्माभिःकृतमपराधंसहध्वम् ॥ ३ ॥

2.28.4
प्र सी᳚मादि॒त्यो अ᳚सृजद्विध॒र्ता{4} ऋ॒तं सिन्ध᳚वो॒ वरु᳚णस्य यन्ति ।
न श्रा᳚म्यन्ति॒ न वि मु᳚चन्त्ये॒ते वयो॒ न प᳚प्तू रघु॒या परि᳚ज्मन् ॥
▶ पदपाठः (Word-by-word)
प्र । सी॒म् । आ॒दि॒त्यः । अ॒सृ॒ज॒त् । वि॒॑ध॒र्ता । ऋ॒तम् । सिन्ध᳚वः । वरु᳚णस्य । य॒न्ति॒ ।
न । श्रा॒म्य॒न्ति॒ । न । वि । मु॒च॒न्ति॒ । ए॒ते । वयः᳚ । न । प॒प्तुः॒ । र॒घु॒॑या । परि᳚॑ज्मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

विधर्ता सेतुरिवजलस्यविधारयिता आदित्यःअदितेःपुत्रोवरुणः ऋतंविधारणहेतुभूतंसत्यम् यद्वा नदीनामुपादानभूतमुदकम् सींसर्वतः प्रासृजत् प्रकर्षेणसृष्टवान् अणोप्रगृह्यस्यानुनासिकइत्याकारः सानुनासिकः तेनवरुणस्यर्तेन सिन्धवः स्यन्दनशीलानद्योयन्तिगच्छन्ति प्रवहन्ति एतेसिन्धवः नश्रा- म्यन्तिनप्राप्नुवन्ति नविमुचन्ति उपरतानभवन्ति अनलसाः सर्वदैकरूपेण प्रवहन्तीत्यर्थः एतदेवोच्य- ते—वयोन वयः पक्षिणइवरघुयाः लघुवर्गाः शीघ्रगामिनः परिज्मन् परिज्मनिभूम्यांपप्तुःपतंतिगच्छ न्ति पतॢगतौ लिट्युसितनिपत्योश्छान्दसीत्युपधालोपः स्थानिवद्भावात् द्विर्वचनादि रघुयाइत्यत्रसु- पांसुलुगितिजसोयाजादेशः ॥ ४ ॥

2.28.5
वि मच्छ्र᳚थाय रश॒नामि॒वाग᳚ ऋ॒ध्याम᳚ ते वरुण॒ खामृ॒तस्य᳚ ।
मा तन्तु᳚श्छेदि॒ वय᳚तो॒ धियं᳚ मे॒ मा मात्रा᳚ शार्य॒पसः᳚ पु॒र ऋ॒तोः ॥
▶ पदपाठः (Word-by-word)
वि । मत् । श्र॒थ॒य॒ । र॒श॒नाम्॑इ᳚व । आगः᳚ । ऋ॒ध्याम᳚ । ते॒ । व॒रु॒ण॒ । खाम् । ऋ॒तस्य᳚ ।
मा । तन्तुः᳚ । छे॒दि॒ । वय᳚तः । धिय᳚म् । मे॒ । मा । मात्रा᳚ । शा॒रि॒ । अ॒पसः᳚ । पु॒रा । ऋ॒तोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण मत् मत्सकाशात् रशनामिवरज्जुमिवआगः विहिताननुष्ठानजनितं पापं विश्रथय शिथि- लीकुरु विमोचयोत्यर्थः तेत्वत्संबन्धिनऋतस्योदकस्यपूर्णांखांनदीं खाइतिनदीनाम तां ऋध्याम लभेमहि अपिच धियंकर्म वयतः संतन्वतोमेममतन्तुःकर्मसन्ततिः माछेदि छिन्नोमाभूत् नैरन्तर्येणा- स्त्वित्यर्थः तथाऋतोः समाप्तिकालात् पुरापूर्वंअपसः कर्मणः मात्राशरीरं प्राच्योदीच्यांगलक्षणं मा- शारि शीर्णंविकलंमाभूत् शॄहिंसायां कर्मणिलुङ् पुरऋतोरित्यत्रऋत्यकइतिप्रकृतिभावः ॥ ५ ॥

2.28.6 समानपद
अपो॒ सु म्य᳚क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वो॑नु᳚ मा गृभाय ।
दामे᳚व व॒त्साद्वि मु᳚मु॒ग्ध्यंहो᳚ न॒हि त्वदा॒रे नि॒मिष᳚श्च॒नेशे᳚ ॥
▶ पदपाठः (Word-by-word)
अपो॒ इति᳚ । सु । म्य॒क्ष॒ । व॒रु॒ण॒ । भि॒यस᳚म् । मत् । सम्॑रा᳚ट् । ऋत᳚॑वः । अनु᳚ । मा॒ । गृ॒भा॒य॒ ।
दाम᳚॑इव । व॒त्सात् । वि । मु॒मु॒ग्धि॒ । अंहः᳚ । न॒हि । त्वत् । आ॒रे । नि॒॑मिषः᳚ । च॒न । ईशे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण भियसं भयं मत् मत्तः सुसुष्ठुअपोम्यक्षअपगमय हेमम्नाट् सम्यग्राजमान हेऋतावः सत्य- वन् यज्ञवन्वावरुण मामां अनुगृभाय अनुगृहाण छन्दसिशायजपीतिश्नःशायजोदेशः हृग्रहोर्भइति- भत्वम् अपिच दामेववत्सात् यथादोग्धावत्ससकाशात् बन्धनींरज्जुंविमुञ्चति तथा अंहः पापंमत्स- काशाद्विमुमुग्धि विमुञ्च छान्दसःशपःश्लुः पृथक्कुरु त्वदारेत्वत्तोदूरदेशेवर्तमानः त्वदन्यइत्यर्थः त्व- त्तोन्यःकश्चित् निमिषश्चन निमेषस्यापि अक्षिपक्ष्मचलनस्यापि नहिईशे नेष्टे त्वमेवईश्वरइत्यर्थः लोपस्तआत्मनेपदेष्वितितलोपः ॥ ६ ॥

2.28.7
मा नो᳚ व॒धैर्व᳚रुण॒ ये त᳚ इ॒ष्टावेनः᳚ कृ॒ण्वन्त᳚मसुर भ्री॒णन्ति᳚ ।
मा ज्योति᳚षः प्रवस॒थानि᳚ गन्म॒ वि षू मृधः᳚ शिश्रथो जी॒वसे᳚ नः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । व॒धैः । व॒रु॒ण॒ । ये । ते॒ । इ॒ष्टौ । एनः᳚ । कृ॒ण्वन्त᳚म् । अ॒सु॒र॒ । भ्री॒णन्ति᳚ ।
मा । ज्योति᳚षः । प्र॒॑व॒स॒थानि᳚ । ग॒न्म॒ । वि । सु । मृधः᳚ । शि॒श्र॒थः॒ । जी॒वसे᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण नोस्मान्वधैः हननसाधनैरायुधैर्माहिंसीरितिशेषः हेअसुर पापकृतांनिरसितः ते त्वदीये- इष्टौयज्ञेएनः विहिताननुष्ठानेनजनितंपापंकृण्वन्तंकुर्वन्तंपुरुषंयेवधाभ्रीणन्ति हिंसन्ति तैरितिपूर्वत्रसं- बन्धः भ्रीष् हिंसायां क्रैयादिकः अपिच ज्योतिषः गृहेवर्तमानादग्नेःसौरप्रकाशाद्वाप्रवसथानिप्रवासा- न्मागन्म मागच्छाम सर्वदागृहेवर्तमानः सूर्यंपश्यंश्चिरकालंजीवेयमित्यर्थः गमेर्लुङिमन्त्रेघ्सेतिच्लेर्लुक् तथानोस्माकंजीवसेजीवनायमृधोहिंसकान् सुसुष्ठुविशिश्रथः विश्लेषय बाधस्वेत्यर्थः ॥ ७ ॥

2.28.8
नमः᳚ पु॒रा ते᳚ वरुणो॒त नू॒नमु॒ताप॒रं तु᳚विजात ब्रवाम ।
त्वे हि कं॒ पर्व᳚ते॒ न श्रि॒तान्यप्र᳚च्युतानि दूळभ व्र॒तानि᳚ ॥
▶ पदपाठः (Word-by-word)
नमः᳚ । पु॒रा । ते॒ । व॒रु॒ण॒ । उ॒त । नू॒नम् । उ॒त । अ॒प॒रम् । तु॒वि॒॑जा॒त॒ । ब्र॒वा॒म॒ ।
त्वे इति᳚ । हि । क॒म् । पर्व᳚ते । न । श्रि॒तानि᳚ । अप्र᳚॑च्युतानि । दुः॒॑द॒भ॒ । व्र॒तानि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण पुरापूर्वस्मिन्काले तेतुभ्यंनमः नमस्कारप्रतिपादकं नमइतिशब्दमवादिष्म उतअपिचनू नमद्यापिब्रवाम उतअपिच हे तुविजात बहुप्रदेशेषुप्रादुर्भूत वरुण अपरं आगामिन्यपिकालेनमः शब्दंब्रवाम उच्चारयाम क्स्मादितिचेदुच्यते—दूळभ दुर्दभ दंभितुंहिंसितुमशक्य दुरोदाशनाशद- भध्येष्वितिरेफस्योत्वमुत्तरपदांदेष्टुत्वंच कमित्येतत्प दपूरणम् हियस्मात् त्वेत्वयिपर्वतेन शिलो- च्चयेइव अच्युतानि अन्यैः प्रच्यावयितुमशक्यानि व्रतानिकर्माणिविधरणानि श्रितानि आश्रितानि तस्मादित्यर्थः ॥ ८ ॥

2.28.9
पर᳚ ऋ॒णा सा᳚वी॒रध॒ मत्कृ᳚तानि॒ माहं रा᳚जन्न॒न्यकृ᳚तेन भोजम् ।
अव्यु᳚ष्टा॒ इन्नु भूय᳚सीरु॒षास॒ आ नो᳚ जी॒वान्व᳚रुण॒ तासु᳚ शाधि ॥
▶ पदपाठः (Word-by-word)
परा᳚ । ऋ॒णा । सा॒वीः॒ । अध᳚ । मत्॑कृ᳚तानि । मा । अ॒हम् । रा॒ज॒न् । अ॒न्य॑कृ᳚तेन । भो॒ज॒म् ।
अवि᳚॑उष्टाः । इत् । नु । भूय᳚सीः । उ॒षसः᳚ । आ । नः॒ । जी॒वान् । व॒रु॒ण॒ । तासु᳚ । शा॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण ऋणाऋणानिपित्रादिभिः कृतान्यस्माभिर्देयानिपरासावीः परासुव पराचीनप्रेरय षुप्रेरणे छान्दसोलुङ् अधाधुनामत्कृतनिमयानिष्पादितानिऋणानिपरासुव अपिच हेराजन् स्वामिन् वरुणअहंअन्यकृतेनअन्यैरर्जितेनधनेनमाभोजंभोगंमालभेयम् किंकारणमितिचेदुच्यते—भूयसीः भूयस्योबहुतराः उषसः अव्युष्टाइत् नुसत्यंअव्युष्टाएवअपररात्रेषूत्थायऋणानि चिन्तयतोजाग्रतो- ममव्युष्टाअप्यव्युष्टक्ल्पाआसन् हेवरुण तासूषस्सुनोस्मान् जीवान् जीवनवतः आशाधि आसमन्ताद- नुशिष्टान्कुरु ऋणान्यपहृत्यभोगपर्याप्तंधनंप्रयच्छेत्यर्थः ॥ ९ ॥

2.28.10 समानपद
यो मे᳚ राज॒न्युज्यो᳚ वा॒ सखा᳚ वा॒ स्वप्ने᳚ भ॒यं भी॒रवे॒ मह्य॒माह᳚ ।
स्ते॒नो वा॒ यो दिप्स᳚ति नो॒ वृको᳚ वा॒ त्वं तस्मा᳚द्वरुण पाह्य॒स्मान् ॥
▶ पदपाठः (Word-by-word)
यः । मे॒ । रा॒ज॒न् । युज्यः᳚ । वा॒ । सखा᳚ । वा॒ । स्वप्ने᳚ । भ॒यम् । भी॒रवे᳚ । मह्य᳚म् । आह᳚ ।
स्ते॒नः । वा॒ । यः । दिप्स᳚ति । नः॒ । वृकः᳚ । वा॒ । त्वम् । तस्मा᳚त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेराजन् वरुण मेमदीयोयुज्योयोजनसमर्थः पित्रादिर्वासखासमानख्यानोबान्धवोवा स्वमेदृष्टंत्व- द्विषयंभयंभीरवेभयशीलायमह्यंयआहब्रूते तथास्तेनश्चौरोवावृकोरण्यश्वावा योनोस्मान् दिप्सतिजि- घांसति सनीवंतर्धेतिविकल्पनादिडभावः दम्भइच्चेतीत्वम् हेवरुण त्वंतस्मात्सर्वस्मादस्मान्पाहिरक्ष ॥ १० ॥

2.28.11
माहं म॒घोनो᳚ वरुण प्रि॒यस्य᳚ भूरि॒दाव्न॒ आ वि᳚दं॒ शून᳚मा॒पेः ।
मा रा॒यो रा᳚जन्त्सु॒यमा॒दव᳚ स्थां बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
मा । अ॒हम् । म॒घोनः᳚ । व॒रु॒ण॒ । प्रि॒यस्य᳚ । भू॒रि॒॑दाव्नः᳚ । आ । वि॒द॒म् । शून᳚म् । आ॒पेः ।
मा । रा॒यः । रा॒ज॒न् । सु॒॑यमा᳚त् । अव᳚ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण प्रियस्यभूरिदाव्रः भूरेर्देहनस्यदातुर्धनवतआद्यस्यपुरतः पुत्रादेर्दारिन्द्यंअहंमाअविदं माआ वेदयानि ज्ञापयानि हेराजन् सुष्ठुनियमकाद्धनात् अवयुत्यस्थितोमाभूवंशोभनपुत्राः यज्ञेगृहेवावर्त- मानाः प्रौढंस्तोत्रंउच्चारयामः ॥ ११ ॥

धृतव्रताइतिसप्तर्चंसप्तमंसूक्तंगार्त्समदस्यकूर्मस्यगृत्समदस्यवार्षम् त्रैष्टुभं वैशदेवम् तथाचानुक्रा- न्तम्—धृतव्रताः सप्तवैश्वदेवमिति गतोविनियोगः ।