द्वितीयं मण्डलम् - सूक्तम् 38

11 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: सविता छन्दः: त्रिष्टुप्

सूक्तम् 2.38 - सम्पूर्णम्

1 / 11
ऋक्: 2.38.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
2.38.1
उदु॒ ष्य दे॒वः स᳚वि॒ता स॒वाय᳚ शश्वत्त॒मं तद᳚पा॒ वह्नि᳚रस्थात् ।
नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ᳚जद्वी॒तिहो᳚त्रं स्व॒स्तौ ॥
▶ पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय᳚ । श॒श्व॒त्॑त॒मम् । तत्॑अ᳚पाः । वह्निः᳚ । अ॒स्था॒त् ।
नू॒नम् । दे॒वेभ्यः᳚ । वि । हि । धाति᳚ । रत्न᳚म् । अथ᳚ । आ । अ॒भ॒ज॒त् । वी॒ति॑हो᳚त्रम् । स्व॒स्तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्यः सदेवोद्योतमानः सवितासवायलोकानांप्रसवाय अनुज्ञायैशश्वत्तमंप्रतिदिनंउदस्थात् उत्ति ष्ठति उइतिपूरणः कीदृशःसवितातदपाः तत्प्रसवकर्मा अपः अप्नइतिकर्मनामसुपाठात् वह्निर्वो ढाजगतां किंच नूनंसंप्रतिदेवेभ्यः स्तोतृभ्योरत्नंधनंविहिधातिप्रयच्छति हीतिपूरणे अथच अपिच वीतिहोत्रंकान्तयज्ञंयजमानंस्वस्तौअविनाशेक्षेमेआअभजद्भागिनंकरोतु यद्यपि स्वस्तिशब्दोविभ- क्त्यन्तनिर्दिष्टशब्दपरस्तथाप्यपर्यवसानादर्थपरोभवति ॥ १ ॥

2.38.2
विश्व᳚स्य॒ हि श्रु॒ष्टये᳚ दे॒व ऊ॒र्ध्वः प्र बा॒हवा᳚ पृ॒थुपा᳚णि॒ः सिस᳚र्ति ।
आप᳚श्चिदस्य व्र॒त आ निमृ᳚ग्रा अ॒यं चि॒द्वातो᳚ रमते॒ परि᳚ज्मन् ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्य । हि । श्रु॒ष्टये᳚ । दे॒वः । ऊ॒र्ध्वः । प्र । बा॒हवा᳚ । पृ॒थु॑पा᳚णिः । सिस᳚र्ति ।
आपः᳚ । चि॒त् । अ॒स्य॒ । व्र॒ते । आ । नि॑मृ᳚ग्राः । अ॒यम् । चि॒त् । वातः᳚ । र॒म॒ते॒ । परि᳚॑ज्मन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवोद्योतमानः सवितापृथुपाणिः महाकरः विश्वस्यश्रुष्ट्ये जगतःसुखाय ऊर्ध्वौद्गतः सन् बाहवा बाहू प्रसिसर्तिप्रसारयति हीतिपूरणार्थः आपश्चित् आपोपिअस्यव्रतेप्रसवाख्येकर्मणिसति व्रतंकर्वरमितितन्नामसुपाठात् आस्यन्दन्तइतिशेषः ताश्चनिमृग्राः नितरांशोधयित्र्यः गङ्गादिरूपे णजगत्पावयन्तीत्यर्थः अयंचिद्वातः अयमपिवायुः परिज्मन् परितोगतेव्याप्तेन्तरिक्षे रमते ॥ २ ॥

2.38.3
आ॒शुभि᳚श्चि॒द्यान्वि मु᳚चाति नू॒नमरी᳚रम॒दत᳚मानं चि॒देतो᳚ः ।
अ॒ह्यर्षू᳚णां चि॒न्न्य᳚या{4} अवि॒ष्यामनु᳚ व्र॒तं स᳚वि॒तुर्मोक्यागा᳚त् ॥
▶ पदपाठः (Word-by-word)
आ॒शु॑भिः᳚ । चि॒त् । यान् । वि । मु॒चा॒ति॒ । नू॒नम् । अरी᳚रमत् । अत᳚मानम् । चि॒त् । एतोः᳚ ।
अ॒ह्यर्षू᳚णाम् । चि॒त् । नि । अ॒या॒न् । अ॒वि॒ष्याम् । अनु᳚ । व्र॒तम् । स॒वि॒तुः । मोकी᳚ । आ । अ॒गा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यान् गच्छन् सविता आशुभिश्चित् शीघ्रगामिभिरपिरश्मिभिर्विमुचाति विमुच्यते नूनमि- तिपूरणः अतमानंचित् सततंगच्छन्तमपिजनंएतोर्गगनात् अरीरमत् उपरमयति किंच अह्यर्षूणां चित् अहिमाहन्तारंशत्रुं अर्षन्ति अभिगच्छन्तीत्यह्यर्षवः तेषामपिअविष्यां गमनेच्छां न्ययान् नियच्छति सवितुः प्रेरकस्यसूर्यस्यव्रतंकर्मअनुपश्चात् मोकीरात्रिः मोकीशोकीतिरात्रिनामसुपाठात् आगात् आगच्छति सवितुश्चेष्टोपरतौरात्रिरागच्छतीतियावत् ॥ ३ ॥

2.38.4 समानपद
पुन॒ः सम᳚व्य॒द्वित᳚तं॒ वय᳚न्ती म॒ध्या कर्तो॒र्न्य᳚धा॒च्छक्म॒ धीरः᳚ ।
उत्सं॒हाया᳚स्था॒द्व्यृ१॒᳚तू{4}र᳚दर्धर॒रम᳚तिः सवि॒ता दे॒व आगा᳚त् ॥
▶ पदपाठः (Word-by-word)
पुन॒रिति᳚ । सम् । अ॒व्य॒त् । वि॑त᳚तम् । वय᳚न्ती । म॒ध्या । कर्तोः᳚ । नि । अ॒धा॒त् । शक्म᳚ । धीरः᳚ ।
उत् । स॒म्॑हाय᳚ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम᳚तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयन्ती वस्त्रंवयन्तीनारीव रात्रिः विततमालोकं पुनःसमव्यत् संवेष्टयते पुनःशब्दः पूर्वेद्युर प्येवमकार्षीदितिद्योतयति धीरः प्राज्ञोपि सर्वोलोकः कर्तोः क्रियमाणंकर्म कर्तोः कर्तवाइति तन्नामसुपाठात् शक्म कर्तुंशक्यमपि मध्या मध्ये उपक्रान्तं कर्म अपरिसमाप्येत्यर्थः न्यधात् निहितवान् सवितर्युपरतइतिशेषः सर्वोलोकः संहायशय्यांविहायउदस्थात् अविशिष्टंकर्मकर्तुं पुन रुत्तिष्ठति संपूर्वोजहातिःशय्यापरित्यागेवर्तते तथाचश्रूयते—कलिः शयानोभवतिसंजिहानस्तुद्रापर इति । सवितासर्वस्यप्रसवितासूर्यः अरमतिः अनुपरतिःदेवः द्योतमानः आगात् आगच्छति उदे तीतियावत् ऋतून् कालविशेषांश्चव्यदर्दः विदारयति ॥ ४ ॥

2.38.5
नानौकां᳚सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति᳚ष्ठते प्रभ॒वः शोको᳚ अ॒ग्नेः ।
ज्येष्ठं᳚ मा॒ता सू॒नवे᳚ भा॒गमाधा॒दन्व᳚स्य॒ केत᳚मिषि॒तं स᳚वि॒त्रा ॥
▶ पदपाठः (Word-by-word)
नाना᳚ । ओकां᳚सि । दुर्यः᳚ । विश्व᳚म् । आयुः᳚ । वि । ति॒ष्ठ॒ते॒ । प्र॒॑भ॒वः । शोकः᳚ । अ॒ग्नेः ।
ज्येष्ठ᳚म् । मा॒ता । सू॒नवे᳚ । भा॒गम् । आ । अ॒धा॒त् । अनु᳚ । अ॒स्य॒ । केत᳚म् । इ॒षि॒तम् । स॒वि॒त्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रभवः प्रभूतः अग्नेः शोकः तेजः दुर्यःगृह्यः गृहेभवः नानौकांसियजंमानानां पृथग्भूतान् गृहान् वितिष्ठते अधितिष्ठति विश्वमायुः सर्वमन्नंचाधितिष्ठति आयुः सूनृतेत्यन्ननामसुपाठात् माताउषाः सवित्राअन्विषितंप्रेषितं अस्यकेतं प्रज्ञापकंअग्नेः ज्येष्ठंप्रथमं अग्निहोत्राख्यंभागं सून वेअग्नयेआधात् आदधाति ॥ ५ ॥

2.38.6
स॒माव᳚वर्ति॒ विष्ठि᳚तो जिगी॒षुर्विश्वे᳚षां॒ काम॒श्चर᳚ताम॒माभू᳚त् ।
शश्वा{4}॒ अपो॒ विकृ᳚तं हि॒त्व्यागा॒दनु᳚ व्र॒तं स᳚वि॒तुर्दैव्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
स॒म्॑आव᳚वर्ति । वि॑स्थि᳚तः । जि॒गी॒षुः । विश्वे᳚षाम् । कामः᳚ । चर᳚ताम् । अ॒मा । अ॒भू॒त् ।
शश्वा᳚न् । अपः᳚ । वि॑कृ᳚तम् । हि॒त्वी । आ । अ॒गा॒त् । अनु᳚ । व्र॒तम् । स॒वि॒तुः । दैव्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

जिगीषुः विजयेच्छुर्योद्धा विष्ठितः युद्धार्थंप्रस्थितः समाववर्ति समावर्तयति विश्वेषां सर्वेषां चरतांजङ्गमानां अमा अमादमइतिगृहनामसुपाठात् गृहंप्रतिकामोभूत् भवति शश्वान् नित्यंकर्म रतः अपः कर्म विकृतं अर्धकृतं हित्वी हित्वा आगात् गृहमागच्छति एतत्सर्वं दैव्यस्य दिवि भवस्य सवितुः प्रेरकस्य सूर्यस्यव्रतं अस्तमयाख्यं कर्मानुजायतइत्यर्थः ॥ ६ ॥

2.38.7
त्वया᳚ हि॒तमप्य᳚म॒प्सु भा॒गं धन्वान्वा मृ᳚ग॒यसो॒ वि त᳚स्थुः ।
वना᳚नि॒ विभ्यो॒ नकि᳚रस्य॒ तानि᳚ व्र॒ता दे॒वस्य᳚ सवि॒तुर्मि᳚नन्ति ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । हि॒तम् । अप्य᳚म् । अ॒प्॑सु । भा॒गम् । धन्व᳚ । अनु᳚ । आ । मृ॒ग॒यसः᳚ । वि । त॒स्थुः॒ ।
वना᳚नि । वि॑भ्यः᳚ । नकिः᳚ । अ॒स्य॒ । तानि᳚ । व्र॒ता । दे॒वस्य᳚ । स॒वि॒तुः । मि॒न॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसवित्स्त्वया अप्सुअन्तरिक्षे आपः पृथिवीतिअन्तरिक्षनामसुपाठात् जलाधारेवाहितं निहि तं अप्यमपांसंबन्धिनंभागंधन्वानुनिर्ज्लप्रदेशेषुअरण्येषुमृगयसोम्रुगयमाणाः मृगाः आसमन्तात् वि वितस्थुरधितिष्ठन्ति किंच वनानिवृक्षाः विभ्यः पक्षिभ्यः आवासादिरूपेणत्वयाभागोदत्तः अस्य देवस्यसवितुः तानितादृशानि व्रताव्रतानि कर्माणिनकिर्मिनन्ति केपिनहिंसन्ति ॥ ७ ॥

2.38.8
या॒द्रा॒ध्यं१॒᳚ वरु᳚णो॒ योनि॒मप्य॒मनि᳚शितं नि॒मिषि॒ जर्भु᳚राणः ।
विश्वो᳚ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा᳚त्स्थ॒शो जन्मा᳚नि सवि॒ता व्याकः᳚ ॥
▶ पदपाठः (Word-by-word)
या॒त्॑रा॒ध्य᳚म् । वरु᳚णः । योनि᳚म् । अप्य᳚म् । अनि᳚॑शितम् । नि॒॑मिषि᳚ । जर्भु᳚राणः ।
विश्वः᳚ । मा॒र्ता॒ण्डः । व्र॒जम् । आ । प॒शुः । गा॒त् । स्थ॒॑शः । जन्मा᳚नि । स॒वि॒ता । वि । आ । अ॒क॒रित्य᳚कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वरुणः याद्राध्यं यातां गच्छतां राध्यंराधनीयं अप्यंआप्तुंयोग्यं अनिशितं अतीक्ष्णं सुखकर मितियावत् योनिंस्थानंनिमिषि निमेषे सवितुरस्तमयेसति विश्रमार्थंप्राणिभ्यः प्रयच्छति वरुण स्यरात्रेर्निर्वाहकत्वात् जर्भुराणोभृशंगच्छन् विश्वः सर्वोमार्ताण्डोम्रुतात् भिन्नादण्डादुत्पद्यमानः पक्षी आगात् आगच्छति विश्वःपशुरपि व्रजं गोष्ठमागात् सविताप्रेरकः स्थाशः स्थानेस्थानेज न्मानिजातानिभूतानिव्याकः पृथगकार्षीत् ॥ ८ ॥

2.38.9
न यस्येन्द्रो॒ वरु᳚णो॒ न मि॒त्रो व्र॒तम᳚र्य॒मा न मि॒नन्ति᳚ रु॒द्रः ।
नारा᳚तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स᳚वि॒तारं॒ नमो᳚भिः ॥
▶ पदपाठः (Word-by-word)
न । यस्य᳚ । इन्द्रः᳚ । वरु᳚णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति᳚ । रु॒द्रः ।
न । अरा᳚तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार᳚म् । नमः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यसवितुर्देवस्य व्रतं प्रसवाख्यं कर्मइन्द्रोनमिनातिनहिनस्ति वरुणश्चनमिनाति मित्रश्चार्य माचनमिनाति रुद्रश्चनमिनाति अरातयोऽसुराश्चनमिनन्ति मिनन्तीतिश्रुतमाख्यातंयथायोगंविपरि णामेनप्रत्येकमभिसंबध्यते तंसवितारंसर्वस्यप्रेरकंदेवंद्योतमानंइदमिदानींनमोभिरन्नरूपैर्हविर्भिःसह नमः आयुरित्यन्ननामसुपाठात् स्वस्तिक्षेमायहुवेस्तौमि ॥ ९ ॥

2.38.10 समानपद
भगं॒ धियं᳚ वा॒जय᳚न्त॒ः पुरं᳚धिं॒ नरा॒शंसो॒ ग्नास्पति᳚र्नो अव्याः ।
आ॒ये वा॒मस्य᳚ संग॒थे र᳚यी॒णां प्रि॒या दे॒वस्य᳚ सवि॒तुः स्या᳚म ॥
▶ पदपाठः (Word-by-word)
भग᳚म् । धिय᳚म् । वा॒जय᳚न्तः । पुर᳚म्॑धिम् । नरा॒शंसः᳚ । ग्नाःपतिः᳚ । नः॒ । अ॒व्याः॒ ।
आ॒॑अ॒ये । वा॒मस्य᳚ । स॒म्॑ग॒थे । र॒यी॒णाम् । प्रि॒याः । दे॒वस्य᳚ । स॒वि॒तुः । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भगंभजनीयंधियंध्यातव्यं पुरंधिंपुरस्यधारयितारं बहुप्रज्ञंवासवितारं पुरंधिर्बहुधीरितियास्कः । वाजयन्तः वाजिनंबलिनंकुर्वन्तः विभक्तिव्यत्ययः नः स्तुवतोस्मान् नराशंसः नरैः शंसनीयः ग्नाः पतिः देवपत्नीनांपतिः छन्दसांपतिर्वा तथाचश्रूयते—छन्दांसिवैग्नाइति उतग्नाव्यंतुदेवपत्नीरितिच । सविताश्रव्याः अव्यात् किंच वामस्यधनस्यरयीणांपशूनांच तथाचश्रूयते—पशवोवैरयिरिति । आयेआगमनेमङ्गथेसंगमनेचनिमित्ते देवस्य द्योतमानस्यसवितुःप्रेरकस्य वयंप्रियाःस्याम भवेम ॥ १० ॥

2.38.11
अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ᳚थि॒व्यास्त्वया᳚ द॒त्तं काम्यं॒ राध॒ आ गा᳚त् ।
शं यत्स्तो॒तृभ्य᳚ आ॒पये॒ भवा᳚त्युरु॒शंसा᳚य सवितर्जरि॒त्रे ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । तत् । दि॒वः । अ॒त्॑भ्यः । पृ॒थि॒व्याः । त्वया᳚ । द॒त्तम् । काम्य᳚म् । राधः᳚ । आ । गा॒त् ।
शम् । यत् । स्तो॒तृ॑भ्यः᳚ । आ॒पये᳚ । भवा᳚ति । उ॒रु॒॑शंसा᳚य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसवितः अस्मभ्यंत्वयादत्तंतत्प्रसिद्धंकाम्यं कमनीयंराधोधनंदिवः द्युलोकात् अद्भ्योन्तरिक्ष लोकात् पृथिव्याभूमेश्चआगादागच्छतु किंच स्तोस्तृभ्यःस्तोतॄणामापयेबन्धवे तद्वंशजाय यद्धनं शं सुखकरंभवातिभवेत् उरुशंसायबहुस्तुतयेजरित्रेस्तोत्रेमह्यं जरिताकारुरितिस्तोतृनामसुपाठात् हेसवितः तत्प्रयच्छ ॥ ११ ॥

ग्रावाणेवेत्यष्टर्चंसप्तमंसूक्तंगार्त्समदंत्रैष्टुभमाश्विनं ग्रावणेवाष्टावाश्विनमित्यनुक्रान्तत्वात् प्रवर्ग्ये भिष्टवेपूर्वेपटलेस्यविनियोगः सूत्रितंच—ग्रावाणेवेळेद्यावापृथिवीइति प्रातरनुवाकाश्विनशस्त्रयोर पीदंसूक्तं सूत्रितंच—ग्रावाणेवनासत्याभ्यामितित्रीणीति ।