श्रवणम्

2.38.5
नानौकां᳚सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति᳚ष्ठते प्रभ॒वः शोको᳚ अ॒ग्नेः ।
ज्येष्ठं᳚ मा॒ता सू॒नवे᳚ भा॒गमाधा॒दन्व᳚स्य॒ केत᳚मिषि॒तं स᳚वि॒त्रा ॥
▶ पदपाठः (Word-by-word)
नाना᳚ । ओकां᳚सि । दुर्यः᳚ । विश्व᳚म् । आयुः᳚ । वि । ति॒ष्ठ॒ते॒ । प्र॒॑भ॒वः । शोकः᳚ । अ॒ग्नेः ।
ज्येष्ठ᳚म् । मा॒ता । सू॒नवे᳚ । भा॒गम् । आ । अ॒धा॒त् । अनु᳚ । अ॒स्य॒ । केत᳚म् । इ॒षि॒तम् । स॒वि॒त्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रभवः प्रभूतः अग्नेः शोकः तेजः दुर्यःगृह्यः गृहेभवः नानौकांसियजंमानानां पृथग्भूतान् गृहान् वितिष्ठते अधितिष्ठति विश्वमायुः सर्वमन्नंचाधितिष्ठति आयुः सूनृतेत्यन्ननामसुपाठात् माताउषाः सवित्राअन्विषितंप्रेषितं अस्यकेतं प्रज्ञापकंअग्नेः ज्येष्ठंप्रथमं अग्निहोत्राख्यंभागं सून वेअग्नयेआधात् आदधाति ॥ ५ ॥