चतुर्थं मण्डलम् - सूक्तम् 1

20 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: अष्टिः

सूक्तम् 4.1 - सम्पूर्णम्

1 / 20
ऋक्: 4.1.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (20)
4.1.1
त्वां ह्य᳚ग्ने॒ सद॒मित्स᳚म॒न्यवो᳚ दे॒वासो᳚ दे॒वम᳚र॒तिं न्ये᳚रि॒र इति॒ क्रत्वा᳚ न्येरि॒रे ।
अम᳚र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे᳚वं जनत॒ प्रचे᳚तसं॒ विश्व॒मादे᳚वं जनत॒ प्रचे᳚तसम् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । हि । अ॒ग्ने॒ । सद᳚म् । इत् । स॒॑म॒न्यवः᳚ । दे॒वासः᳚ । दे॒वम् । अ॒र॒तिम् । नि॒॑ए॒रि॒रे । इति᳚ । क्रत्वा᳚ । नि॒॑ए॒रि॒रे ।
अम᳚र्त्यम् । य॒ज॒त॒ । मर्त्ये᳚षु । आ । दे॒वम् । आ॑दे᳚वम् । ज॒न॒त॒ । प्र॑चे᳚तसम् । विश्व᳚म् । आ॑दे᳚वम् । ज॒न॒त॒ । प्र॑चे᳚तसम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वामदेव्ये चतुर्थे मण्दले पञ्चानुवाकाः । तत्र प्रथमेऽनुवाके दशसूक्तानि । तेषु त्वां ह्यग्ने सदमिदिति विंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका । त्वां ह्यग्ने विंशतिरष्ट्यतिजगतीधृतय आद्या उपाद्याश्चतस्रो वारुण्यश्च वेति । मण्दलद्रष्टा वामदेवऋषिः । प्रथमा चतुःष्ट्यक्षराष्तिर्द्वितीयाद्विपञ्चाशदक्षराजगती तृतीया द्विसप्तत्यक्षारा धृतिश्चतुर्थ्याद्या अनादेशपरिभाषया सप्तदश त्रिष्टुभः । कृत्स्नस्य सूक्तस्य मण्दलादिष्वाग्नेयमिति परिभाषयाग्निर्देवता द्वितीयाद्याश्चतस्रो वरुणदेवत्या वा । सूक्तविनियोगो लैंगिकः । आद्याध्यायो पाकरणे मण्दलादिहोमे विनियुक्ता ॥

वामदेवः स्तौति । हे अग्ने समन्यवः । मन्युः स्पर्धा । तया सह वर्तमानाः । स्वसमानैः स्पर्धमाना इत्यर्थः । देवासो देवनशीला इन्द्रादयो देवा देवं द्योतमानारतिं शीघ्रं गन्तारं त्वां सदमित्सदैवन्येरिरे हि । स्पर्धानिमित्ते युद्धे प्रेरयन्ति खलु । इति शब्दो हेत्वर्थः । य्समाद्देवास्त्वां युद्धार्थं नितरां प्रेरयन्ति तस्माद्यजमानाः क्रत्वा स्तुतिलक्षेन कर्माणा न्येरिरे । यज्ञकर्मणि देवान्हविः प्रापयितुं देवानाह्वातुं च त्वां नितरां प्रेरयन्ति खलु । यजत यजनीय हे अग्ने अमर्त्यं मरनधरम्रहितमा सर्वतो देवं द्योतमानं प्रचेतसम् । प्रकृष्टं कर्मविषयं चेतो ज्ञानं यस्य तादृशं त्वां मर्त्येषु यागं कुर्वाणेषु मनुष्येष्वादेवमागन्तारं जनत । देवा हविः श्रपणार्थमजनयन् । तथा प्रचेतसं कर्माभिज्ञमादेवं तत्तद्यज्ञेष्वागन्तारं त्वां विश्वं जनत । युगपन्नानादेशवर्तिषु यज्ञेषु यौगाद्येन हविरानयनार्थं व्याप्तं देवा अकुर्वन् । न्येरिरे । ईर गतौ । लिटि मन्त्रत्वादाम्न भवति । सहेति योगविभागत्समासः । हियोगादनिघातः । क्रत्वा । जसादिषु छन्दसि वावचनमिति नादेशाभवः । यणादेशः ॥ १ ॥

4.1.2
स भ्रात᳚रं॒ वरु᳚णमग्न॒ आ व᳚वृत्स्व दे॒वा{4} अच्छा᳚ सुम॒ती य॒ज्ञव᳚नसं॒ ज्येष्ठं᳚ य॒ज्ञव᳚नसम् ।
ऋ॒तावा᳚नमादि॒त्यं च᳚र्षणी॒धृतं॒ राजा᳚नं चर्षणी॒धृत᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । भ्रात᳚रम् । वरु᳚णम् । अ॒ग्ने॒ । आ । व॒वृ॒त्स्व॒ । दे॒वान् । अच्छ᳚ । सु॒॑म॒ती । य॒ज्ञ॑व᳚नसम् । ज्येष्ठ᳚म् । य॒ज्ञ॑व᳚नसम् ।
ऋ॒त॑वा᳚नम् । आ॒दि॒त्यम् । च॒र्ष॒णि॒॑धृत᳚म् । राजा᳚नम् । च॒र्ष॒णि॒॑धृत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स तादृशस्त्वं भ्रातरमेकस्थानवासेन भ्रातरं वरुनम् । वृणोत्युदकमिति वरुणः । तं देवं यज्ञवसनं यज्ञैर्वननीयैर्हविर्भिः सम्भजनीयं यज्ञवसनं च यज्ञस्य सम्भक्तारं ज्येष्ठमतिशयेन प्रशस्यमृय्तावानमपां स्वामितयोदकवन्तं सत्यवन्तं वा आदित्यमदितेः पुत्रं चर्षणीधृतं मनुष्याणामुदकप्रदानेन दारकं सुमती शोभनबुद्ध्या हेतुना चर्षणीधृतं चर्षणिभिर्विद्वद्भिर्धृतं राजानं राजन्तं एतादृशं वरुणं देवं देवान् देवनशीलान् स्तोतॄनच्छाभ्या ववृत्स्व । आवर्तय । अभिमुखीकुरु । ववृत्स्व । वृतु वर्तने । लोटि बहुलं छन्दसीति विकरणस्य श्लुः । निघातः । सुमती । मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घः । एकादेशस्वरः । ज्येष्ठम् । प्रशस्यस्येष्ठनि ज्य चेति ज्यादेशः । नित्त्वादाद्युदात्तः । एकादेशस्वरः । यज्ञवसनम् । वन षण सम्भक्तौ । कर्मकर्तरि चासुन्प्रत्ययः । गतिकारकयोरपि पूर्वपदप्रकृति स्वरत्वं चेति पूर्वपदस्वरः ॥ २ ॥

4.1.3
सखे॒ सखा᳚यम॒भ्या व᳚वृत्स्वा॒शुं न च॒क्रं रथ्ये᳚व॒ रंह्या॒स्मभ्यं᳚ दस्म॒ रंह्या᳚ ।
अग्ने᳚ मृळी॒कं वरु᳚णे॒ सचा᳚ विदो म॒रुत्सु᳚ वि॒श्वभा᳚नुषु ।
तो॒काय᳚ तु॒जे शु᳚शुचान॒ शं कृ᳚ध्य॒स्मभ्यं᳚ दस्म॒ शं कृ᳚धि ॥
▶ पदपाठः (Word-by-word)
सखे᳚ । सखा᳚यम् । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒शुम् । न । च॒क्रम् । रथ्या᳚॑इव । रंह्या᳚ । अ॒स्मभ्य᳚म् । द॒स्म॒ । रंह्या᳚ ।
अग्ने᳚ । मृ॒ळी॒कम् । वरु᳚णे । सचा᳚ । वि॒दः॒ । म॒रुत्॑सु᳚ । वि॒श्व॑भा᳚नुषु ।
तो॒काय᳚ । तु॒जे । शु॒शु॒चा॒न॒ । शम् । कृ॒धि॒ । अ॒स्मभ्य᳚म् । द॒स्म॒ । शम् । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवर्ग्येऽभिष्टव उत्तरस्मिन्पटले सखे सखायमित्येषा । सूत्रितं च । सखे सखायमभ्या ववृत्स्वोर्ध्व ऊ षु ण ऊतये । आ. ४-७ । इति ॥

सखे सखिभूत दस्म दर्शनीय हे अग्ने त्वं तव सखायं वरुणमस्मभ्यमस्मदर्थमा ववृत्स्व । अभिमुखीकुरु । तत्र दृष्टान्तः । रंह्या रंहणे गमने साधुभूतौ रथ्येव रथे योजितावश्वौ यथांशु शीघ्रगंतृ चक्रं लक्ष्यदेशं प्रत्यभिमुखीकुरुतस्तद्वत् । हे अग्ने सचा तव सहाये वरुणे मृळीकं सुखकरं हविर्विदः । लब्धवानसि । तथा विश्वभानुषु सर्वतो व्याप्ततेजस्केषु मरुत्सु सुखकरं लब्धवानसि । अग्निवारुणाग्निमारुतयोः कर्मणोरिष्टवानसीत्यर्थः । शुशुचान दीप्यमान हे अग्ने तोकाय । तुज्यते पीड्यतेऽनेन माता गर्भवासेनेति तोकं पुत्रः । तस्मै तुजे । गच्छत्यनेनानृण्यं पितेति तुक् पौत्रः । तस्मैशं सुखं कृधि । कुरु । दस्मदर्शनीय हे अग्ने असभ्यं शं कृधि । सुखं कुरु । रथ्येव । रथस्येमावित्यर्थे रथाद्यदिति यत् । सुपां सुलुगिति सुपो डादेशः । रंह्या । रंहशब्दात्तत्र साधुरिति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वं ॥ ३ ॥

4.1.4
त्वं नो᳚ अग्ने॒ वरु᳚णस्य वि॒द्वान्दे॒वस्य॒ हेळो॑व᳚ यासिसीष्ठाः ।
यजि᳚ष्ठो॒ वह्नि᳚तम॒ः शोशु᳚चानो॒ विश्वा॒ द्वेषां᳚सि॒ प्र मु᳚मुग्ध्य॒स्मत् ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒ग्ने॒ । वरु᳚णस्य । वि॒द्वान् । दे॒वस्य᳚ । हेळः᳚ । अव᳚ । या॒सि॒सी॒ष्ठाः॒ ।
यजि᳚ष्ठः । वह्नि᳚॑तमः । शोशु᳚चानः । विश्वा᳚ । द्वेषां᳚सि । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वन्नो अग्ने इत्येतदारभ्येदं सूक्तमुत्तराणि सूक्तानि च प्रातरनुवाक अग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे च विनियुक्तानि । सूत्रितं च । त्वं नो अग्ने वरुणस्य विद्वानित्येतत्प्रभृतीनि चत्वारि । आ. ४-१३ । इति । अवभृथेष्ट्यां स्विष्टकृदर्थेऽग्नीवरुणौ यष्टव्यौ । तत्र त्वं नो अग्न इति द्वे याज्यानुवाक्ये । सूत्रितं च । अग्नीवरुणौ स्विष्टकृदर्थे त्वन्नो अग्ने वरुणस्य विद्वानिति द्वे । आ. ६-१३ । इति । अस्नातो यद्यग्निहोत्रं जुहुतात्तदाग्निवारुणीष्टिः । तस्यामेते एव याज्यानुवाक्ये । तदाहुर्य आहिताग्निरित्युपक्रम्याम्नातम् । तस्य याज्यानुवाक्ये त्वं नो अग्ने वरुणस्य विद्वान्त्स त्वं नो अग्नेऽवमो भवोती । ऐ. ब्रा. ७-९ । इति ॥

हे अग्ने विद्वान् सर्वपुरुषार्थसाधनोपायज्ञस्त्वं देवस्य द्योतमानस्य वरुणस्य हेळः क्रोधान् नोऽस्मत्सम्बन्धिनो वरुणकर्तृकान्पाशग्रहणानव यासिसीष्ठाः । अपनय । किञ्च यजिष्ठो यष्टृतमो वह्नितमो हविषामतिशयेन वोढा शोशुचानोऽतिशयेन दीप्यमानस्त्वं विश्वा सर्वाणि द्वेषांसि पापानि द्वेष्टॄणि रजांसि वा अस्मदस्मत्तः प्र मुमुग्धि । प्रकर्षेण मोचय । हेळः । हेडृ अनादरे । क्विप् । शसि रूपम् । शसः सुस्त्वादनुदात्तत्वे धातुस्वरः । यासिसीष्ठाः । यसेर्ण्यन्तादाशीर्लिङ् । थासि सीयुडागमः । छन्दस्युभयथेति लिङः सार्वधातुकत्वाण्णिलोपाभावः । अवपूर्वो यासिर्विनाशे वर्तते । मुमुग्धि । मुञ्चतेर्लोटि रूपम् । बहुलं छन्दसीति शपः श्लुः ॥ ४ ॥

4.1.5
स त्वं नो᳚ अग्ने॑व॒मो भ᳚वो॒ती नेदि᳚ष्ठो अ॒स्या उ॒षसो॒ व्यु᳚ष्टौ ।
अव᳚ यक्ष्व नो॒ वरु᳚णं॒ ररा᳚णो वी॒हि मृ᳚ळी॒कं सु॒हवो᳚ न एधि ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒व॒मः । भ॒व॒ । ऊ॒ती । नेदि᳚ष्ठः । अ॒स्याः । उ॒षसः᳚ । वि॑उ᳚ष्टौ ।
अव᳚ । य॒क्ष्व॒ । नः॒ । वरु᳚णम् । ररा᳚णः । वी॒हि । मृ॒ळी॒कम् । सु॒॑हवः᳚ । नः॒ । ए॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स तादृशस्त्वमूती ऊत्या रक्षणेन नोऽस्माकमवमोऽर्वाचीनः प्रत्यासन्नः सन् अस्या उषसो व्युष्टौ व्युच्छने प्रातः कालेऽग्निहोत्रादिकर्मसिद्ध्यर्थं नेदिष्ठो भव । अतिशयेनस्मदन्तिकस्थो भव । यद्वा । ऊत्या गमनेनास्माकमवमो रक्षको भव । किञ्च नोऽस्माकं वरुणं वरुणकृतं जलोदरादिरोगं आवारकं पापं वा अव यक्ष्व । अवयज । विनाशयेत्यर्थः । रराणोस्मदत्ते हविषि रममाणः । यद्वा । यजमानेभ्योऽत्यन्तमीप्सितफलप्रदस्त्वं मृळिकं सुखकरमिदं हविर्वीहि । भक्षय । किञ्च नोऽस्माकं सुहवः शोभनाह्वानोपेत एधि । भव । नेदिष्ठः । अन्तिकशब्दादिष्ठन्यन्तिकवाढयोर्नेदसाधाविति नेद इत्यादेशः । नित्त्वादाद्युदात्तः । रराणः । रमतेः कानचि मकारलोपश्छान्दसः । यद्वा । रातेर्यङ् लुकि व्यत्ययेन कानच् । अभ्यस्तानामादिः । एधि । अस्तेर्लोटि ध्वसोरेद्धावभ्यासलोपश्चेति ए इत्यादेशः । तस्यासिद्धत्वाद्धुझल्भ्यो हेर्धिः । निघातः ॥ ५ ॥

4.1.6
अ॒स्य श्रेष्ठा᳚ सु॒भग᳚स्य सं॒दृग्दे॒वस्य᳚ चि॒त्रत᳚मा॒ मर्त्ये᳚षु ।
शुचि᳚ घृ॒तं न त॒प्तमघ्न्या᳚याः स्पा॒र्हा दे॒वस्य᳚ मं॒हने᳚व धे॒नोः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । श्रेष्ठा᳚ । सु॒॑भग᳚स्य । स॒म्॑दृक् । दे॒वस्य᳚ । चि॒त्र॑त᳚मा । मर्त्ये᳚षु ।
शुचि᳚ । घृ॒तम् । न । त॒प्तम् । अघ्न्या᳚याः । स्पा॒र्हा । दे॒वस्य᳚ । मं॒हना᳚॑इव । धे॒नोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुभगस्य सुधनस्य सुष्ठु भजनीयस्याग्नेर्देवस्य श्रेष्ठतिशयेन प्रशस्या संदृक् संदृष्टिर्मर्त्येषु चित्रतमातिशयेन चायनीया पूजनीया भवति । स्पार्हा सर्वैः स्पृहणीया भवति । तत्र दृष्थान्तः । यथा देवस्य क्षीरं कामयमानस्य पुरुषस्याघ्न्याया गोः शुचि तेजोयुक्तं घृतं क्षरनयुक्तं सप्तं क्षीरं स्पृहणीयं भवति । तत्रैव दृष्टान्तान्तरम् । यथा गां भिक्षमाणस्य मर्त्यस्य धेनोर्दोग्ध्र्या गोर्मंहनेव । मंहतिर्दानकर्मा । दानं यथा प्रियकरं भवति तद्वत्त् । सुभगस्य आद्युदात्तं द्व्यच्छन्दसीत्युत्तरपदाद्युदात्तत्वम् । स्पार्हा । कर्षात्वतो घञोऽन्त उदात्तः । देवस्य । दीव्यतीति देवः । दीव्यतेः कान्त्यर्थस्य पचाद्यचि रूपं ॥ ६ ॥

4.1.7
त्रिर᳚स्य॒ ता प᳚र॒मा स᳚न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि᳚मान्य॒ग्नेः ।
अ॒न॒न्ते अ॒न्तः परि᳚वीत॒ आगा॒च्छुचि᳚ः शु॒क्रो अ॒र्यो रोरु᳚चानः ॥
▶ पदपाठः (Word-by-word)
त्रिः । अ॒स्य॒ । ता । प॒र॒मा । स॒न्ति॒ । स॒त्या । स्पा॒र्हा । दे॒वस्य᳚ । जनि᳚मानि । अ॒ग्नेः ।
अ॒न॒न्ते । अ॒न्तरिति᳚ । परि᳚॑वीतः । आ । अ॒गा॒त् । शुचिः᳚ । शु॒क्रः । अ॒र्यः । रोरु᳚चानः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नेरग्न्यभिमानिनोऽस्य देवस्य त्रिस्त्रीण्यग्निवाहुसूर्यात्मना त्रीणि ता तानि प्रसिद्धानि परमोत्तमानि सत्या यथार्थभूतानि जनिमानि जन्मानि स्पार्हा सर्वैः स्पृहणीयानि सन्ति । यद्वा । अग्नेरेव त्रीणि जन्मानि दिवस्परि प्रथमं जज्ञे अग्निः । ऋग्वे. १०-४५-१ । इति । त्रीणि जाना परिभूषन्त्यस्य । ऋग्वे. १-९५-३ । इत्येवमादिषु मन्त्रेषु प्रसिद्धानि । अनन्तेऽपर्यन्ते नभस्यन्तर्मध्ये स्वतेजसा परिवीतः परिवेष्टितः शुचिः सर्वस्य शोधकः शुक्रो दीप्तियुक्तोऽत एव रोरुचानो भृशं दीप्यमानोऽर्यः स्वामी तादृशो देव आगात् । अस्मदीयं यज्ञं प्रत्यागच्छतु । सत्या । शेश्छन्दसि बहुलमिति शेर्लुक् । परिवीतः । व्येञ् संवरणे । कर्मणि क्तः । यजादित्वात्संप्रसारनम् । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । अर्यः । ऋ गतौ । अर्यः स्वामिवैश्ययोरिति यत्प्रत्ययान्तो निपातितः । स्वमिन्यन्तोदात्तत्वं व्यक्तव्यमित्यन्तोदात्तत्वं ॥ ७ ॥

4.1.8
स दू॒तो विश्वेद॒भि व᳚ष्टि॒ सद्मा॒ होता॒ हिर᳚ण्यरथो॒ रंसु᳚जिह्वः ।
रो॒हिद᳚श्वो वपु॒ष्यो᳚ वि॒भावा॒ सदा᳚ र॒ण्वः पि᳚तु॒मती᳚व सं॒सत् ॥
▶ पदपाठः (Word-by-word)
सः । दू॒तः । विश्वा᳚ । इत् । अ॒भि । व॒ष्टि॒ । सद्म᳚ । होता᳚ । हिर᳚ण्य॑रथः । रम्॑सु᳚जिह्वः ।
रो॒हित्॑अ᳚श्वः । व॒पु॒ष्यः᳚ । वि॒भा॑वा᳚ । सदा᳚ । र॒ण्वः । पि॒तु॒मती᳚॑इव । स॒म्॑सत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां दूतो होता देवानामाह्वाता हिरण्यरथः सुवर्नमयरथोपेतो रंसुजिह्वो रमणीयशोभनज्वालोपेतः स तादृशोऽग्निर्विश्वेत् सर्वाण्वेव सद्म देवयजनस्थानन्यभि वष्टि । कामयते । पुनश्च कीदृशः । रोहिदश्वः । रोहितवर्णा आश्वा यस्य स तथोक्तः । वपुष्यो वपुषि रूपे साधुर्विभावा कान्तियुक्तोऽत एव सदा रण्वो रमणीयो भवति । तत्र दृष्टान्तः । पितुमतीव संसत् । यथान्नादिवत्समृद्धं गृहं रमणीयं तद्वत् । रंसु जिह्वः । रमतेरन्येभ्योऽपि दृश्यन्त इति विच् । बहुव्रीहौ पूर्वपदस्वरः । वपुष्यः । तत्र साधुरिति यत् । तित्स्वरितः । विभावा । छन्दसीवनिपाविति वनिप् ॥ ८ ॥

4.1.9 समानपद
स चे᳚तय॒न्मनु᳚षो य॒ज्ञब᳚न्धु॒ः प्र तं म॒ह्या र᳚श॒नया᳚ नयन्ति ।
स क्षे᳚त्यस्य॒ दुर्या᳚सु॒ साध᳚न्दे॒वो मर्त᳚स्य सधनि॒त्वमा᳚प ॥
▶ पदपाठः (Word-by-word)
सः । चे॒त॒य॒त् । मनु᳚षः । य॒ज्ञ॑ब᳚न्धुः । प्र । तम् । म॒ह्या । र॒श॒नया᳚ । न॒य॒न्ति॒ ।
सः । क्षे॒ति॒ । अ॒स्य॒ । दुर्या᳚सु । साध᳚न् । दे॒वः । मर्त᳚स्य । स॒ध॒नि॒॑त्वम् । आ॒प॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञबन्धुः । यज्ञेऽग्निहोत्रादौ बन्धनं विनियोचनं यस्य स तथोक्तः । सोऽग्निर्मनुषः कर्मणि प्रवृत्तान्मनुष्यान् चेतयत् । जानाति । मह्या महत्या रशनया स्तुतिरूपया रज्ज्वा युक्तं तं तादृशमग्निं प्रनयन्ति । उत्तरवेद्यादिश्वध्वर्व्यादयः प्रक्षिपन्ति । मर्तस्य मनुष्यास्यास्य यजमानस्य दुर्यासु गृहेषु साधन् अभीश्टानि साधयन् सोऽग्निः क्षेति । वसति । स देवो द्योतमानोऽग्निः सधनित्वं यस्य गृहे निवसति तेन धनिना साहित्यमाप । प्राप्नोति । प्रभूतं धनं यजमानाय दापयित्वा तेन सहितोऽभवदित्यर्थः । राध साध संसिद्धौ ण्यन्तस्य शतरि रूपं ॥ ९ ॥

4.1.10
स तू नो᳚ अ॒ग्निर्न᳚यतु प्रजा॒नन्नच्छा॒ रत्नं᳚ दे॒वभ᳚क्तं॒ यद᳚स्य ।
धि॒या यद्विश्वे᳚ अ॒मृता॒ अकृ᳚ण्व॒न्द्यौष्पि॒ता ज᳚नि॒ता स॒त्यमु᳚क्षन् ॥
▶ पदपाठः (Word-by-word)
सः । तु । नः॒ । अ॒ग्निः । न॒य॒तु॒ । प्र॒॑जा॒नन् । अच्छ᳚ । रत्न᳚म् । दे॒व॑भ᳚क्तम् । यत् । अ॒स्य॒ ।
धि॒या । यत् । विश्वे᳚ । अ॒मृताः᳚ । अकृ᳚ण्वन् । द्यौः । पि॒ता । ज॒नि॒ता । स॒त्यम् । उ॒क्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रजानन् सर्वं जानानः सोऽग्निर्देवभक्तं देवैर्देवनशीलैः स्तोतृभिः सम्भजनीयमस्याग्नेः सम्बन्धि यदुत्तमं रत्नं धनमस्ति तद्रत्नमच्छाभिमुख्येन तु क्शिप्रं नोऽस्मान्नयतु । प्रापयतु । अमृता मरण धर्मरहिता विश्वे सर्वे देवा धिया हविर्वहनलक्षनेन कर्मणा हेतुना यद्यमग्निमकृण्वन् हविषां प्रापयितरमकुर्वन् । यस्य चाग्नेर्द्यौः पिता पालयत्री जनिता जनयित्री च । अग्ने दिवः सूनुरसि प्रचेताः । ऋग्वे. ३-२५-१ । इति श्रवणात् । यद्वा । द्यौर्देवनशील आदित्यः पिता जनयिता च आदित्यादग्निरित्याम्नानात् । सत्यं यथार्थभूतं तमग्निमुक्शन् । घृताद्याहुतिभिरध्वर्व्यादयः सञ्चन्ति । देवभक्तम् । भज सेवायाम् । कर्मणि क्तः । त्रुतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । उक्शन् । उक्ष सेचने । लङि रूपम् । बहुलं छन्दसीत्यडभावः ॥ १० ॥

4.1.11
स जा᳚यत प्रथ॒मः प॒स्त्या᳚सु म॒हो बु॒ध्ने रज᳚सो अ॒स्य योनौ᳚ ।
अ॒पाद᳚शी॒र्षा गु॒हमा᳚नो॒ अन्ता॒योयु᳚वानो वृष॒भस्य᳚ नी॒ळे ॥
▶ पदपाठः (Word-by-word)
सः । जा॒य॒त॒ । प्र॒थ॒मः । प॒स्त्या᳚सु । म॒हः । बु॒ध्ने । रज᳚सः । अ॒स्य । योनौ᳚ ।
अ॒पात् । अ॒शी॒र्षा । गु॒हमा᳚नः । अन्ता᳚ । आ॒॑योयु᳚वानः । वृ॒ष॒भस्य᳚ । नी॒ळे ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निः प्रथम आहवनीयादिरूपतया श्रेष्ठः सन् पस्त्यासु यजमानानां गृहेषु जायत । आहुत्यधिकरणतया संपत्यते । तथा महो महतोऽस्य रजसोऽन्तरिक्षस्य बुध्ने मूले पृथिव्यां तत्रापि योनावुत्तरवेद्यादिस्थाने सम्पद्यते । सोऽग्निरपात्पादवर्जितोऽशीर्षा शिरोवर्जितः । तदेवाह । अन्ताद्यन्ते पादशिरसी गुहमानो गूहमानः । अविज्ञेयपादशिरा इत्यर्थः । वृषभस्य वर्षनसमर्थ्यस्य मेघस्य नीळे निलये नभस्यायोयुवानो धूमाकारेणात्मानमायोजयन्वर्तते यद्वा । यः प्रथमो वैद्युतोऽग्निः पस्त्यादिषु नदीषु बध्नेऽन्तरिक्षे महो महतो रजस उदकस्य तेजसो वा योनौ स्थाने च चरति । अपादशीर्षा पादशिरोवर्जितोऽन्तात्मनः पर्यन्तप्रदेशान् स्वतेजसा गुहमान आच्छादयन् पुनश्चायोयुवानस्तानि तेजांसि स्वात्मनि मिश्रीकुर्वन्वृषभस्य मेघस्य नीळे स्थाने नभसि चरति सोऽग्निरधुना कर्मयोग्यतयाजायत । अपात् । पादस्य लोपोऽहस्त्यादिभ्यः इत्यकारलोपः समासान्तः । गुहमानः । गुहू सम्वरणे । शविकरणी । शानच रूपम् । शानचो लसार्वधातुकस्वरे कृते प्रत्ययस्वरः । आयोयुवानः । यु मिश्रणे । यङ् लुकि शानचि रूपम् । अभ्यस्तस्वरेणाद्युदात्तः ॥ ११ ॥

4.1.12
प्र शर्ध᳚ आर्त प्रथ॒मं वि᳚प॒न्या{4} ऋ॒तस्य॒ योना᳚ वृष॒भस्य᳚ नी॒ळे ।
स्पा॒र्हो युवा᳚ वपु॒ष्यो᳚ वि॒भावा᳚ स॒प्त प्रि॒यासो᳚॑जनयन्त॒ वृष्णे᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । शर्धः᳚ । आ॒र्त॒ । प्र॒थ॒मम् । वि॒प॒न्या । ऋ॒तस्य᳚ । योना᳚ । वृ॒ष॒भस्य᳚ । नी॒ळे ।
स्पा॒र्हः । युवा᳚ । व॒पु॒ष्यः᳚ । वि॒भा॑वा᳚ । स॒प्त । प्रि॒यासः᳚ । अ॒ज॒न॒य॒न्त॒ । वृष्णे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विपन्या स्तुत्या युक्तमृतस्योदकस्य योनौ स्थाने वृषभस्य वर्षण समर्थस्य मेघस्य नीळे कुलायभूतेऽन्तरिक्षे वैद्युताग्निरूपेण वर्तमानं त्वां शर्धस्तेजः प्रथमं प्रार्त । प्रकर्षेण गच्छति । यश्चाग्निः स्वार्हः सर्वैः स्पृहणीयो युवा नित्यररुणो वपुष्यः कमनीयो विभावा दीप्तिमान् तस्मै वृष्णेऽभिमतफलवर्षकायाग्नये प्रियासः प्रियाः सप्त होत्रका अजनयन्त । स्तोत्रमकुर्वन् । आर्त । ऋ गतौ । लङि व्यत्ययेनात्मने पदम् । निघातः । विपन्या । पन चेत्यस्येन्प्रत्ययः । कृदिकारादक्तिन इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । उदात्तायणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । विपन्य ऋतस्येत्यत्र संहितायामिकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । पा. ६-१-१२७ । इत्यनिकोऽपि ह्रस्वोऽनुनासिकश्च ॥ १२ ॥

4.1.13 समानपद
अ॒स्माक॒मत्र᳚ पि॒तरो᳚ मनु॒ष्या᳚ अ॒भि प्र से᳚दुरृ॒तमा᳚शुषा॒णाः ।
अश्म᳚व्रजाः सु॒दुघा᳚ व॒व्रे अ॒न्तरुदु॒स्रा आ᳚जन्नु॒षसो᳚ हुवा॒नाः ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । अत्र᳚ । पि॒तरः᳚ । म॒नु॒ष्याः᳚ । अ॒भि । प्र । से॒दुः॒ । ऋ॒तम् । आ॒शु॒षा॒णाः ।
अश्म᳚॑व्रजाः । सु॒॑दुघाः᳚ । व॒व्रे । अ॒न्तः । उत् । उ॒स्राः । आ॒ज॒न् । उ॒षसः᳚ । हु॒वा॒नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र लोके पूर्वे मनुष्या अस्माकं पितरोऽङ्गिरस ऋतं यज्ञमाशुषाणा अश्नुवानाः सन्तोऽभिप्रसेदुः । अग्निमभिलक्ष्य प्रजग्मुः । तेऽङ्गिरसोऽग्निपरिचर्या बलादश्मव्रजाः पर्वतैः परिवृता वव्रे । वृणोत्याच्छादयतीति वव्रं पर्वतविलान्तर्वर्ति तमः । तस्मिनन्तर्मध्ये स्थिताः सुदुघाः सुष्ठु दोग्ध्री रुस्राः पणिभि रपहृता गा उदाजन् । तस्माद्विलान्निरगमयन् । किं कुर्वन्तः । तमसो विध्वंसनीरुषसो देवीः प्रकाशार्थं हुवाना आह्वयन्तः । वव्रे । वृणोतेरौणादिकः कः । कृञादीनां द्वे भवत इति द्विर्वचनं ॥ १३ ॥

4.1.14
ते म᳚र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे᳚षाम॒न्ये अ॒भितो॒ वि वो᳚चन् ।
प॒श्वय᳚न्त्रासो अ॒भि का॒रम᳚र्चन्वि॒दन्त॒ ज्योति᳚श्चकृ॒पन्त᳚ धी॒भिः ॥
▶ पदपाठः (Word-by-word)
ते । म॒र्मृ॒ज॒त॒ । द॒दृ॒॑वांसः᳚ । अद्रि᳚म् । तत् । ए॒षा॒म् । अ॒न्ये । अ॒भितः᳚ । वि । वो॒च॒न् ।
प॒श्व॑य᳚न्त्रासः । अ॒भि । का॒रम् । अ॒र्च॒न् । वि॒दन्त᳚ । ज्योतिः᳚ । च॒कृ॒पन्त᳚ । धी॒भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेऽङ्गिरसोऽन्द्रिं पणिभिरपहृतानां गवां निरोधकं पर्वतं ददृवांसो विदारयन्तः सन्तो मर्मृजत । अग्निं पर्यचरन् । एषामङ्गिरसां तत्तादृशं कर्मान्ये महर्षयोऽभितः सर्वत्र जगति वि वोचन् । विशेषेणाकथयन् । पश्वयंत्रासः पशुनिर्गमनार्थानि यन्त्राण्युपाया येशां तेङ्गिरसः कारमभिमतस्य प्रयोजनस्य कर्तारमग्निमभ्यर्चन् । आस्तुवन् । ततस्त्मोपहमादित्याख्यं ज्योतिर्विदन्त । अलभन्त । ततो धीभिर्बुद्धिभिश्चकृपन्त । यज्ञानकल्पयन्नकुर्वन् । मर्मृजत । मृजूश् शुद्धौ । यङ् लुकि लङि व्यत्ययेनात्मने पदम् । निघातः । चकृपन्त । कृपू सामर्थ्ये । ण्यन्तस्य लुङि चङि सन्वद्भावाभावश्छान्दसः ॥ १४ ॥

4.1.15
ते ग᳚व्य॒ता मन᳚सा दृ॒ध्रमु॒ब्धं गा ये᳚मा॒नं परि॒ षन्त॒मद्रि᳚म् ।
दृ॒ळ्हं नरो॒ वच᳚सा॒ दैव्ये᳚न व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ॥
▶ पदपाठः (Word-by-word)
ते । ग॒व्य॒ता । मन᳚सा । दृ॒ध्रम् । उ॒ब्धम् । गाः । ये॒मा॒नम् । परि᳚ । सन्त᳚म् । अद्रि᳚म् ।
दृ॒ळ्हम् । नरः᳚ । वच᳚सा । दैव्ये᳚न । व्र॒जम् । गो॑म᳚न्तम् । उ॒शिजः᳚ । वि । व॒व्रुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः कर्माणां नेतार उशिजोऽग्निं कामयमानास्तेऽङ्गिरसो गव्यता गा इच्छता मनसा दृध्रं गवां निर्गमनद्वारनिरोधकमुब्धं समुब्धं संहतम् । यद्वा । उभिः पूरणार्थः । गोभिः पूर्नं गा येमानं नियच्छन्तं परि सर्वतः सन्तं वर्तमानं धृळ्हं दृढं गोमन्तं गोभिर्युक्तं व्रजं गवां निवासस्त्य्हानमद्रिं पर्वतं दैव्येनाग्निविषयेण वचसा वेदात्मकेन स्तोत्रेण विवव्रुः । गोनिर्गमनार्थमुद्धाटितवन्तः । उब्धम् । उभ्नातिर्हन्तिना समानार्थः । यद्वा । उभ उन्भ पूरणे । कर्मणि क्तः । येमानम् । यमेः कानच्येत्वाभ्यासलोपौ । चित्त्वादन्तोदात्तः । परि शन्तमित्यत्र सम्हितायामुपसर्गप्रदुर्भ्यामस्तिर्यच् पर इति षत्वं ॥ १५ ॥

4.1.16 समानपद
ते म᳚न्वत प्रथ॒मं नाम᳚ धे॒नोस्त्रिः स॒प्त मा॒तुः प᳚र॒माणि᳚ विन्दन् ।
तज्जा᳚न॒तीर॒भ्य᳚नूषत॒ व्रा आ॒विर्भु᳚वदरु॒णीर्य॒शसा॒ गोः ॥
▶ पदपाठः (Word-by-word)
ते । म॒न्व॒त॒ । प्र॒थ॒मम् । नाम᳚ । धे॒नोः । त्रिः । स॒प्त । मा॒तुः । प॒र॒माणि᳚ । वि॒न्द॒न् ।
तत् । जा॒न॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व्राः । आ॒विः । भु॒व॒त् । अ॒रु॒णीः । य॒शसा᳚ । गोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते स्तोत्रं कुर्वाणा अङ्गिरसो मातुर्जनन्या धेनोर्वाचः सम्बन्धि नाम स्तुति साधकं शब्दमात्रं प्रथमं पूर्वं मन्वत । अजानत । पश्चात्तस्या वाचः सम्बन्धीनि त्रिः सप्तैकविंशतिसंख्यानि स्तुतिसाधनानि छन्दांसि तानि च गातत्र्यादीनि जगत्यन्तानि सप्त । अति जगत्यादीन्यतिधृत्यन्तानि सप्त । कृति प्रभृतीन्युत्कृतिपर्यन्तानि सप्तेति । एवं त्रिः सप्त छन्दांसि परमाण्युत्तमानि विन्दन् । आलभन्त । एवं विधच्छन्दोयुक्तैर्मन्त्रैरग्निमस्तुवन्नित्यर्थः । तत्ततो जानतीः सर्वं जानाना व्राः । व्रा इत्युषोनाम । उशसोऽभ्यनूशत । अस्तुवन् । ततो गोः सूर्यस्य यशसा तेजसा सहारुणीररुणवर्णोषा आविर्भुवत् आविरभूत् । यद्वा । तेङ्गिरसः प्रथमं पुरातनं नाम एहि सुरभि गुग्गुल गन्धिनीति धेनोर्नामधेयं मन्वत उच्चारयामासुः । मातुर्भूम्याः स्वभूतानि पणिभिरपहृतानि त्रिः सप्त रत्नानि विन्दन् । तत उच्चरितं नाम जानन्त्यो गावोऽभ्यनूशत । हंभारवलक्षणं शब्दमकुर्वन् । तदानीमुषाः प्रादुरभूदिति । जानतीः । एकस्मिन्पक्षे वा छन्दसीति पूर्व सवर्णदीर्घः । उभयत्र शतुरनुमो नद्यजादीति ङीप उदातत्वम् । अनूशत । णु स्तुतौ । लुङि रूपम् । कुटादित्वादगुणः । अरुणीः । सोरलोपश्छान्दसो गौरीर्मिमाय । ऋग्वे. १-१६४-४१ ॥ इतिवत् ॥ १६ ॥

4.1.17 समानपद
नेश॒त्तमो॒ दुधि᳚तं॒ रोच᳚त॒ द्यौरुद्दे॒व्या उ॒षसो᳚ भा॒नुर᳚र्त ।
आ सूर्यो᳚ बृह॒तस्ति᳚ष्ठ॒दज्रा{4}᳚ ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न् ॥
▶ पदपाठः (Word-by-word)
नेश᳚त् । तमः᳚ । दुधि᳚तम् । रोच᳚त । द्यौः । उत् । दे॒व्याः । उ॒षसः᳚ । भा॒नुः । अ॒र्त॒ ।
आ । सूर्यः᳚ । बृ॒ह॒तः । ति॒ष्ठ॒त् । अज्रा᳚न् । ऋ॒जु । मर्ते᳚षु । वृ॒जि॒ना । च॒ । पश्य᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमो रात्रिकृतं ध्वान्तं दुधितम् । दुधिः प्रेरणकर्मा । प्रातरग्निविहरणकाल उषसा प्रेरितं सत् नेशत् । अनश्यत । ततो द्यौरन्तरिक्शं रोचत । अदीप्यत । ततो देव्या देवनशीलाया उषसो भानुः प्रभोदर्त । उद्गच्छति । अथ सूर्यो बृहतो महतोऽज्रानजरान्पर्वतान् गमनशीलान्रश्मीन्वा तिष्ठत् । अश्यतिश्ठत् । किं कुर्वन् मर्तेषु मनुष्येषु विद्यमानमृजु सत्कर्म वृजिनानृजून्यसत्कर्माणि च पश्यन् । अध्यतिष्ठदिति शेशः । निशत् । णश अदर्शने । लङि णशिमन्योरलिट्येत्वं वक्तव्यमित्येत्वम् । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । रोचत । रुच दीप्तौ । लङि रूपम् । वाक्यभेदादनिघातः ॥ १७ ॥

4.1.18
आदित्प॒श्चा बु᳚बुधा॒ना व्य᳚ख्य॒न्नादिद्रत्नं᳚ धारयन्त॒ द्युभ᳚क्तम् ।
विश्वे॒ विश्वा᳚सु॒ दुर्या᳚सु दे॒वा मित्र᳚ धि॒ये व᳚रुण स॒त्यम᳚स्तु ॥
▶ पदपाठः (Word-by-word)
आत् । इत् । प॒श्चा । बु॒बु॒धा॒नाः । वि । अ॒ख्य॒न् । आत् । इत् । रत्न᳚म् । धा॒र॒य॒न्त॒ । द्यु॑भ᳚क्तम् ।
विश्वे᳚ । विश्वा᳚सु । दुर्या᳚सु । दे॒वाः । मित्र᳚ । धि॒ये । व॒रु॒ण॒ । स॒त्यम् । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आदित्सूर्योदयादनन्तरं बुबुधानाः पणिभिरपहृता निरोधान्निर्गता गाजानाना अङ्गिरसः पश्चा पृष्थ्यदेशेशु व्यख्यन् । अशेशेण ता ता अपश्यन् । तथादिदनन्तरं द्युभक्तं दीप्तियुक्तं देवैः सम्भक्तं वा रत्नं पणिभिरपहृतं धनं च धारयन्त । अधारयन् । लब्धगोधनानामङ्गिरसां विश्वासु दुर्याअसु सर्वेषु गृहेषु विश्वे यजनीयाः सर्वे देवा आजग्मुः । हे मित्र मित्रभूत हे वरुणोपद्रवाणां वारक हे अग्ने धिये कर्माणां कर्त्रे स्तोत्रे वा यजमानाय सत्यमस्तु । तदेतत्तवोपद्रववारणसामर्थ्यं तद्यथार्थभूतमस्तु । पश्चा । पश्च पश्चा च छन्दसीति निपातितः । बुबुधानाः । बुधेर्लिति कानचि रूपम् । चित्त्वादन्तोदात्तः । द्युभक्तम् । भज सेवायाम् । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः ॥ १८ ॥

4.1.19
अच्छा᳚ वोचेय शुशुचा॒नम॒ग्निं होता᳚रं वि॒श्वभ᳚रसं॒ यजि᳚ष्ठम् ।
शुच्यूधो᳚ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि᳚षिक्तमं॒शोः ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । वो॒चे॒य॒ । शु॒शु॒चा॒नम् । अ॒ग्निम् । होता᳚रम् । वि॒श्व॑भ᳚रसम् । यजि᳚ष्ठम् ।
शुचि᳚ । ऊधः᳚ । अ॒तृ॒ण॒त् । न । गवा᳚म् । अन्धः᳚ । न । पू॒तम् । परि᳚॑सिक्तम् । अं॒शोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने शुशुचानं भृशं दीप्यमानं होतारं देवानामाह्वातारं विश्वभरसमाहुतिद्वारा वृष्तिप्रदानेन विश्वस्य पोषकं यजिश्ठं यष्टृतममग्निं त्वामच्छाभिलक्ष्य वोचेय । स्तवानि । गवामूधः शुचि शुद्धं पयो नातृणत् । तवाहुत्यर्थं यजमानो न दोग्धिः । अंशोः सोमलताखण्डस्य सम्बन्ध्यन्धो रसाख्यमन्नं पूतं दशापवित्रेण शोधितं सत् न परिषिक्तम् । गृहेषु न प्रक्षिप्तम् । किन्त्वनेन यजमानेन केवलं स्तुतिरेव क्रियते । वोचेय । बूञ् आशीर्लिङि ब्रुवो वचिः । लिङ्याशिष्यङ् । छन्दस्युभयथेति सार्वधातुकत्वात्सीयुटः सलोपः । अतृणत् । उतृदिर् हिंसानादरयोः । दोहनमेवोधोहिंसनम् । परिषिक्तम् । सिञ्च्चतेः कर्मणि क्तः । उपस्र्गात्सुनोतीति संहितायां षत्वम् । गतिरनन्तर इति गतेः स्वरः ॥ १९ ॥

4.1.20
विश्वे᳚षा॒मदि᳚तिर्य॒ज्ञिया᳚नां॒ विश्वे᳚षा॒मति᳚थि॒र्मानु᳚षाणाम् ।
अ॒ग्निर्दे॒वाना॒मव᳚ आवृणा॒नः सु᳚मृळी॒को भ᳚वतु जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
विश्वे᳚षाम् । अदि᳚तिः । य॒ज्ञिया᳚नाम् । विश्वे᳚षाम् । अति᳚थिः । मानु᳚षाणाम् ।
अ॒ग्निः । दे॒वाना᳚म् । अवः᳚ । आ॒॑वृ॒णा॒नः । सु॒॑मृ॒ळी॒कः । भ॒व॒तु॒ । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्विश्वेषां सर्वेषां यज्ञियानां यज्ञार्हाणां देवानामदितिः अदितिर्देवमाता । तद्वद्देवानां पोषक इत्यर्थः । यद्वा । विश्वेषां देवानामदितिर्भूस्थानीयः आधारभूत इति यावत् । अयं वा अग्निर्वैश्वानर इति श्रुतेः । तथायमग्निर्विश्वेषां मानुषाणामतिथिरतिथिवत्पूज्यो भवति । देवानां देवनशीलानां स्तोतॄणामवोऽन्नं हविरावृणानः सम्भजन् जातवेदाः । जातं सर्वं वेत्तीति जातवेदाः । सोऽग्निस्तेषां स्तोतॄणां सुमृळीकः सुखकरो भवतु । अतिथिः । अत सातत्यगमने । ऋतन्यञ्जीत्यादिनेथिन्प्रत्ययः । नित्त्वादाद्युदात्तः । मानुषाणाम् । मनोरपत्यानीत्यर्थे मनोर्जातावञ्यतौ षुक्छेत्यञ्प्रत्ययः । ञित्त्वादाद्युदात्तः ॥ २० ॥