चतुर्थं मण्डलम् - सूक्तम् 32

24 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: गायत्री

सूक्तम् 4.32 - सम्पूर्णम्

1 / 24
ऋक्: 4.32.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (24)
4.32.1
आ तू न᳚ इन्द्र वृत्रहन्न॒स्माक᳚म॒र्धमा ग᳚हि ।
म॒हान्म॒हीभि᳚रू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒॑ह॒न् । अ॒स्माक᳚म् । अ॒र्धम् । आ । ग॒हि॒ ।
म॒हान् । म॒हीभिः᳚ । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ तू न इन्द्रेति चतुर्विंशत्यृचमेकादशं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्रम् । अन्त्ये कनीनकेवेत्यादिके द्वे इन्द्रस्याश्वदेवताके । तथा चानुक्रान्तम् । आ तू नश्चतुर्विंशतिरन्त्याभ्यामिन्द्राश्वौ स्तुताविति । गतो विनियोगः ॥

हे वृत्रहन् वृत्रानाम् शत्रूणां हिंसकेन्द्र त्वं नोऽस्मान्प्रति तु क्षिप्रमागच्छ । हे इन्द्र महान्प्रभूतस्त्वं महीभिर्महतीभिरूतिभी रक्षाभिः सहास्माकमर्धं समीपमा गहि । आगच्छ ॥ १ ॥

4.32.2
भृमि᳚श्चिद्घासि॒ तूतु᳚जि॒रा चि᳚त्र चि॒त्रिणी॒ष्वा ।
चि॒त्रं कृ᳚णोष्यू॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
भृमिः᳚ । चि॒त् । घ॒ । अ॒सि॒ । तूतु᳚जिः । आ । चि॒त्र॒ । चि॒त्रिणी᳚षु । आ ।
चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे चित्र चायनीय पूजनीयेन्द्र त्वं भृमिश्चित् भ्रमणशीलोऽपि तूतुजिर्घासि । अस्मदभीष्टप्रदाता च भवसि । आकारश्चार्थे । चित्रिणीषु चित्रकर्मयुक्तास्वस्मद्रूपासु प्रजासु चित्रं चायनीयं धनमूतये रक्षणाय आ कृणोषि । आ समन्तात्करोषि । घेति पूरणः ॥ २ ॥

4.32.3
द॒भ्रेभि᳚श्चि॒च्छशी᳚यांसं॒ हंसि॒ व्राध᳚न्त॒मोज᳚सा ।
सखि᳚भि॒र्ये त्वे सचा᳚ ॥
▶ पदपाठः (Word-by-word)
द॒भ्रेभिः᳚ । चि॒त् । शशी᳚यांसम् । हंसि᳚ । व्राध᳚न्तम् । ओज᳚सा ।
सखि᳚॑भिः । ये । त्वे इति᳚ । सचा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं दभ्रेभिश्चिदल्पैरपि सखिभिर्यजमानैह् सह शशीयांसम् । शशप्लुतगतौ । उत्प्लवमानं व्राधन्तं महान्तमपि शत्रुमोजसा बलेन हंसि । नाशयसि । ये यजमानास्त्वे त्वयि सचा सङ्गताः । तैरिति पूर्वेण सम्बन्धः ॥ ३ ॥

4.32.4
व॒यमि᳚न्द्र॒ त्वे सचा᳚ व॒यं त्वा॒भि नो᳚नुमः ।
अ॒स्मा{4}अ᳚स्मा{4}॒ इदुद᳚व ॥
▶ पदपाठः (Word-by-word)
व॒यम् । इ॒न्द्र॒ । त्वे इति᳚ । सचा᳚ । व॒यम् । त्वा॒ । अ॒भि । नो॒नु॒मः॒ ।
अ॒स्मान्॑अ᳚स्मान् । इत् । उत् । अ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र वयं यजमानास्त्वे त्वयि सचा सङ्गताः स्मः । वयं त्वा त्वामभिनोनुमः । अतिशयेनाभिष्टुभः । हे इन्द्र त्वमप्यस्मानस्मानित् सर्वानस्मानेवोदव । उत्कर्षेण रक्ष ॥ ४ ॥

4.32.5
स न᳚श्चि॒त्राभि᳚रद्रिवो॑नव॒द्याभि᳚रू॒तिभि᳚ः ।
अना᳚धृष्टाभि॒रा ग᳚हि ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । चि॒त्राभिः᳚ । अ॒द्रि॒॑वः॒ । अ॒न॒व॒द्याभिः᳚ । ऊ॒ति॑भिः᳚ ।
अना᳚धृष्टाभिः । आ । ग॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवो वज्रवन्निन्द्र स त्वं चित्राभिश्चायनीयाभिरनवद्याभिरनिन्दिताभिरनाधृष्टाभिः शत्रुभिरप्रधर्षितैरूतिभी रक्षणैः सहितः सस्नोऽस्माना गहि । आगच्छ ॥ ५ ॥

4.32.6
भू॒यामो॒ षु त्वाव᳚त॒ः सखा᳚य इन्द्र॒ गोम᳚तः ।
युजो॒ वाजा᳚य॒ घृष्व᳚ये ॥
▶ पदपाठः (Word-by-word)
भू॒यामो॒ इति᳚ । सु । त्वा॑व᳚तः । सखा᳚यः । इ॒न्द्र॒ । गो॑म᳚तः ।
युजः᳚ । वाजा᳚य । घृष्व᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वावतस्त्वत्सदृशस्य गोमतो गोभिर्युक्तस्य देवस्य सम्बन्धिनः सखायः स्तोतारो वयं घृष्वये महते वाजायान्नाय युजः संयुक्ताः सु सुष्ठु भूयामो । भवामैव ॥ ६ ॥

4.32.7
त्वं ह्येक॒ ईशि᳚ष॒ इन्द्र॒ वाज᳚स्य॒ गोम᳚तः ।
स नो᳚ यन्धि म॒हीमिष᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । हि । एकः᳚ । ईशि᳚षे । इन्द्र᳚ । वाज᳚स्य । गो॑म᳚तः ।
सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र हि यस्मात्कारणत्त्वमेक एव गोमतो गोभिर्युक्तस्य वाजस्यान्नस्येशिषे । प्रभवसि । अतः कारणात्स त्वं नोऽस्मभ्यं महीं महतीमिषमन्नं यन्तिह् । प्रयच्छ ॥ ७ ॥

4.32.8
न त्वा᳚ वरन्ते अ॒न्यथा॒ यद्दित्स᳚सि स्तु॒तो म॒घम् ।
स्तो॒तृभ्य᳚ इन्द्र गिर्वणः ॥
▶ पदपाठः (Word-by-word)
न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा᳚ । यत् । दित्स᳚सि । स्तु॒तः । म॒घम् ।
स्तो॒तृ॑भ्यः᳚ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र गिर्वणो गिरां सम्भक्तः स्तुतोऽस्माभि सम्स्तुतो यद्यदा स्तोतृभ्योऽस्मभ्यं मघं धनं दित्ससि । दातुमिच्छसि । तदा त्वा त्वामन्यथा प्रकारांतरेण न दरन्ते । न निवारयन्ति । किन्तु सर्वेऽप्यनुकूला एव भवन्ति ॥ ८ ॥

4.32.9
अ॒भि त्वा॒ गोत᳚मा गि॒रानू᳚षत॒ प्र दा॒वने᳚ ।
इन्द्र॒ वाजा᳚य॒ घृष्व᳚ये ॥
▶ पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । गोत᳚माः । गि॒रा । अनू᳚षत । प्र । दा॒वने᳚ ।
इन्द्र᳚ । वाजा᳚य । घृष्व᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वा त्वामभि लक्षीकृत्य गोतमा एतन्नामका ऋषयो गिरा स्तुति रूपया वाचा दावने धनदानार्थं प्रानूषत । प्रकर्षेण स्तुवन्ति । घृष्वये महते वाजायान्नाय प्रस्तुवन्ति ॥ ९ ॥

4.32.10
प्र ते᳚ वोचाम वी॒र्या॒३॒᳚ या म᳚न्दसा॒न आरु᳚जः ।
पुरो॒ दासी᳚र॒भीत्य᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या᳚ । याः । म॒न्द॒सा॒नः । आ । अरु᳚जः ।
पुरः᳚ । दासीः᳚ । अ॒भि॒॑इत्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र मन्दसानः सोमेन मोदमानस्त्वं दासीः क्षेप्तुरसुरस्य स्वभूता याः पुरो यानि नगराण्यभीत्याभिगम्यारुजः । आ समन्तादभाङ्क्षीः । हे इन्द्र ते त्वदीयानि तत्रत्यानि वीर्या वीर्याणि वयं स्तोतारः प्र वोचाम । प्रकर्षेण वदाम ॥ १० ॥

4.32.11
ता ते᳚ गृणन्ति वे॒धसो॒ यानि᳚ च॒कर्थ॒ पौंस्या᳚ ।
सु॒तेष्वि᳚न्द्र गिर्वणः ॥
▶ पदपाठः (Word-by-word)
ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः᳚ । यानि᳚ । च॒कर्थ᳚ । पौंस्या᳚ ।
सु॒तेषु᳚ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र गिर्वणो गिरां स्तुतिरूपाणां वाचां सम्भक्ता त्वं यानि पौंस्या पौंस्यानि बलानि चकर्थ । कृतवानसि । हे इन्द्र वेधसः प्राज्ञाः सुतेष्वभिषुतेषु सोमेषु ते त्वदीयानि ता तानि बलानि गृणन्ति । कीर्तयन्ति ॥ ११ ॥

4.32.12 समानपद
अवी᳚वृधन्त॒ गोत᳚मा॒ इन्द्र॒ त्वे स्तोम᳚वाहसः ।
ऐषु᳚ धा वी॒रव॒द्यशः᳚ ॥
▶ पदपाठः (Word-by-word)
अवी᳚वृधन्त । गोत᳚माः । इन्द्र᳚ । त्वे इति᳚ । स्तोम᳚॑वाहसः ।
आ । ए॒षु॒ । धाः॒ । वी॒र॑व᳚त् । यशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारो गोतमा ऋषयो हे इन्द्र त्वे त्वामवीवृधन्त । स्तोत्रैर्वर्धयन्ति । त्वमेषु गोतमेषु वीरवत्पुत्रपौत्रादियुक्तं यशोऽन्नमा धाः । निधेहि ॥ १२ ॥

4.32.13
यच्चि॒द्धि शश्व᳚ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् ।
तं त्वा᳚ व॒यं ह᳚वामहे ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । शश्व᳚ताम् । असि᳚ । इन्द्र᳚ । साधा᳚रणः । त्वम् ।
तम् । त्वा॒ । व॒यम् । हा॒वा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं यच्चिद्धि यद्यपि खलु शश्वतां बहूनां सर्वेषां यजमानानां साधारणोऽसि । सामान्यो भवसि । तथापि त्वमेव त्वा त्वां वयं स्तोतारो हवामहे । आह्वयामः ॥ १३ ॥

4.32.14
अ॒र्वा॒ची॒नो व᳚सो भवा॒स्मे सु म॒त्स्वान्ध᳚सः ।
सोमा᳚नामिन्द्र सोमपाः ॥
▶ पदपाठः (Word-by-word)
अ॒र्वा॒ची॒नः । व॒सो॒ इति᳚ । भ॒व॒ । अ॒स्मे इति᳚ । सु । म॒त्स्व॒ । अन्ध᳚सः ।
सोमा᳚नाम् । इ॒न्द्र॒ । सो॒म॒॑पाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वसो यज्ञनिवासकेन्द्र त्वमस्मे अस्मासु यजमानेष्वर्वाचीनोऽभिमुखो भव । तथा हे सोमपाः सोमानां पातरिन्द्र त्वं सोमानामन्धसोऽन्नेन सु सुष्ठु मत्स्व । माद्य ॥ १४ ॥

4.32.15
अ॒स्माकं᳚ त्वा मती॒नामा स्तोम᳚ इन्द्र यच्छतु ।
अ॒र्वागा व᳚र्तया॒ हरी᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒स्माक᳚म् । त्वा॒ । म॒ती॒नाम् । आ । स्तोमः᳚ । इ॒न्द्र॒ । य॒च्छ॒तु॒ ।
अ॒र्वाक् । आ । व॒र्त॒य॒ । हरी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मतीनां स्तोतॄनाम् । मन्यतेः कर्तरि क्तिच् । अस्माकं सम्बन्धि स्तोमः स्तोत्रं हे इन्द्र त्वा त्वामा यच्छतु । अस्मासु नियच्छतु । त्वमपि हरी त्वदीयावश्वावर्वागस्मदभिमुखं यथा भवति तथा आ वर्तय । परिवर्तनं कुरु ॥ १५ ॥

4.32.16
पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर᳚श्च नः ।
व॒धू॒युरि᳚व॒ योष᳚णाम् ॥
▶ पदपाठः (Word-by-word)
पु॒रो॒ळाश᳚म् । च॒ । नः॒ । घसः᳚ । जो॒षया᳚से । गिरः᳚ । च॒ । नः॒ ।
व॒धू॒युः॑इ᳚व । योष᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं नोऽस्मदीयं पुरोळाशं च पुरोडाशरूपमन्नं च घसः । अद्धि । तथा नोऽस्मदीया गिरश्च स्तुतिरूपा वाचश्च जोषयासे । सेवस्व । तत्र दृष्टान्तः । वधूयुरिव । स्त्रीकामो यथा योषणां स्त्रीणां गिरः सेवते तद्वत् ॥ १६ ॥

4.32.17
स॒हस्रं॒ व्यती᳚नां यु॒क्ताना॒मिन्द्र᳚मीमहे ।
श॒तं सोम᳚स्य खा॒र्य᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚म् । व्यती᳚नाम् । यु॒क्ताना᳚म् । इन्द्र᳚म् । ई॒म॒हे॒ ।
श॒तम् । सोम᳚स्य । खा॒र्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयं स्तोतार इन्द्रं परमैश्वर्ययुक्तं युक्तानां शिक्षितानां व्यतीनां गमनवतामश्वानां सहस्रं सहस्रसंख्याकमीमहे । यचामहे । तथा सोमस्याभिषुतसोमस्य शतं शतसंख्याकाः खार्यः खारीरीमहे । अत्र मानविशेषवाचिना खारीशब्देन द्रोणकलश उपलक्ष्यते । आपरिमितद्रोणकलशान् बहून्यज्ञान्याचामह इत्यर्थः ॥ १७ ॥

4.32.18
स॒हस्रा᳚ ते श॒ता व॒यं गवा॒मा च्या᳚वयामसि ।
अ॒स्म॒त्रा राध᳚ एतु ते ॥
▶ पदपाठः (Word-by-word)
स॒हस्रा᳚ । ते॒ । श॒ता । व॒यम् । गवा᳚म् । आ । च्य॒व॒या॒म॒सि॒ ।
अ॒स्म॒॑त्रा । राधः᳚ । ए॒तु॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वदीयानि गवां सहस्रा सहस्रसंख्यानि शता शतसंख्याकानि चा च्यावयामसि । आच्यावयामः । अस्मदभिमुखं कुर्मः । तथास्मत्रा अस्मासु त्वदीयं राधो धनं ते त्वत्त एतु । आगच्छतु ॥ १८ ॥

4.32.19
दश᳚ ते क॒लशा᳚नां॒ हिर᳚ण्यानामधीमहि ।
भू॒रि॒दा अ᳚सि वृत्रहन् ॥
▶ पदपाठः (Word-by-word)
दश᳚ । ते॒ । क॒लशा᳚नाम् । हिर᳚ण्यानाम् । अ॒धी॒म॒हि॒ ।
भू॒रि॒॑दाः । अ॒सि॒ । वृ॒त्र॒॑ह॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र ते त्वत्तः कलशानां कुम्भानाम् । कुम्भपरिमितानामिति यावत् । हिरण्यानां हितरमणीयानां धनानां दश दशसंख्याकान्यधीमहि । धारयामः । हे वृत्रहन्वृत्राणां शत्रूणां हिम्सकेन्द्र त्वं भूरिदा असि । बहुप्रदो भवसि ॥ १९ ॥

4.32.20
भूरि᳚दा॒ भूरि᳚ देहि नो॒ मा द॒भ्रं भूर्या भ᳚र ।
भूरि॒ घेदि᳚न्द्र दित्ससि ॥
▶ पदपाठः (Word-by-word)
भूरि᳚॑दाः । भूरि᳚ । दे॒हि॒ । नः॒ । मा । द॒भ्रम् । भूरि᳚ । आ । भ॒र॒ ।
भूरि᳚ । घ॒ । इत् । इ॒न्द्र॒ । दि॒त्स॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र भूरिदा बहुप्रदस्त्वं भूरि बहु धनं नोऽस्मभ्यं देहि । प्रयच्छ । किन्तु दभ्रमल्पं धनं मा प्रयच्छ । भूरि बहुलं धनमस्मभ्यमा भर । आहर । किञ्च भूरीत् अदभ्रमेव धनं दित्ससि घ । अस्मभ्यं दातुमिच्छसि खलु ॥ २० ॥

4.32.21
भू॒रि॒दा ह्यसि᳚ श्रु॒तः पु᳚रु॒त्रा शू᳚र वृत्रहन् ।
आ नो᳚ भजस्व॒ राध᳚सि ॥
▶ पदपाठः (Word-by-word)
भू॒रि॒॑दाः । हि । असि᳚ । श्रु॒तः । पु॒रु॒॑त्रा । शू॒र॒ । वृ॒त्र॒॑ह॒न् ।
आ । नः॒ । भ॒ज॒स्व॒ । राध᳚सि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्वृत्रस्य हिंसक शूर विक्रान्तेन्द्र भूरिदा बहुप्रदस्त्वं पुरुत्रा पुरुषु बहुषु यजमानेषु श्रुतोऽसि हि । विख्यातो भवसि खलु । राधसि धने नोऽस्माना भजस्व । आ समन्ताद्भागिनः कुरु ॥ २१ ॥

4.32.22
प्र ते᳚ ब॒भ्रू वि᳚चक्षण॒ शंसा᳚मि गोषणो नपात् ।
माभ्यां॒ गा अनु᳚ शिश्रथः ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । ब॒भ्रू इति᳚ । वि॒॑च॒क्ष॒ण॒ । शंसा᳚मि । गो॒॑स॒नः॒ । न॒पा॒त् ।
मा । आ॒भ्या॒म् । गाः । अनु᳚ । शि॒श्र॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विचक्षण प्राज्ञेन्द्र ते त्वदीयौ बभ्रू बभ्रुवर्णावश्वौ प्र शंसामि । प्रकर्षेण स्त्ॐइ । हे गोसनो गवां सनितर्हे नपात् न पातयितः स्तोतॄनविनाशयितः । किन्तु पालयितरित्यर्थः । हे इन्द्र त्वमाभ्यां त्वदीयाभ्यामश्वाभ्यां गा अनु अस्मदीया गा लक्षीकृत्य मा शिश्रथः । विनष्टा मा कार्षीः । गावोऽश्वदर्शनाद्विश्लिष्यन्ते । तन्मा भूदित्यर्थः ॥ २२ ॥

4.32.23
क॒नी॒न॒केव᳚ विद्र॒धे नवे᳚ द्रुप॒दे अ᳚र्भ॒के ।
ब॒भ्रू यामे᳚षु शोभेते ॥
▶ पदपाठः (Word-by-word)
क॒नी॒न॒का॑इ᳚व । वि॒द्र॒धे । नवे᳚ । द्रु॒॑प॒दे । अ॒र्भ॒के ।
ब॒भ्रू इति᳚ । यामे᳚षु । शो॒भे॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विद्रधे विदृढ्त् व्यूढे नवे नवजाएऽर्भकेऽल्पके द्रुपदे द्रुमाख्यस्थाने स्थिते कनीनकेव कमनीये शालभञ्चिके इव हे इन्द्र बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ यामेषु यज्ञेषु शोभेते । कान्तियुक्तौ भवतः । कनीनके कन्यके । कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति वा कनतेर्वा स्यात्कान्ति कर्मण इत्यादि निरुक्तं ॥ ४-१५ ॥ २३ ॥

4.32.24
अरं᳚ म उ॒स्रया॒म्णे॑र॒मनु᳚स्रयाम्णे ।
ब॒भ्रू यामे᳚ष्व॒स्रिधा᳚ ॥
▶ पदपाठः (Word-by-word)
अर᳚म् । मे॒ । उ॒स्र॑या᳚म्ने । अर᳚म् । अनु᳚स्र॑याम्ने ।
ब॒भ्रू इति᳚ । यामे᳚षु । अ॒स्रिधा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अस्रिधास्रिधावहिंसकौ बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ यामेषु गमनेषु प्राप्तेषु सत्सूस्रयाम्णे । उस्राभ्यामनडुड्भ्त्यां युक्तेन रथेन यातीत्युस्रयामा । तस्मै मे मह्यमरमलं पर्याप्तकारिणौ भवताम् । अनुस्रयाम्णे पद्भ्यामेव गच्छते मह्यमरं पर्याप्तकारिणौ भवतां ॥ २४ ॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन् ।
पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥