या॒तम᳚श्विना सु॒कृतो᳚ दुरो॒णमुत्सूर्यो॒ ज्योति᳚षा दे॒व ए᳚ति ॥
पदपाठः (Word-by-word)
या॒तम् । अ॒श्वि॒ना॒ । सु॒॑कृतः᳚ । दु॒रो॒णम् । उत् । सूर्यः᳚ । ज्योति᳚षा । दे॒वः । ए॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
प्रत्यग्निरिति पञ्चर्चं तृतीयं सूक्तं वामदेवस्यार्षं त्रैष्टुभमाग्नेयं तत्तन्मन्त्रवर्णाभिधेयोषः प्रभृति दैवतं वा । तथा चानुक्रान्तम् । प्रत्यग्निः पञ्चलिङ्गोक्त दैवतं त्वेक इति ॥ लैङ्गिको विनियोगः ॥
सुमनाः शोभमनस्कोऽग्निर्विभातीनां व्युच्छन्तीनामुषसामुषोदेवतानां रत्नधेयं रत्नधानम् । धनप्रकाशकमित्यर्थः । अग्रं प्रति पूर्वकालं ल्क्षीकृत्याख्यत् । प्रवृद्धो भवति । हे अश्विनाश्विनौ युवां सुकृतो यजमानस्य दुरोणं गृहम् । दुरोण इति ग्रुहनाम दुरोणे दुर्या इति गृहनामसु पाठात् । यातम् । गच्छतम् । सूर्य ऋत्विगादीनां प्रेरको देवो ज्योतिषा स्वेन तेजसोदेति । उषः काले प्रादुर्भवतीत्यर्थः ॥ १ ॥