चतुर्थं मण्डलम् - सूक्तम् 21

11 ऋचः

ऋषिः: वामदेवो गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 4.21 - सम्पूर्णम्

1 / 11
ऋक्: 4.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
4.21.1
आ या॒त्विन्द्रो॑व᳚स॒ उप᳚ न इ॒ह स्तु॒तः स᳚ध॒माद᳚स्तु॒ शूरः᳚ ।
वा॒वृ॒धा॒नस्तवि᳚षी॒र्यस्य᳚ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू᳚ति॒ पुष्या᳚त् ॥
▶ पदपाठः (Word-by-word)
आ । या॒तु॒ । इन्द्रः᳚ । अव᳚से । उप᳚ । नः॒ । इ॒ह । स्तु॒तः । स॒ध॒॑मात् । अ॒स्तु॒ । शूरः᳚ ।
व॒वृ॒धा॒नः । तवि᳚षीः । यस्य᳚ । पू॒र्वीः । द्यौः । न । क्ष॒त्रम् । अ॒भि॑भू᳚ति । पुष्या᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ यात्विन्द्र इत्येकादशर्चमेकादशं सूक्तम् वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । आ यात्वित्यनुक्रान्तम् । पृष्थ्याभिप्लवशडहयोः प्रथमेऽहन्येतन्निविद्धानीयम् । सूत्रितं च । आ यात्विन्द्रोऽवस इति मरुत्वतीयम् । आ. ७-५ । इति ॥

स इन्द्रो नोऽस्माकमवसे रक्षणायोपा यातु । उपागच्छतु । य इन्द्र इहास्मिन्यज्ञे स्तुतः । शूरो विक्रान्तो ववृधानः प्रवृद्धोऽयमिन्द्रः सधमादस्तु । अस्माभिः सहमाद्यन् भवतु । यस्येन्द्रस्य तविषीस्तविष्यो बलानि पूर्वीः पूर्व्यो बहूनि । सन्तीति शेषः । यश्चेन्द्रो द्यौर्न द्योतमानः सूर्य इवाभिभूति परकीयं बलमभिभावुकं क्शत्रं स्वकीयं बलं तेजो वा पुष्यात् पुष्यतु । स इन्द्रो उपायात्विति पूर्वेण सम्बन्धः ॥ १ ॥

4.21.2
तस्येदि॒ह स्त᳚वथ॒ वृष्ण्या᳚नि तुविद्यु॒म्नस्य᳚ तुवि॒राध᳚सो॒ नॄन् ।
यस्य॒ क्रतु᳚र्विद॒थ्यो॒३॒᳚ न स॒म्राट् सा॒ह्वान्तरु᳚त्रो अ॒भ्यस्ति᳚ कृ॒ष्टीः ॥
▶ पदपाठः (Word-by-word)
तस्य᳚ । इत् । इ॒ह । स्त॒व॒थ॒ । वृष्ण्या᳚नि । तु॒वि॒॑द्यु॒म्नस्य᳚ । तु॒वि॒॑राध᳚सः । नॄन् ।
यस्य᳚ । क्रतुः᳚ । वि॒द॒थ्यः᳚ । न । स॒म्॑राट् । स॒ह्वान् । तरु᳚त्रः । अ॒भि । अस्ति᳚ । कृ॒ष्टीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुविद्युम्नस्य बहुकीर्तेस्तुविराधसो बहुधनस्य तस्येत्तस्येन्द्रस्यैव वृष्ण्यानि बलभूतान्नॄन् नेतॄन्मरुतो हे स्तोतारो यूयमिहास्मिन्यज्ञेस्तवथ । स्तुत । साह्वान् शत्रूनभिभावुकस्तरुत्रोऽस्मानापद्भ्यस्तारको यस्येन्द्रस्य क्रतुः कर्म कृष्टीः शत्रुसम्बन्धिनीः प्रजा अभ्यस्ति अभिभवति । तत्र दृष्टान्तः । विदथ्यो न सम्राट् । विदथार्हो न यज्ञार्हः सम्राट् सकललोकानामधिपतिरिव तद्वत् । तस्य वृष्ण्यानीति पूर्वेण सम्बन्धः ॥ २ ॥

4.21.3
आ या॒त्विन्द्रो᳚ दि॒व आ पृ᳚थि॒व्या म॒क्षू स᳚मु॒द्रादु॒त वा॒ पुरी᳚षात् ।
स्व᳚र्णरा॒दव᳚से नो म॒रुत्वा᳚न्परा॒वतो᳚ वा॒ सद᳚नादृ॒तस्य᳚ ॥
▶ पदपाठः (Word-by-word)
आ । या॒तु॒ । इन्द्रः᳚ । दि॒वः । आ । पृ॒थि॒व्याः । म॒क्षु । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी᳚षात् ।
स्वः᳚॑नरात् । अव᳚से । नः॒ । म॒रुत्वा᳚न् । प॒रा॒॑वतः᳚ । वा॒ । सद᳚नात् । ऋ॒तस्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुत्वान्मरुद्भिः सहित इन्द्रो नोऽस्माकमवसे रक्षणाय दिवः स्वर्गलोकादायातु । आगच्छतु । पृथिव्या भूलोकाच्च मक्षु शीघ्रमा यातु । उत वा अथवा समुद्रादन्तरिक्षलोकाच्चायातु । समुद्र इत्यन्तरिक्षनाम सगरः समुद्रोऽध्वरमिति तन्नामसु पाठात् । अथवा पुरीशादुदकादायातु । पुरीषमित्युदकनाम मधु पुरीषं पिप्पलमिति तन्नामसु पाठात् । स्वर्णरात् स्वरादित्यो नरो नेता यस्य तस्माल्लोकाद्वायातु । परावतो वा दूराद्वायातु । ऋतस्योदकस्य सदनात्स्थानान्मेघलोकाद्वायातु ॥ ३ ॥

4.21.4
स्थू॒रस्य᳚ रा॒यो बृ᳚ह॒तो य ईशे॒ तमु᳚ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् ।
यो वा॒युना॒ जय᳚ति॒ गोम᳚तीषु॒ प्र धृ᳚ष्णु॒या नय᳚ति॒ वस्यो॒ अच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
स्थू॒रस्य᳚ । रा॒यः । बृ॒ह॒तः । यः । ईशे᳚ । तम् । ऊं॒ इति᳚ । स्त॒वा॒म॒ । वि॒दथे᳚षु । इन्द्र᳚म् ।
यः । वा॒युना᳚ । जय᳚ति । गो॑म᳚तीषु । प्र । धृ॒ष्णु॒॑या । नय᳚ति । वस्यः᳚ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य इन्द्रः स्थूरस्य स्थूलस्य बृहतो महतो रायो धनस्येते ईष्टे विदथेषु यज्ञेषु । विदथ इति यज्ञनामैतत् । तमिन्द्रमु तमिन्द्रमेव वयं स्तोतारः स्तवाम । य इन्द्रो वायुना प्रानरूपेण बलेन गोमतीशु सेनासु जयति शत्रून्विजयते । धृष्णुया धृष्णुः प्रगल्भो य इन्द्रः स्तोतॄन्वस्यो वसीयः श्रेष्ठं पश्वादिधनमच्छाभि प्रणयति प्रापयति । तमेवेन्द्रं स्तवामेति पूर्वेण सम्बन्धः ॥ ४ ॥

4.21.5
उप॒ यो नमो॒ नम᳚सि स्तभा॒यन्निय᳚र्ति॒ वाचं᳚ ज॒नय॒न्यज᳚ध्यै ।
ऋ॒ञ्ज॒सा॒नः पु᳚रु॒वार᳚ उ॒क्थैरेन्द्रं᳚ कृण्वीत॒ सद᳚नेषु॒ होता᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । यः । नमः᳚ । नम᳚सि । स्त॒भा॒यन् । इय᳚र्ति । वाच᳚म् । ज॒नय᳚न् । यज᳚ध्यै ।
ऋ॒ञ्ज॒सा॒नः । पु॒रु॒॑वारः᳚ । उ॒क्थैः । आ । इन्द्र᳚म् । कृ॒ण्वी॒त॒ । सद᳚नेषु । होता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उप स्तभायन् लोकानुपस्तम्भयन् यजध्यै यष्टुं वाचं गर्जितलक्षणां वाचं जनयन् प्रजनयन् ऋंजसानः प्रसाध्यमानः । ऋंजतिः प्रसाधनकर्मेति यास्कः । उक्थैः शस्त्रलक्षणैः स्तोत्रैः पुरुवारो बहुभिः सम्भजनीयो य इन्द्रो नमसि । नम इत्यन्ननामैतत् । यजमानैर्दत्ते हविषि नमो यजमानेभ्यो यज्ञादिसाधनमन्नमियर्ति प्रेरयति । इन्द्रो हविषि नमो यजमानेभ्यो यज्ञादिसाधनमन्नमियर्ति प्रेरयति । इन्द्रो हविषा तृप्तः सन् वृष्टिद्वारान्नं प्रयच्छति तेन चान्नेन पुनर्यज्ञः प्रजायत इत्यर्थः । अस्मदीयो होता सदनेषु यज्ञगृहेषु तमिन्द्रमा कृण्वीत । आभिमुखीकरोतु ॥ ५ ॥

4.21.6
धि॒षा यदि᳚ धिष॒ण्यन्त᳚ः सर॒ण्यान्त्सद᳚न्तो॒ अद्रि᳚मौशि॒जस्य॒ गोहे᳚ ।
आ दु॒रोषा᳚ः पा॒स्त्यस्य॒ होता॒ यो नो᳚ म॒हान्त्सं॒वर᳚णेषु॒ वह्नि᳚ः ॥
▶ पदपाठः (Word-by-word)
धि॒षा । यदि᳚ । धि॒ष॒ण्यन्तः᳚ । स॒र॒ण्यान् । सद᳚न्तः । अद्रि᳚म् । औ॒शि॒जस्य᳚ । गोहे᳚ ।
आ । दु॒रोषाः᳚ । पा॒स्त्यस्य᳚ । होता᳚ । यः । नः॒ । म॒हान् । स॒म्॑वर᳚णेषु । वह्निः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धिषण्यन्तो धिषणामिन्द्रविषयां स्तुतिमिच्छन्त औशिजस्य । उशिजः कामयमाना ऋत्विजः । तेषां सम्बन्ध्योशिजो यजमानः । तस्य गोहे गृहे सदन्तो निषीदन्तो जना अद्रिम् । आदृणाति शत्रूनित्यद्रिरिन्द्रः । तमिन्द्रं धिषा स्तुत्या यदि यदा सरण्यान् उपागच्छेयुः तदा स इन्द्र आ यतु ॥ नोऽस्माकं संवरणेषु शत्रुसम्बन्धिषु निरोधेशु वह्निर्वोढा पास्त्यस्य पस्त्ये गृहे वसता यजमानेन होताह्वाता दुरोषा दुस्तरक्रोधो य इन्द्रो महान्प्रभूतो भवति । स आयात्विति ॥ ६ ॥

4.21.7
स॒त्रा यदीं᳚ भार्व॒रस्य॒ वृष्ण॒ः सिष᳚क्ति॒ शुष्म᳚ः स्तुव॒ते भरा᳚य ।
गुहा॒ यदी᳚मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय᳚से॒ मदा᳚य ॥
▶ पदपाठः (Word-by-word)
स॒त्रा । यत् । ई॒म् । भा॒र्व॒रस्य᳚ । वृष्णः᳚ । सिस᳚क्ति । शुष्मः᳚ । स्तु॒व॒ते । भरा᳚य ।
गुहा᳚ । यत् । ई॒म् । औ॒शि॒जस्य᳚ । गोहे᳚ । प्र । यत् । धि॒ये । प्र । अय᳚से । मदा᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

भार्वरस्य । भर्वरो जगद्भर्ता प्रजापतिः । तस्य पुत्रो भार्वरः । तस्य वृष्णः कामानां वर्षितुरिन्द्रस्य सम्बन्धी ई मेष शुष्मो बलं स्तुवते स्तोत्रं कुर्वन्तं यजमानं सिषक्ति सेवत इति यत्तत्सत्रा सत्यमेव । ईमेतद्वलमौशिजस्य यजमानस्य भराय भर्तुं गुहा गुहायां गुहारूपे हृदये प्र भवतिति यत्तत्सत्यम् । यजमानस्य होहे गृहे धिये कर्मणे प्र भवतीति यत्तत्य्सत्यम् । अयसे गमनाय कामानां प्राप्त्र्ये मदाय हर्षाय तत्र यद्बलं प्रभवति तत्सत्यम् । इन्द्रस्य बलं यजमानं सर्वदा पालयतीत्यर्थः ॥ ७ ॥

4.21.8
वि यद्वरां᳚सि॒ पर्व᳚तस्य वृ॒ण्वे पयो᳚भिर्जि॒न्वे अ॒पां जवां᳚सि ।
वि॒दद्गौ॒रस्य᳚ गव॒यस्य॒ गोहे॒ यदी॒ वाजा᳚य सु॒ध्यो॒३॒᳚ वह᳚न्ति ॥
▶ पदपाठः (Word-by-word)
वि । यत् । वरां᳚सि । पर्व᳚तस्य । वृ॒ण्वे । पयः᳚॑भिः । जि॒न्वे । अ॒पाम् । जवां᳚सि ।
वि॒दत् । गौ॒रस्य᳚ । ग॒व॒यस्य᳚ । गोहे᳚ । यदि᳚ । वाजा᳚य । सु॒॑ध्यः᳚ । वह᳚न्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः पर्वतस्य मेधस्य वरांसि द्वाराणि वि वृण्वे विवृतानि कृतवानिति यत् । अपामुदकानां जवांसि वेगान्पयोभिर्जलैर्जिन्वे प्यायतीति यत् । यदि यदा सुध्यः शोभनकर्माणो यजमाना वाजायान्नाय वहन्ति इन्द्रं प्राप्नुवन्ति तथा गोहे गौरस्य गौरमृगस्य गवयस्य गवयमृगस्य च विदत् तौ द्वौ पशू लभत इति यत् । तत्सर्वं सत्रेति पूर्वेण सम्बन्धः ॥ ८ ॥

4.21.9
भ॒द्रा ते॒ हस्ता॒ सुकृ᳚तो॒त पा॒णी प्र᳚य॒न्तारा᳚ स्तुव॒ते राध᳚ इन्द्र ।
का ते॒ निष᳚त्ति॒ः किमु॒ नो म᳚मत्सि॒ किं नोदु᳚दु हर्षसे॒ दात॒वा उ᳚ ॥
▶ पदपाठः (Word-by-word)
भ॒द्रा । ते॒ । हस्ता᳚ । सु॑कृ᳚ता । उ॒त । पा॒णी इति᳚ । प्र॒॑य॒न्तारा᳚ । स्तु॒व॒ते । राधः᳚ । इ॒न्द्र॒ ।
का । ते॒ । नि॑स᳚त्तिः । किम् । ऊं॒ इति᳚ । नः॒ । म॒म॒त्सि॒ । किम् । न । उत्॑उ᳚त् । ऊं॒ इति᳚ । ह॒र्ष॒से॒ । दात॒वै । ऊ{4}॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभ्युदयेष्टाविन्द्रस्य प्रदातुर्भद्रा ते हस्तेति याज्या । सूत्रितं च । दीर्घस्ते अस्त्वंकुशो भद्रा ते हस्ता सुकृतोत पाणी । आ. ३-१३ । इति ॥

हे इन्द्र ते त्वदीयौ भद्रा भद्रौ कल्याणौ हस्ता हस्तौ सुकृता सुकृतौ शोभन कर्माणौ भवतः । उतापि च पाणी त्वदीयौ हस्तौ स्तुवते स्तोत्रे यजमानाय राधो धनं प्रयन्तारा प्रयन्तारौ प्रदातारौ भवतः । हे इन्द्र ते त्वदीया निषत्तिर्निषदनं स्थितिः का । त्वमस्मान् किमु किमर्थं नो ममत्सि । न मादयसि । किमुदुदु किमर्थमेव दातवा अस्माकं धनं दातुं न हर्षसे । हृष्टो नभवसि ॥ ९ ॥

4.21.10
ए॒वा वस्व॒ इन्द्र᳚ः स॒त्यः स॒म्राड्ढन्ता᳚ वृ॒त्रं वरि᳚वः पू॒रवे᳚ कः ।
पुरु᳚ष्टुत॒ क्रत्वा᳚ नः शग्धि रा॒यो भ᳚क्षी॒य ते॑व᳚सो॒ दैव्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
ए॒व । वस्वः᳚ । इन्द्रः᳚ । स॒त्यः । स॒म्॑राट् । हन्ता᳚ । वृ॒त्रम् । वरि᳚वः । पू॒रवे᳚ । क॒रिति᳚ कः ।
पुरु᳚॑स्तुत । क्रत्वा᳚ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । त॒े । अव᳚सः । दैव्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रस्य वार्त्रघ्नस्य पशावेवा वस्व इति हविषो याज्या । सूत्रितं च । एवा वस्व इन्द्रः सत्यः सम्राड्यद्वाग्वदन्त्यविचेतनानि । आ. ३-८ । इति ॥

एवैवमुक्तप्रकारेण स्तूयमानः सत्यः सत्यवान्वस्वो धनस्य सम्राडीश्वरो वृत्रं वृत्रनामानमसुरं हन्ता हिंसितेन्द्रः पूरवे मनुष्याय यजमानाय वरिवो धनं कः । करोति । ददातीत्यर्थः । क्रत्वा कर्मणा स्तुतिहेतुना हे पुरुष्तुत बहुभिर्यज्कमानैः स्तुतेन्द्र त्वम् नोऽस्मभ्यं रायो धनानि शग्धि । देहि । ते त्वया दीयमानस्य दैव्यस्य देवसम्बन्धिनोऽवसोऽन्नस्य । कर्मणि षष्ठी । अन्नं भक्षीय । अहं भजेय ॥ १० ॥

4.21.11
नू ष्टु॒त इ᳚न्द्र॒ नू गृ᳚णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॒᳚ न पी᳚पेः ।
अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्य᳚ः सदा॒साः ॥
▶ पदपाठः (Word-by-word)
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष᳚म् । ज॒रि॒त्रे । न॒द्यः᳚ । न । पी॒पे॒रिति᳚ पीपेः ।
अका᳚रि । ते॒ । ह॒रि॒॑वः॒ । ब्रह्म᳚ । नव्य᳚म् । धि॒या । स्या॒म॒ । र॒थ्यः᳚ । स॒दा॒॑साः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र नु क्षिप्रं स्तुतः पूर्वैरृषिबिः संस्तुतो नु क्षिप्रं गृणानोऽस्माभिः स्तूयमानस्त्वमिषमन्नं जरित्रे स्तोत्रे मह्यं नद्यो नाद्भिर्नदीरिव पीपेः । प्यायय । प्रवृद्धं कुरु । हे हरिवो हरिसंज्ञकाश्वोपेतेन्द्र ते तुभ्यं नव्यं नवतरं ब्रह्म स्तोत्रमकारि । अस्माभिः क्रियते । रथ्यो रथवन्तो वयं धिया प्रज्ञारूपया स्तुत्या सदासास्त्वां सर्वदा भजमानास्त्त्वदर्थं हवीरूपस्यान्नास्य दातारो वा स्याम । भूयास्म ॥ ११ ॥