चतुर्थं मण्डलम् - सूक्तम् 11

6 ऋचः

ऋषिः: वामदेवो गौतमः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 4.11 - सम्पूर्णम्

1 / 6
ऋक्: 4.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
4.11.1
भ॒द्रं ते᳚ अग्ने सहसि॒न्ननी᳚कमुपा॒क आ रो᳚चते॒ सूर्य᳚स्य ।
रुश᳚द्दृ॒शे द᳚दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे अन्न᳚म् ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम् । ते॒ । अ॒ग्ने॒ । स॒ह॒सि॒न् । अनी᳚कम् । उ॒पा॒के । आ । रो॒च॒ते॒ । सूर्य᳚स्य ।
रुश᳚त् । दृ॒शे । द॒दृ॒शे॒ । न॒क्त॒॑या । चि॒त् । अरू᳚क्षितम् । दृ॒शे । आ । रू॒पे । अन्न᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वितीयेऽनुवाक एकादश सूक्तानि । तत्र भद्रं त इति षड्रुचं प्रथमं सूक्तं वामदेवस्यार्षं त्रिष्टुप्छन्दस्कमग्निदेवताकम् । भद्रं षडित्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते विनियुक्ते । तथा च सूत्रितम् । भद्रं ते अग्ने इति सूक्ते । आ. ४-१३ । इति ॥

हे सहसिन् बलवन्नग्ने ते त्वदीयं भद्रं भजनीयमनीकं तेजः सूर्यस्योपाके संइपभूते । दिवस इत्यर्थः । आ रोचते । समन्ताद्दीप्यते । रुशद्रोचमानं दृशे दर्शनीयं तेजो नक्तया चिद्रात्रावपि ददृशे । दृश्यते । आ इत्ययं शब्दश्चेत्यर्थे वर्तते । आ किञ्च अरूक्षितं स्निग्धं दृशे दर्शनीयमन्नां पुरोडाशादिरूपं हवी रूपे रूपवति त्वय्यैत्विगादिभिर्हुतं भवति ॥ १ ॥

4.11.2
वि षा᳚ह्यग्ने गृण॒ते म᳚नी॒षां खं वेप᳚सा तुविजात॒ स्तवा᳚नः ।
विश्वे᳚भि॒र्यद्वा॒वनः᳚ शुक्र दे॒वैस्तन्नो᳚ रास्व सुमहो॒ भूरि॒ मन्म᳚ ॥
▶ पदपाठः (Word-by-word)
वि । सा॒हि॒ । अ॒ग्ने॒ । गृ॒ण॒ते । म॒नी॒षाम् । खम् । वेप᳚सा । तु॒वि॒॑जा॒त॒ । स्तवा᳚नः ।
विश्वे᳚भिः । यत् । व॒वनः᳚ । शु॒क्र॒ । दे॒वैः । तत् । नः॒ । रा॒स्व॒ । सु॒॑म॒हः॒ । भूरि᳚ । मन्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तुविजात मथनेनारणिद्वारा यज्ञादिकर्मसु बहुजन्मन्नग्ने स्तवान ऋत्विगादिभिः स्तूयमानस्त्वं वेपसा यज्ञादिकर्मणा । वेप इति कर्मनामवेषो वेपो विष्टीति कर्मनामसु पाठात् । मनीषां स्तुतिं गृणते कुर्वते यजमानाय खं यजमानप्राप्यस्य पुण्यलोकस्य द्वारं वि षाहि । विष्य । विमुञ्चेतृर्थः । षोऽन्तकर्मणीत्यस्माद्धातोर्लोण्मध्यमपुरुषैकवचनम् । सिप् । दिवादिभ्यः श्यन् । तस्य बहुलं छन्दसीति लुक् । आदेच उपदेशेऽशितीत्यात्वम् । सेर्हिरादेशः । तिङ्ङ तिङ इति निघातः । हे शुक्र दीप्यमानाग्ने त्वं विश्वेभिर्विश्वैः सर्वैः । बहुलं छन्दसीति भिस ऐसभावम् । देवैरिन्द्रादिभिः सह यत्पश्वादिधनं ववनः । यजमानेभ्यः प्रयच्छेः । वनतेर्लेट् । तस्य सिप इतश्च लोप इतीकारलोपः । बहुलं छन्दसिति विकरणस्य श्लुः । श्लाविति द्विर्वचनम् । हलादिशेशः । लेटोऽडाटावित्यडागमः । यद्वृत्तान्नित्यमिति निघाताभावः । हे सुमहः शोभनतेजस्काग्ने भूरि प्रभूतं मन्म मननीयं तद्धनं नोऽस्मभ्यं रास्व । देहि ॥ २ ॥

4.11.3
त्वद᳚ग्ने॒ काव्या॒ त्वन्म᳚नी॒षास्त्वदु॒क्था जा᳚यन्ते॒ राध्या᳚नि ।
त्वदे᳚ति॒ द्रवि᳚णं वी॒रपे᳚शा इ॒त्थाधि᳚ये दा॒शुषे॒ मर्त्या᳚य ॥
▶ पदपाठः (Word-by-word)
त्वत् । अ॒ग्ने॒ । काव्या᳚ । त्वम् । म॒नी॒षाः । त्वत् । उ॒क्था । जा॒य॒न्ते॒ । राध्या᳚नि ।
त्वत् । ए॒ति॒ । द्रवि᳚णम् । वी॒र॑पे᳚शाः । इ॒त्था॑धि᳚ये । दा॒शुषे᳚ । मर्त्या᳚य ॥
▶ सायणभाष्यम् (Sayana Commentary)

महापितृयज्ञे स्विष्टकृदग्निः कव्यवाहनो यष्टव्यः । तस्य द्वे अनुवाक्ये । तत्र त्वदग्ने काव्येति द्वितीयानुवाक्या । तथा च सुत्रितम् । त्वदग्ने काव्या त्वन्मनीशाः स प्रत्नथा सहसा जायमानः । आ. २-१९ । इति ॥

हे अग्ने काव्या काव्यानि हविर्वहनदेवतानयनादीन्यग्निसम्बन्धीनि कर्माण्याध्बर्यवाणि कर्माणि वा त्वद्भवतो जायन्ते । उत्पद्यन्ते । मनीशाः स्तुतिरूपा वाचस्त्वदेव जायन्ते । राध्यानि राद्धुं योग्यान्युक्थोक्थानि शस्त्राणि त्वत्त्वत्तो जायन्ते । इत्थाधिये । धीरिति कर्मनाम । इत्थेति सत्यनामसु पाठात् सत्यकर्मणे दाशुषे हवींषि दत्तवते मर्त्याय मनुष्याय यजमानाय वीरपेराः । पेश इति रूपनाम । इदं विक्रान्तं रूपम् । अत्र लिङ्गव्यत्ययेन वीरपेशा इति रूपम् । द्रविणं पश्वादिधनं त्वत्त्वत्त एति । निर्गच्छति । उत्पद्यत इत्यर्थः ॥ ३ ॥

4.11.4
त्वद्वा॒जी वा᳚जम्भ॒रो विहा᳚या अभिष्टि॒कृज्जा᳚यते स॒त्यशु᳚ष्मः ।
त्वद्र॒यिर्दे॒वजू᳚तो मयो॒भुस्त्वदा॒शुर्जू᳚जु॒वा{4} अ᳚ग्ने॒ अर्वा᳚ ॥
▶ पदपाठः (Word-by-word)
त्वत् । वा॒जी । वा॒ज॒म्॑भ॒रः । वि॑हा᳚याः । अ॒भि॒ष्टि॒॑कृत् । जा॒य॒ते॒ । स॒त्य॑शु᳚ष्मः ।
त्वत् । र॒यिः । दे॒व॑जू᳚तः । म॒यः॒॑भुः । त्वत् । आ॒शुः । जू॒जु॒॑वान् । अ॒ग्ने॒ । अर्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने वाजी बलवान्वाजम्भरो हविर्लक्षणान्नस्य वाहकः । अग्नेर्वाजम्भर इत्येषा वैदिकी संज्ञा । संज्ञायं भृतॄवृजीति वाजशब्दे कर्मण्य्पपदे खच् प्रत्ययः । अरुर्द्विषदजन्तस्येति मुमागमः । चित इत्यन्तोदात्तत्वम् । विहाया महानभिष्टिकृद्यज्ञकृत् अभ्येषणकृद्वा । सत्यशुष्मः सत्यबलः पुत्रस्त्वत्त्वत्तो जायते । उत्पद्यते । देवजूतो देवैः प्रेरितो मयोभुः सुखप्रदः । मय इति सुखनामैतत् । रयिर्धनं त्वज्जायते । आशुः शीघ्रगामी । अप्रतिहतगमन इत्यर्थः । जूजुवान्वेगेन गच्छन्नर्वाश्वस्त्वद्भवतो जायते ॥ ४ ॥

4.11.5
त्वाम᳚ग्ने प्रथ॒मं दे᳚व॒यन्तो᳚ दे॒वं मर्ता᳚ अमृत म॒न्द्रजि᳚ह्वम् ।
द्वे॒षो॒युत॒मा वि᳚वासन्ति धी॒भिर्दमू᳚नसं गृ॒हप᳚ति॒ममू᳚रम् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । प्र॒थ॒मम् । दे॒व॒॑यन्तः᳚ । दे॒वम् । भर्ता᳚ । अ॒मृ॒त॒ । म॒न्द्र॑जि᳚ह्वम् ।
द्वे॒षः॒॑युत᳚म् । आ । वि॒वा॒स॒न्ति॒ । धी॒भिः । दमू᳚नसम् । गृ॒ह॑प᳚तिम् । अमू᳚रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अमृत अमरणशीलाग्ने देवयन्तो देवानिच्छन्तो मर्ता मनुष्या यजमानास्त्वां धीभिः स्तुतिभिः कर्मभिर्वा अ विवासन्ति । समन्तात्परिचरन्ति । कीदृशं त्वाम् । प्रथमं देवानामाद्यं देवं द्योतमानं मन्द्रजिह्वम् । देवानां मादयित्री जिह्वा यस्य तम् । द्वेषोयुतं द्वेषसां पापानां पृथक्कर्तारं दमूनसं रक्षसां दमनकरण मनसोपेतम् । दमूनः शब्दस्य कथमयमर्थ इति दमूना दममना वा दानमना वा दान्तमना वापि वा दम इति गृहनाम तन्मनाः स्यादिति यास्केनोक्तत्वादिति । दमु उपशमने । दमेरूनसिरित्यौणादिक ऊनसि प्रत्ययः । गृहपतिं गृहाणां पालयितारममूरममूढम् । प्रगल्भमित्यर्थः । ॥ ५ ॥

4.11.6
आ॒रे अ॒स्मदम᳚तिमा॒रे अंह᳚ आ॒रे विश्वां᳚ दुर्म॒तिं यन्नि॒पासि᳚ ।
दो॒षा शि॒वः स᳚हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच᳚से स्व॒स्ति ॥
▶ पदपाठः (Word-by-word)
आ॒रे । अ॒स्मत् । अम᳚तिम् । आ॒रे । अंहः᳚ । आ॒रे । विश्वा᳚म् । दुः॒॑म॒तिम् । यत् । नि॒॑पासि᳚ ।
दो॒षा । शि॒वः । स॒ह॒सः॒ । सू॒नो॒ इति᳚ । अ॒ग्ने॒ । यम् । दे॒वः । आ । चि॒त् । सच᳚से । स्व॒स्ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्व्वस्त्ययन्यामारे अस्मदिति स्वस्तिमतोऽग्नेर्याज्या । सूत्रितं च । आरे अस्मदमतिमारे अंहः । आ. २-०० ॥ इति ॥

हे सहसः सूनो बलस्य पुत्र । मथ्यमानोऽग्निर्मथनकारिणां हि बलेन जायत इत्यग्नेर्बलपुत्रत्वम् । हे अग्ने दोषा रात्रौ शिवः शिवकरो देवो द्योतमानस्त्वं यं यानस्मान् स्वस्त्यविनाशाय आ सचसे । परितः सेवसे । चिदिति पूरणः । यद्यस्मात्कारणान्निपासि । यजमानान्नितरां पालयसि । तेभ्योऽस्मदस्मत्तोऽमतिं पापरुपामशनेच्छामारे दूरे कुरु । अशनाया वै पाप्मामतिः । ऐ. ब्रा. २-२ । इति ब्राह्मणम् । आरे दूरेऽस्मत्तोऽहः पापं कुरु । आरे इति दूरानामैतत् । अस्मत्त आरे दूरे दुर्मतिं दुर्मनस्त्वं कुरु ॥ ६ ॥