चतुर्थं मण्डलम् - सूक्तम् 43

7 ऋचः

ऋषिः: पुरुमीळ्हाजमीळ्हौ सौहोत्रौ देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 4.43 - सम्पूर्णम्

1 / 7
ऋक्: 4.43.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
4.43.1 समानपद
क उ᳚ श्रवत्कत॒मो य॒ज्ञिया᳚नां व॒न्दारु᳚ दे॒वः क᳚त॒मो जु᳚षाते ।
कस्ये॒मां दे॒वीम॒मृते᳚षु॒ प्रेष्ठां᳚ हृ॒दि श्रे᳚षाम सुष्टु॒तिं सु᳚ह॒व्याम् ॥
▶ पदपाठः (Word-by-word)
कः । ऊं॒ इति᳚ । श्र॒व॒त् । क॒त॒मः । य॒ज्ञिया᳚नाम् । व॒न्दारु᳚ । दे॒वः । क॒त॒मः । जु॒षा॒ते॒ ।
कस्य᳚ । इ॒माम् । दे॒वीम् । अ॒मृते᳚षु । प्रेष्ठा᳚म् । हृ॒दि । श्रे॒षा॒म॒ । सु॒॑स्तु॒तिम् । सु॒॑ह॒व्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

क उ श्रवदिति सप्तर्चमेकादशं सूक्तम् । सुहोत्रपुत्रौ पुरुमीह्ळाजमीह्ळावृषी । त्रिष्तुप् छन्दः । अश्विनौ देवता । अत्रानुक्रमणिका । क उ श्रवत्सप्त पुरुमीह्ळाजमीह्ळौ सौहोत्रौ त्वाश्विनं हि । प्रातरनुवाकश्विनशस्त्रयोराश्विने क्रतौ त्रैष्टुभे छन्दसीदमादिके द्वे सूक्ते । धेनुः प्रत्नस्य क उ श्रवत् । आ. ४-१५ । इति सूत्रितत्वात् ॥

यज्ञियानां यज्ञार्हानां देवानां मध्ये क उ देवः श्रवत् । शृणुयात्स्तुतिम् । कतमो देवो वन्दारु वन्दनशीलं स्तोत्रम् । कतमो देवो जुषाते । सेवते । कस्य हृदीमां प्रेष्थां प्रियतरां देवीं द्योतमानां सुहव्यां शोभनान्नोपेतां शोभनैर्हविर्भिर्युक्तां वा सुष्टुतिममृतेषु मध्ये श्रेषाम । श्लेषयेम श्रावयेम वा । अश्विनावन्तरेण स्तुतेः को देवः स्वामी भवेदिति ॥ १ ॥

4.43.2
को मृ᳚ळाति कत॒म आग᳚मिष्ठो दे॒वाना᳚मु कत॒मः शम्भ᳚विष्ठः ।
रथं॒ कमा᳚हुर्द्र॒वद᳚श्वमा॒शुं यं सूर्य᳚स्य दुहि॒तावृ᳚णीत ॥
▶ पदपाठः (Word-by-word)
कः । मृ॒ळा॒ति॒ । क॒त॒मः । आ॑ग᳚मिष्ठः । दे॒वाना᳚म् । ऊं॒ इति᳚ । क॒त॒मः । शम्॑भ᳚विष्ठः ।
रथ᳚म् । कम् । आ॒हुः॒ । द्र॒वत्॑अ᳚श्वम् । आ॒शुम् । यम् । सूर्य᳚स्य । दु॒हि॒ता । अवृ᳚णीत ॥
▶ सायणभाष्यम् (Sayana Commentary)

को मृळाति । को देवो मृडाति । सुखयेदस्मान् । कतमो देव आगमिष्थ आगन्तृतमोऽस्मद्यज्ञं प्रति । देवानामु देवानां मध्ये कतमो देवः शम्भविष्थः सुखस्य भावयितृतमः । एवमुक्तगुणविशिष्टः । को भवेत् अश्विनावन्तरेणेति भावः । कं रथं द्रवदश्वमाशुमाहुः । ब्रुवते । यं रथं सूर्यस्य दुहिता सूर्यस्य पत्न्यवृणीत । समभजत् ॥ तं कं रथं वेगवन्तमाहुः ॥ २ ॥

4.43.3
म॒क्षू हि ष्मा॒ गच्छ᳚थ॒ ईव᳚तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि᳚तक्म्यायाम् ।
दि॒व आजा᳚ता दि॒व्या सु᳚प॒र्णा कया॒ शची᳚नां भवथ॒ः शचि᳚ष्ठा ॥
▶ पदपाठः (Word-by-word)
म॒क्षु । हि । स्म॒ । गच्छ᳚थः । ईव᳚तः । द्यून् । इन्द्रः᳚ । न । श॒क्तिम् । परि᳚॑तक्म्यायाम् ।
दि॒वः । आ॑जा᳚ता । दि॒व्या । सु॒॑प॒र्णा । कया᳚ । शची᳚नाम् । भ॒व॒थः॒ । शचि᳚ष्ठा ॥
▶ सायणभाष्यम् (Sayana Commentary)

मक्षु शीघ्रम् । हि स्मेति पूरणौ । ईवतो गमनवत आगामिनो द्यून्दिवसान् सुत्यासम्बन्धिनः प्रति गच्छथः । इन्द्रः शक्तिं न स्वकीयां शक्तिं यथा परितक्म्यायां रात्रावतीतायाम् । प्रदर्शयतीति शेषः । स्तुत्याहन्युषःकाल इन्द्रो यथा गच्छति तद्वद्युवामपि गच्छतमित्यर्थः । दिवो द्युलोकादाजातागतौ दिव्या दिवि भवौ सुपर्णा शोभनगमनौ युवां शचीनां युष्मत्सम्बन्धिनां कर्मणां शक्तीनां वा मध्ये कया शच्या शचिष्ठा शक्तिमत्तरौ शोभनकर्मवन्तौ वा भवथः ॥ ३ ॥

4.43.4
का वां᳚ भू॒दुप᳚माति॒ः कया᳚ न॒ आश्वि᳚ना गमथो हू॒यमा᳚ना ।
को वां᳚ म॒हश्चि॒त्त्यज᳚सो अ॒भीक᳚ उरु॒ष्यतं᳚ माध्वी दस्रा न ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
का । वा॒म् । भू॒त् । उप᳚॑मातिः । कया᳚ । नः॒ । आ । अ॒श्वि॒ना॒ । ग॒म॒थः॒ । हू॒यमा᳚ना ।
कः । वा॒म् । म॒हः । चि॒त् । त्यज᳚सः । अ॒भीके᳚ । उ॒रु॒ष्यत᳚म् । मा॒ध्वी॒ इति᳚ । द॒स्रा॒ । नः॒ । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

वां युवयोः कोपमातिः । उप समीपे मातिर्मानं गुणानां परिच्छित्तिर्यस्यां सा स्तुतिः का भूत् । भवेत् । कया स्तुत्या हूयमानावाहूयमानौ सन्तौ नोऽस्माना गमथः । आगच्छथः । वां युवयोरभीक आसन्नप्रदेशे महश्चिन्महतस्त्यजसः । त्यज्यते परित्यज्यते सर्वैरिति त्यजः क्रोभः । तस्य सोढा को भवेत् । हे माध्वी मधुररसस्योदकस्य स्रष्टारौ हे दस्रा शत्रूणामुपक्षपयितारावश्विनौ नोऽस्मानूती ऊत्या रक्षयोरुष्यतम् । रक्षाकर्मैतत् । रक्षतम् ॥ ४ ॥

4.43.5
उ॒रु वां॒ रथ॒ः परि᳚ नक्षति॒ द्यामा यत्स᳚मु॒द्राद॒भि वर्त᳚ते वाम् ।
मध्वा᳚ माध्वी॒ मधु᳚ वां प्रुषाय॒न्यत्सीं᳚ वां॒ पृक्षो᳚ भु॒रज᳚न्त प॒क्वाः ॥
▶ पदपाठः (Word-by-word)
उ॒रु । वा॒म् । रथः᳚ । परि᳚ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर्त᳚ते । वा॒म् ।
मध्वा᳚ । मा॒ध्वी॒ इति᳚ । मधु᳚ । वा॒म् । प्रु॒षा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः᳚ । भु॒रज᳚न्त । प॒क्वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां रथो द्यां परि द्युलोकस्य परित उरु प्रभूतं नक्शति । गच्छति । यद्यस्मादा अर्वाक् समुद्रात्समुद्द्रवनसाधनादन्तरिक्षाद्वां प्रति अभिवर्तते । आभिमुख्येन गच्छति । हे माध्वी उक्तलक्षणौ मध्वा मधुरेन पयसा मधु मधुरं सोमरसं प्रुषायन् । सिञ्चन्त्यध्वर्यवः । यद्यस्मात्सीं सर्वतो वां पृक्षो युवयोः सोमं पक्वाः पक्वा यवा भुरजन्त । प्राप्नुवन्ति । तस्मादभिवर्तते वामिति ॥ ५ ॥

4.43.6 समानपद
सिन्धु᳚र्ह वां र॒सया᳚ सिञ्च॒दश्वा᳚न्घृ॒णा वयो᳚॑रु॒षास॒ः परि᳚ ग्मन् ।
तदू॒ षु वा᳚मजि॒रं चे᳚ति॒ यानं॒ येन॒ पती॒ भव᳚थः सू॒र्याया᳚ः ॥
▶ पदपाठः (Word-by-word)
सिन्धुः᳚ । ह॒ । वा॒म् । र॒सया᳚ । सि॒ञ्च॒त् । अश्वा᳚न् । घृ॒णा । वयः᳚ । अ॒रु॒षासः᳚ । परि᳚ । ग्म॒न् ।
तत् । ऊं॒ इति᳚ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान᳚म् । येन᳚ । पती॒ इति᳚ । भव᳚थः । सू॒र्यायाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वां युवयोरश्वान् सिन्धुः स्यन्दमानो मेघ उदकं वा रसया रसेन सिञ्चत् । असेचयत् । घृणा दीप्त्या वयः पक्षिसदृशा वेतारो वा आश्वा अरुषास आरोचमानाः सन्तः परि परितो ग्मन् । गच्छन्ति । वां यानं गमनसाधनं प्रसिद्धो रथोऽजिरम् । क्षिप्रनामैतत् । सु सुष्ठु चेति । ज्ञायते । येन रथेन सूर्यायाः पति पालयितारौ वोढारौ भवथः स रथश्चेतीति ॥ ६ ॥

4.43.7
इ॒हेह॒ यद्वां᳚ सम॒ना प᳚पृ॒क्षे सेयम॒स्मे सु᳚म॒तिर्वा᳚जरत्ना ।
उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह᳚ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ॥
▶ पदपाठः (Word-by-word)
इ॒ह॑इ᳚ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति᳚ । सु॒॑म॒तिः । वा॒ज॒॑र॒त्ना॒ ।
उ॒रु॒ष्यत᳚म् । ज॒रि॒तार᳚म् । यु॒वम् । ह॒ । श्रि॒तः । कामः᳚ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ यद्यस्मात् । यथा वा सुमत्या । इहेहास्मिन्नेव यज्ञे सुमना समानमनस्कौ । सदृशावित्यर्थः । तौ वां युवां सुमत्या पपृक्षे । स्तुत्या संयोजयामि । सेयमिदानीं क्रियमाणा सुमतिः शोभनस्तुतिरस्मे अस्माकमेव फलवती भवत्विति शेशः । हे वाजरत्ना रमणीयान्नौ । अन्नं वै वाजः । शत. ब्रा. ९-३-४-१ । इति श्रुतेः । युवं युवां जरितारं गरितारं स्तोतारं मामुरुष्यतम् । रक्षतम् । हे नासत्याश्विनौ कामोऽस्मदीयो युवद्रिक् ह युवामेव गच्छन् श्रितः प्राप्तः ॥ ७ ॥