श्रवणम्

4.43.5
उ॒रु वां॒ रथ॒ः परि᳚ नक्षति॒ द्यामा यत्स᳚मु॒द्राद॒भि वर्त᳚ते वाम् ।
मध्वा᳚ माध्वी॒ मधु᳚ वां प्रुषाय॒न्यत्सीं᳚ वां॒ पृक्षो᳚ भु॒रज᳚न्त प॒क्वाः ॥
▶ पदपाठः (Word-by-word)
उ॒रु । वा॒म् । रथः᳚ । परि᳚ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर्त᳚ते । वा॒म् ।
मध्वा᳚ । मा॒ध्वी॒ इति᳚ । मधु᳚ । वा॒म् । प्रु॒षा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः᳚ । भु॒रज᳚न्त । प॒क्वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां रथो द्यां परि द्युलोकस्य परित उरु प्रभूतं नक्शति । गच्छति । यद्यस्मादा अर्वाक् समुद्रात्समुद्द्रवनसाधनादन्तरिक्षाद्वां प्रति अभिवर्तते । आभिमुख्येन गच्छति । हे माध्वी उक्तलक्षणौ मध्वा मधुरेन पयसा मधु मधुरं सोमरसं प्रुषायन् । सिञ्चन्त्यध्वर्यवः । यद्यस्मात्सीं सर्वतो वां पृक्षो युवयोः सोमं पक्वाः पक्वा यवा भुरजन्त । प्राप्नुवन्ति । तस्मादभिवर्तते वामिति ॥ ५ ॥