सप्तमं मण्डलम् - सूक्तम् 1

25 ऋचः

ऋषिः: वसिष्ठः देवता: अग्निः छन्दः: विराट्

सूक्तम् 7.1 - सम्पूर्णम्

1 / 25
ऋक्: 7.1.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (25)
7.1.1
अ॒ग्निं नरो॒ दीधि᳚तिभिर॒रण्यो॒र्हस्त᳚च्युती जनयन्त प्रश॒स्तम् ।
दू॒रे॒दृशं᳚ गृ॒हप᳚तिमथ॒र्युम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । नरः᳚ । दीधि᳚ति॑भिः । अ॒रण्योः᳚ । हस्त᳚॑च्युती । ज॒न॒य॒न्त॒ । प्र॒॑श॒स्तम् ।
दू॒रे॒॑दृश᳚म् । गृ॒ह॑प᳚तिम् । अ॒थ॒र्युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरो नेतारऋत्विजः प्रशस्तं प्रकर्षेण स्तुतं दूरेदृशं दूरेदृश्यमानं दूरेपश्यन्तं वा गृहपतिं गृहाणां पालकं अथर्युं आगम्यमतनवन्तंवाग्निं अरण्योर्विद्यमानं हस्तच्युती हस्तप्रच्युत्या हस्तगत्या दीधितिभिः अंगुलिभिः जनयन्त दीधितयोंगुलयो भवन्ति धीयन्ते कर्मस्वरणी प्रत्यृतएने अग्निसमरणाज्जायतइतिवा हस्तच्युती हस्तप्रच्युत्या जनयंत प्रशस्तं दूरेदर्शनं गृहपतिमतनवन्तमिति ॥ १ ॥

7.1.2
तम॒ग्निमस्ते॒ वस᳚वो॒ न्यृ᳚ण्वन्त्सुप्रति॒चक्ष॒मव᳚से॒ कुत᳚श्चित् ।
द॒क्षाय्यो॒ यो दम॒ आस॒ नित्य᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒ग्निम् । अस्ते᳚ । वस᳚वः । नि । ऋ॒ण्व॒न् । सु॒॑प्र॒ति॒चक्ष᳚म् । अव᳚से । कुतः᳚ । चि॒त् ।
द॒क्षाय्यः᳚ । यः । दमे᳚ । आस᳚ । नित्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निः दमे गृहे दक्षाय्यः पूजनीयो हविर्भिः समर्धनीयोवा नित्यो जस्रः आस बभूवतं सुप्रतिचक्षं सुप्रतिदर्शनमग्निं कुतश्चित् सर्वस्मादपि भयहेतोः अवसे रक्षणाय वसवो वासकाः ये वसिष्ठा अस्ते गृहे न्यृण्वन् न्यदधुः ॥ २ ॥

7.1.3
प्रेद्धो᳚ अग्ने दीदिहि पु॒रो नो॑ज᳚स्रया सू॒र्म्या᳚ यविष्ठ ।
त्वां शश्व᳚न्त॒ उप᳚ यन्ति॒ वाजा᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र॑इ᳚द्धः । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । अज᳚स्रया । सू॒र्म्या᳚ । य॒वि॒ष्ठ॒ ।
त्वाम् । शश्व᳚न्तः । उप᳚ । य॒न्ति॒ । वाजाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यविष्ठ युतम हे अग्ने प्रेद्धः प्रकर्षेण समिद्धस्त्वं अजस्रया सरणशीलया सूर्म्या ज्वालया नोस्मदर्थं पुरः पुरस्तादाहवनीयायतने दीदिहि दीप्यस्व त्वां शश्वन्तो बहवः वाजाः अन्नानि हवींषि उपयन्ति उपगच्छन्ति ॥ ३ ॥

7.1.4
प्र ते अ॒ग्नयो॒॑ग्निभ्यो॒ वरं॒ निः सु॒वीरा᳚सः शोशुचन्त द्यु॒मन्त᳚ः ।
यत्रा॒ नरः᳚ स॒मास᳚ते सुजा॒ताः ॥
▶ पदपाठः (Word-by-word)
प्र । ते । अ॒ग्नयः᳚ । अ॒ग्नि॑भ्यः᳚ । वर᳚म् । निः । सु॒॑वीरा᳚सः । शो॒शु॒च॒न्त॒ । द्यु॒॑मन्तः᳚ ।
यत्र᳚ । नरः᳚ । स॒म्॑आस᳚ते । सु॒॑जा॒ताः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निभ्यो लौकिकेभ्योग्निभ्यः वरं अत्यन्तं द्युमन्तोदीप्तिमन्तः सुवीरासः कल्याणपुत्रपौत्रप्रदाः ते अग्नयो प्रनिःशोशुचन्त प्रकर्षेण नितरां दीप्यन्ते यत्र येष्वग्निषु सुजाताः सुजन्मानः नरः कर्मणां नेतारो यजमाना ऋत्विजो वा समासते सहासते ॥ ४ ॥

7.1.5
दा नो᳚ अग्ने धि॒या र॒यिं सु॒वीरं᳚ स्वप॒त्यं स᳚हस्य प्रश॒स्तम् ।
न यं यावा॒ तर᳚ति यातु॒मावा᳚न् ॥
▶ पदपाठः (Word-by-word)
दाः । नः॒ । अ॒ग्ने॒ । धि॒या । र॒यिम् । सु॒॑वीर᳚म् । सु॒॑अ॒प॒त्यम् । स॒ह॒स्य॒ । प्र॒॑श॒स्तम् ।
न । यम् । यावा᳚ । तर᳚ति । या॒तु॒॑मावा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्य अभिभवकुशल हे अग्ने सुवीरं शोभनपुत्रपौत्रोपेतं स्वपत्यं शोभनपौत्रोपेतं प्रशस्तं श्रेष्ठं रयिं धनं धिया स्तोत्रेण नोस्मभ्यं दाः देहि यं रयिं यावा अभिगन्ता शत्रुः यातुमावान् हिंसायानिर्गतः नलोपाभावश्छांदसः यद्वा हिंसायुक्तः परोवतिर्मत्वर्थीयः पूरकः न तरति नबाधते ॥ ५ ॥

7.1.6
उप॒ यमेति᳚ युव॒तिः सु॒दक्षं᳚ दो॒षा वस्तो᳚र्ह॒विष्म᳚ती घृ॒ताची᳚ ।
उप॒ स्वैन᳚म॒रम᳚तिर्वसू॒युः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । यम् । एति᳚ । यु॒व॒तिः । सु॒॑दक्ष᳚म् । दो॒षा । वस्तोः᳚ । ह॒विष्म᳚ती । घृ॒ताची᳚ ।
उप᳚ । स्वा । ए॒न॒म् । अ॒रम᳚तिः । व॒सु॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुदक्षं सुबलं यमग्निं हविष्मती हविषा युक्ता घृताची घृतमंचतीति घृताची जुहूः युवतिः अग्निना नित्ययुक्ता दोषा वस्तोः रात्रावहनि च उपैति उपगच्छति तमेनं स्वा स्वकीया अरमतिः दीप्तिः वसुयुः स्तोतॄणां धनमिच्छन्ती उपैति ॥ ६ ॥

7.1.7
विश्वा᳚ अ॒ग्ने॑प᳚ द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद᳚हो॒ जरू᳚थम् ।
प्र नि᳚स्व॒रं चा᳚तय॒स्वामी᳚वाम् ॥
▶ पदपाठः (Word-by-word)
विश्वाः᳚ । अ॒ग्ने॒ । अप᳚ । द॒ह॒ । अरा᳚तीः । येभिः᳚ । तपः᳚॑भिः । अद᳚हः । जरू᳚थम् ।
प्र । नि॒॑स्व॒रम् । चा॒त॒य॒स्व॒ । अमी᳚वाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने विश्वा विश्वान् अरातीः शत्रून् तपोभिस्तेजोभिः अपदह येभिः यैस्तपोभिः जरूथं परुषशब्दकारिणं राक्षसं गृणातेरूथन्प्रत्ययेसति जरूथशब्दनिष्पत्तिः अदहो दहसि । किं च अमीवां रोगं निस्वरं न्यक्कृतोपतापं यथाभवति तथा स्वृशब्दोपतापयोरितिधातुः प्रचातय- स्व प्रकर्षेण नाशय चततिर्गत्यर्थोवेति भदृभास्करमिश्रः ॥ ७ ॥

7.1.8
आ यस्ते᳚ अग्न इध॒ते अनी᳚कं॒ वसि᳚ष्ठ॒ शुक्र॒ दीदि᳚व॒ः पाव᳚क ।
उ॒तो न᳚ ए॒भिः स्त॒वथै᳚रि॒ह स्या᳚ः ॥
▶ पदपाठः (Word-by-word)
आ । यः । ते॒ । अ॒ग्ने॒ । इ॒ध॒ते । अनी᳚कम् । वसि᳚ष्ठ । शुक्र᳚ । दीदि᳚॑वः । पाव᳚क ।
उ॒तो इति᳚ । नः॒ । ए॒भिः । स्त॒वथैः᳚ । इ॒ह । स्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसिष्ठ श्रेष्ठ शुक्र शुभ्र दीदिवः दीप्त पावक शोधक हे अग्ने ते तव अनीकं तेजः यः आ इधते समेधयति तस्येव नोस्माकं उतो अपि च येभिः स्तवथैः स्तोत्रैः इहास्मिन्यज्ञे स्याः भव ॥ ८ ॥

7.1.9
वि ये ते᳚ अग्ने भेजि॒रे अनी᳚कं॒ मर्ता॒ नर॒ः पित्र्या᳚सः पुरु॒त्रा ।
उ॒तो न᳚ ए॒भिः सु॒मना᳚ इ॒ह स्या᳚ः ॥
▶ पदपाठः (Word-by-word)
वि । ये । ते॒ । अ॒ग्ने॒ । भे॒जि॒रे । अनी᳚कम् । मर्ताः᳚ । नरः᳚ । पित्र्या᳚सः । पु॒रु॒॑त्रा ।
उ॒तो इति᳚ । नः॒ । ए॒भिः । सु॒॑मनाः᳚ । इ॒ह । स्याः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते तव अनीकं तेजः पित्र्यासः पितृहिताः आर्षेयावा मर्ता मनुष्याः नरः कर्मणां नेतारो ये यजमानाः पुरुत्रा बहुषु देशेषु विभेजिरे विभजन्त आदधुरितियावत् तेषामिव नोस्माकं उतो अपि एभिः स्तुतैः सह स्तोत्रैर्वा सुमना अनुग्राहकमनाः सन् इह यज्ञे स्याः भव ॥ ९ ॥

7.1.10
इ॒मे नरो᳚ वृत्र॒हत्ये᳚षु॒ शूरा॒ विश्वा॒ अदे᳚वीर॒भि स᳚न्तु मा॒याः ।
ये मे॒ धियं᳚ प॒नय᳚न्त प्रश॒स्ताम् ॥
▶ पदपाठः (Word-by-word)
इ॒मे । नरः᳚ । वृ॒त्र॒॑हत्ये᳚षु । शूराः᳚ । विश्वाः᳚ । अदे᳚वीः । अ॒भि । स॒न्तु॒ । मा॒याः ।
ये । मे॒ । धिय᳚म् । प॒नय᳚न्त । प्र॒॑श॒स्ताम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मनुष्याः मे मदीयां प्रशस्तां प्रकृष्टां धियं कर्म स्तुतिं वा पनयन्त स्तुवन्ति ब्रुवन्ति वा तइमे मयि स्निग्धा नरो मनुष्या वृत्रहत्येषु संग्रामेषु शूराः अदेवीरासुरीः विश्वाः सर्वाः मायाः अभिसन्तु अभिभवन्तु ॥ १० ॥

7.1.11
मा शूने᳚ अग्ने॒ नि ष᳚दाम नृ॒णां माशेष᳚सो॒॑वीर᳚ता॒ परि᳚ त्वा ।
प्र॒जाव᳚तीषु॒ दुर्या᳚सु दुर्य ॥
▶ पदपाठः (Word-by-word)
मा । शूने᳚ । अ॒ग्ने॒ । नि । स॒दा॒म॒ । नृ॒णाम् । मा । अ॒शेष᳚सः । अ॒वीर᳚ता । परि᳚ । त्वा॒ ।
प्र॒जा॑व᳚तीषु । दुर्या᳚सु । दु॒र्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने शूने शून्ये पुत्रादिरहिते गृहे मानिषदाम न निवसाम नृणामन्येषां च गृहे मानिषदाम दुर्य गृहेभ्योहित हे अग्ने अशेषसः अपुत्राः तोक्म शेष इति पुत्रनामसु पाठात् अवीरता अवीरतया युक्ताश्च सन्तः त्वा त्वां परिचरन्तः प्रजावतीष्वेव दुर्यासु गृहेषु निवसाम ॥ ११ ॥

7.1.12
यम॒श्वी नित्य᳚मुप॒याति᳚ य॒ज्ञं प्र॒जाव᳚न्तं स्वप॒त्यं क्षयं᳚ नः ।
स्वज᳚न्मना॒ शेष᳚सा वावृधा॒नम् ॥
▶ पदपाठः (Word-by-word)
यम् । अ॒श्वी । नित्य᳚म् । उ॒प॒॑याति᳚ । य॒ज्ञम् । प्र॒जा॑व᳚न्तम् । सु॒॑अ॒प॒त्यम् । क्षय᳚म् । नः॒ ।
स्व॑ज᳚न्मना । शेष᳚सा । व॒वृ॒धा॒नम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यं यज्ञं यज्ञाश्रयं अश्वी अश्ववानग्निः नित्यमुपयाति तं प्रजावन्तं भृत्यादिसहितं स्वपत्यं शोभनसंतानोपेतं स्वजन्मना औरसेन शेषसा पुत्रेण ववृधानं वर्धमानं क्षयं गृहं नोस्मभ्यं हे अग्ने देहीति शेषः ॥ १२ ॥

7.1.13
पा॒हि नो᳚ अग्ने र॒क्षसो॒ अजु᳚ष्टात्पा॒हि धू॒र्तेरर᳚रुषो अघा॒योः ।
त्वा यु॒जा पृ᳚तना॒यू{4}र॒भि ष्या᳚म् ॥
▶ पदपाठः (Word-by-word)
पा॒हि । नः॒ । अ॒ग्ने॒ । र॒क्षसः᳚ । अजु᳚ष्टात् । पा॒हि । धू॒र्तेः । अर᳚रुषः । अ॒घ॒॑योः ।
त्वा । यु॒जा । पृ॒त॒ना॒॑यून् । अ॒भि । स्या॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोस्मान् अजुष्टात् अप्रीतिविषयात् रक्षसो राक्षसात् पाहि रक्ष किं च अररुषोऽदातुः अघायोः पापमिच्छतः धूर्तोर्हिसकात् पाहि । अपि च त्वा त्वया युजा सहायभूतेन पृतनायून् पृतनाकामान् अभिष्यां अहमभिभवेयं ॥ १३ ॥

7.1.14
सेद॒ग्निर॒ग्नी{4}रत्य᳚स्त्व॒न्यान्यत्र᳚ वा॒जी तन᳚यो वी॒ळुपा᳚णिः ।
स॒हस्र᳚पाथा अ॒क्षरा᳚ स॒मेति᳚ ॥
▶ पदपाठः (Word-by-word)
सः । इत् । अ॒ग्निः । अ॒ग्नीन् । अति᳚ । अ॒स्तु॒ । अ॒न्यान् । यत्र᳚ । वा॒जी । तन᳚यः । वी॒ळु॑पा᳚णिः ।
स॒हस्र᳚॑पाथाः । अ॒क्षरा᳚ । स॒म्॑एति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइत् सएवाग्निः आहवनीयादिरस्मदीयः अन्यानितरानन्यदीयानग्नीन् अत्यस्तु अतिभवतु यत्र यस्मिन्नग्नौ वाजी अशनवान् बलवान् वा वीळुपाणिः दृढहस्तः वीळु च्यौत्नमिति बलनामसु पाठात् सहस्रपाथाः बह्वन्नः बहुस्थानोवा बहूदकोवा तनयोस्मत्पुत्रः अक्षरा अक्षरेण क्षयरहितेन स्तोत्रेण समेति सम्यक् परिचरन्नेति समर्थपुत्रवतएवाग्निरन्यदीयानग्नीनभिभवतीति भावः ॥ १४ ॥

7.1.15
सेद॒ग्निर्यो व᳚नुष्य॒तो नि॒पाति᳚ समे॒द्धार॒मंह᳚स उरु॒ष्यात् ।
सु॒जा॒तास॒ः परि᳚ चरन्ति वी॒राः ॥
▶ पदपाठः (Word-by-word)
सः । इत् । अ॒ग्निः । यः । व॒नु॒ष्य॒तः । नि॒॑पाति᳚ । स॒म्॑ए॒द्धार᳚म् । अंह᳚सः । उ॒रु॒ष्यात् ।
सु॒॑जा॒तासः᳚ । परि᳚ । च॒र॒न्ति॒ । वी॒राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः समेद्धारं प्रबोधकं बनुष्यतो हिंसकान् वनुष्यतिर्हंतिकर्मेतियास्कः । उरुष्यात् अधिकादंहसः पापाच्च निपाति अत्यन्तं रक्षति यं च सुजातासः सुजन्मानएव वीराः स्तोतारः सुतावा परिचरन्ति सइत् सएवाग्निः ॥ १५ ॥

7.1.16
अ॒यं सो अ॒ग्निराहु᳚तः पुरु॒त्रा यमीशा᳚न॒ः समिदि॒न्धे ह॒विष्मा᳚न् ।
परि॒ यमेत्य᳚ध्व॒रेषु॒ होता᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सः । अ॒ग्निः । आ॑हु᳚तः । पु॒रु॒॑त्रा । यम् । ईशा᳚नः । सम् । इत् । इ॒न्धे । ह॒विष्मा᳚न् ।
परि᳚ । यम् । एति᳚ । अ॒ध्व॒रेषु᳚ । होता᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमग्निं ईशानः समृद्धः ऎश्वर्यमिच्छन् वा हविष्मान् यजमानः समिदिन्धे सम्यग्दीपयतियं चाध्वरेषु हिंसारहितेषु यज्ञेषु होता देवाना- माह्वाता पर्येति परिगच्छति सोयमग्निः पुरुत्रा बहुषु देशेषु बहुषु यज्ञेषुवा आहुतः आहुतिभिरभिहुतः ॥ १६ ॥

7.1.17
त्वे अ᳚ग्न आ॒हव᳚नानि॒ भूरी᳚शा॒नास॒ आ जु᳚हुयाम॒ नित्या᳚ ।
उ॒भा कृ॒ण्वन्तो᳚ वह॒तू मि॒येधे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । अ॒ग्ने॒ । आ॒॑हव᳚नानि । भूरि᳚ । ई॒शा॒नासः᳚ । आ । जु॒हु॒या॒म॒ । नित्या᳚ ।
उ॒भा । कृ॒ण्वन्तः᳚ । व॒ह॒तू इति᳚ । मि॒येधे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वे त्वयि ईशानासः धनानामीश्वराः सन्तः नित्या नित्यान्यग्निहोत्रादीनि उभाउभौ वहत् वहनहेतू स्तोत्रं शस्त्रं च कृण्वन्तः कुर्वन्तः मियेधे यज्ञे भूरि बहूनि आहवनानि हवींषि आजुहुयाम आजुहवाम ॥ १७ ॥

7.1.18
इ॒मो अ᳚ग्ने वी॒तत᳚मानि ह॒व्याज᳚स्रो वक्षि दे॒वता᳚ति॒मच्छ᳚ ।
प्रति᳚ न ईं सुर॒भीणि᳚ व्यन्तु ॥
▶ पदपाठः (Word-by-word)
इ॒मो इति᳚ । अ॒ग्ने॒ । वी॒त॑त᳚मानि । ह॒व्या । अज᳚स्रः । व॒क्षि॒ । दे॒व॑ता᳚तिम् । अच्छ᳚ ।
प्रति᳚ । नः॒ । ई॒म् । सु॒र॒भीणि᳚ । व्य॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं अजस्रः अनवरतःसन् इमो इमानि वीततमानि अतिशयेन कान्तानि हव्या हव्यानि देवतातिं देवानां समूहं अभिवक्षि वह अच्छ गच्छ च नोस्मदीयानि सुरभीणि शोभनानि ईं एतानि हव्यानि देवाः प्रतिव्यन्तु प्रत्येकं कामयन्तां ॥ १८ ॥

7.1.19
मा नो᳚ अग्ने॒॑वीर᳚ते॒ परा᳚ दा दु॒र्वास॒से॑म᳚तये॒ मा नो᳚ अ॒स्यै ।
मा नः᳚ क्षु॒धे मा र॒क्षस᳚ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु᳚हूर्थाः ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अ॒ग्ने॒ । अ॒वीर᳚ते । परा᳚ । दाः॒ । दुः॒॑वास᳚से । अम᳚तये । मा । नः॒ । अ॒स्यै ।
मा । नः॒ । क्षु॒धे । मा । र॒क्षसे᳚ । ऋ॒त॒॑वः॒ । मा । नः॒ । दमे᳚ । मा । वने᳚ । आ । जु॒हू॒र्थाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोस्मान् अवीरते अपुत्रतायै मापरादाः मादेहि दुर्वाससे दुष्टवस्त्रायच नोमापरादाः अस्यै अमतये अभिहान्यै नोस्मान् मापरादाः क्षुधे अशनायायै नोस्मान् माच परादाः रक्षसे बलिने चास्मान् मापरादाः हेऋतावः सत्यवन्नग्ने नोस्मान् दमे गृहे माजुहूर्थाः माहिंसीः हुर्छाकौटिल्येइति धातुः वनेचास्मान् माजुहूर्थाः ॥ १९ ॥

7.1.20 समानपद
नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ᳚शाधि॒ त्वं दे᳚व म॒घव᳚द्भ्यः सुषूदः ।
रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । मे॒ । ब्रह्मा᳚णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव᳚त्॑भ्यः । सु॒सू॒दः॒ ।
रा॒तौ । स्या॒म॒ । उ॒भया᳚सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने मे मम मदर्थं ब्रह्माणि अन्नानि नु क्षिप्रमुच्छशाधि उत्कर्षेण शोधितानि कुरु । किं च हे देव द्योतमानाग्ने मघवद्भ्योहविष्मद्भ्योस्म- भ्यं सुषूदः अन्नानि प्रेरय । ते त्वदीयायां रातौ दाने उभयासः स्तोत्रिणः शस्त्रिणश्च अथवा स्तुवन्तो यजमानाश्च वयं आस्याम अत्यर्थं भवेम नोस्मान् यूयं त्वं त्वत्परिवाराश्च सर्वे स्वस्तिभिरविनाशिभिर्मंगलैः । तथा च यास्कः-स्वस्तीत्यविनाशिनामास्तिरभिपूजितः स्वस्तीति सदा पात रक्षत ॥ २० ॥

7.1.21
त्वम᳚ग्ने सु॒हवो᳚ र॒ण्वसं᳚दृक्सुदी॒ती सू᳚नो सहसो दिदीहि ।
मा त्वे सचा॒ तन᳚ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा᳚सीत् ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । सु॒॑हवः᳚ । र॒ण्व॑स᳚न्दृक् । सु॒॑दी॒ती । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । दि॒दी॒हि॒ ।
मा । त्वे इति᳚ । सचा᳚ । तन᳚ये । नित्ये᳚ । आ । ध॒क् । मा । वी॒रः । अ॒स्मत् । नर्यः᳚ । वि । दा॒सी॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहसःसूनो सहसःसुत हे अग्ने सुहवः स्वाह्वानः रण्वसंदृक् रमणीयसंदर्शनस्त्वं सुदीती शोभनया दीप्त्या दिदीहि दीप्यस्व । किं च तनये नित्ये औरसे पुत्रे त्वे त्वं सचा सहायभूतः मा आधक् मा अभिधाक्षीः । अपि च अस्मत् पृथग्भूतः अस्माकं वा षष्ठ्यर्थे पंचमी वीरः पुत्रः नर्यो नरहितः माविदासीत् मोपक्षीयत ॥ २१ ॥

7.1.22 समानपद
मा नो᳚ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे᳚ष्व॒ग्निषु॒ प्र वो᳚चः ।
मा ते᳚ अ॒स्मान्दु᳚र्म॒तयो᳚ भृ॒माच्चि᳚द्दे॒वस्य᳚ सूनो सहसो नशन्त ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अ॒ग्ने॒ । दुः॒॑भृ॒तये᳚ । सचा᳚ । ए॒षु । दे॒व॑इ᳚द्धेषु । अ॒ग्निषु᳚ । प्र । वो॒चः॒ ।
मा । ते॒ । अ॒स्मान् । दुः॒॑म॒तयः᳚ । भृ॒मात् । चि॒त् । दे॒वस्य᳚ । सू॒नो॒ इति᳚ । स॒ह॒सः॒ । न॒श॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सचा सहायभूतस्त्वं देवेद्धेषु ऋत्विग्भिः समिद्धेषु एष्वग्निषु दुर्भृतये कृच्छ्र्भरणाय नोस्मान् मा प्रवोचः न ब्रूहि त्वत्सहाय भूता- अग्नयः यथा माम कृच्छ्रेगबिभृयुः तथा ब्रूहीत्यर्थः किं च सहसः सूनो हे बलस्य पुत्राग्ने देवस्य द्योतमानस्य ते तव दुर्मतयो निग्नहबुद्धयः भृमाच्चित् भ्रमादपि अत्र संप्रसारणं छान्दसं प्रमादादपीत्यर्थः । अस्मान्मानशंत माव्याप्नुवंतु नशदितिव्याप्तिकर्मसु पाठात् ॥ २२ ॥

7.1.23 समानपद
स मर्तो᳚ अग्ने स्वनीक रे॒वानम᳚र्त्ये॒ य आ᳚जु॒होति᳚ ह॒व्यम् ।
स दे॒वता᳚ वसु॒वनिं᳚ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा᳚न॒ एति᳚ ॥
▶ पदपाठः (Word-by-word)
सः । मर्तः᳚ । अ॒ग्ने॒ । सु॒॑अ॒नी॒क॒ । रे॒वान् । अम᳚र्त्ये । यः । आ॒॑जु॒होति᳚ । ह॒व्यम् ।
सः । दे॒वता᳚ । व॒सु॒॑वनि᳚म् । द॒धा॒ति॒ । यम् । सू॒रिः । अ॒र्थी । पृ॒च्छमा᳚नः । एति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वनीक सुतेजस्क हे अग्ने अमर्त्ये अमनुष्ये देवतात्मनि त्वयि हव्यं हविः यआजुहोति समर्तो मनुष्यो रेवान् धनवान् भवति यं मर्त्यं सूरिः प्राज्ञः अर्थी धनादिकामः पृच्छमानः असावुदारः क्वास्तइतिपृच्छन् एति अभिगच्छति स एव मनुष्यः देवता देवताभ्यो वसुवनिं धन- पोषं दधाति धारयति यद्वा सदेवताग्निः वसुवनिं यजमानं दधाति धारयति यमग्निं सूरिः स्तोता अर्थी प्रयोजनवान् पृच्छमानः कोसाव- ग्निरिति पृच्छमानएति ॥ २३ ॥

7.1.24
म॒हो नो᳚ अग्ने सुवि॒तस्य᳚ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व᳚हा बृ॒हन्त᳚म् ।
येन᳚ व॒यं स᳚हसाव॒न्मदे॒मावि᳚क्षितास॒ आयु᳚षा सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
म॒हः । नः॒ । अ॒ग्ने॒ । सु॒वि॒तस्य᳚ । वि॒द्वान् । र॒यिम् । सू॒रि॑भ्यः᳚ । आ । व॒ह॒ । बृ॒हन्त᳚म् ।
येन᳚ । व॒यम् । स॒ह॒सा॒॑व॒न् । मदे᳚म । अवि᳚॑क्षितासः । आयु᳚षा । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने नोस्मदीयस्य महो महतः सुवितस्य कल्याणस्य कर्मणो विद्वान् अस्मदीयं कल्याणं कर्म जानन्नित्यर्थः । त्वं सूरिभ्यः स्तोतृ- भ्योस्मभ्यं बृहन्तं महान्तं रयिं धनं आवह रयिमेव विशिनष्टि हे सहसावन् बलवन्नग्ने येन धनेन वयं स्तोतारः अविक्षितासः अवि- क्षीणाः आयुषा पूर्णायुषः सुवीराः कल्याणपुत्रपौत्राश्च सन्तो मदेम हृष्येम ॥ २४ ॥

वेदार्थस्य प्रकाशेन तमोहार्दं निवारयन् । प्कुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणाचार्येण विरचितेमाधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पंचमाष्टके प्रथमोध्यायः समाप्तः ॥ १ ॥

7.1.25 समानपद
नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ᳚शाधि॒ त्वं दे᳚व म॒घव᳚द्भ्यः सुषूदः ।
रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
नु । मे॒ । ब्रह्मा᳚णि । अ॒ग्ने॒ । उत् । श॒शा॒धि॒ । त्वम् । दे॒व॒ । म॒घव᳚त्॑भ्यः । सु॒सू॒दः॒ ।
रा॒तौ । स्या॒म॒ । उ॒भया᳚सः । आ । ते॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty