मो षु त्वा᳚ वा॒घत᳚श्च॒नारे अ॒स्मन्नि री᳚रमन् ।
आ॒रात्ता᳚च्चित्सध॒मादं᳚ न॒ आ ग᳚ही॒ह वा॒ सन्नुप᳚ श्रुधि ॥
मो इति᳚ । सु । त्वा॒ । वा॒घतः᳚ । च॒न । आ॒रे । अ॒स्मत् । नि । री॒र॒म॒न् ।
आ॒रात्ता᳚त् । चि॒त् । स॒ध॒॑माद᳚म् । नः॒ । आ । ग॒हि॒ । इ॒ह । वा॒ । सन् । उप᳚ । श्रु॒धि॒ ॥
हे इन्द्र त्वा त्वया वाघतश्चन यजमाना अप्येतेस्मदस्मत्त आरे दूरे मोनिरीरमन् न नितरां रमयन्तु । अतः त्वं आरत्ताच्चित् दूरेपि वर्तमानोस्मदीयं सधमादं यज्ञमागह्यागच्छ इह वा अत्रापिवा सन् विद्यमानः उपश्रुधि अस्मदीयं स्तोत्रमुपश्रृणु ॥ १ ॥
इ॒मे हि ते᳚ ब्रह्म॒कृतः᳚ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस᳚ते ।
इन्द्रे॒ कामं᳚ जरि॒तारो᳚ वसू॒यवो॒ रथे॒ न पाद॒मा द᳚धुः ॥
इ॒मे । हि । ते॒ । ब्र॒ह्म॒॑कृतः᳚ । सु॒ते । सचा᳚ । मधौ᳚ । न । मक्षः᳚ । आस᳚ते ।
इन्द्रे᳚ । काम᳚म् । ज॒रि॒तारः᳚ । व॒सु॒॑यवः᳚ । रथे᳚ । न । पाद᳚म् । आ । द॒धुः॒ ॥
हे इन्द्र ते त्वदर्थं सुते अभिषुते सोमे इमे ब्रह्मकृतः मधौन मधुनीव मक्षोमक्षिकाः सचासह आसते उपविशन्ति हीति प्रसिद्धौ । अथ परोक्षस्तुतिः वसूयवो धनकामाः जरितारः स्तोतारः काममिष्टमिन्द्रे रथे न पादं रथेपादमिव आदधुः समर्पयन्ति ॥ २ ॥
रा॒यस्का᳚मो॒ वज्र᳚हस्तं सु॒दक्षि᳚णं पु॒त्रो न पि॒तरं᳚ हुवे ॥
रा॒यः॑का᳚मः । वज्र᳚॑हस्तम् । सु॒॑दक्षि᳚णम् । पु॒त्रः । न । पि॒तर᳚म् । हु॒वे॒ ॥
रायस्कामोधनकामोहं सुदक्षिणं शोभनदानं वज्रहस्तं इन्द्रं पुत्रोन पुत्रइव पितरं हुवे ह्वयामि ॥ ३ ॥
इ॒म इन्द्रा᳚य सुन्विरे॒ सोमा᳚सो॒ दध्या᳚शिरः ।
ता{4} आ मदा᳚य वज्रहस्त पी॒तये॒ हरि᳚भ्यां या॒ह्योक॒ आ ॥
इ॒मे । इन्द्रा᳚य । सु॒न्वि॒रे॒ । सोमा᳚सः । दधि᳚॑आशिरः ।
तान् । आ । मदा᳚य । व॒ज्र॒॑ह॒स्त॒ । पी॒तये᳚ । हरि᳚॑भ्याम् । या॒हि॒ । ओकः᳚ । आ ॥
हे वज्रहस्त दध्याशिरो दधिमिश्रणा इमे सोमासः सोमाः इन्द्राय तुभ्यं सुन्विरे सुताबभूवुः । तान् सोमान् मदाय मदार्थं पीतये पानाय ओको यज्ञसदनं आअभि हरिभ्यामश्वाभ्यां आयाहि आगच्छ ॥ ४ ॥
श्रव॒च्छ्रुत्क᳚र्ण ईयते॒ वसू᳚नां॒ नू चि᳚न्नो मर्धिष॒द्गिरः᳚ ।
स॒द्यश्चि॒द्यः स॒हस्रा᳚णि श॒ता दद॒न्नकि॒र्दित्स᳚न्त॒मा मि᳚नत् ॥
श्रव᳚त् । श्रुत्॑क᳚र्णः । ई॒य॒ते॒ । वसू᳚नाम् । नु । चि॒त् । नः॒ । म॒र्धि॒ष॒त् । गिरः᳚ ।
स॒द्यः । चि॒त् । यः । स॒हस्रा᳚णि । स॒ता । दद᳚त् । नकिः᳚ । दित्स᳚न्तम् । आ । मि॒न॒त् ॥
श्रुत्कर्ण याच्चाश्रवणरूपकर्ण इन्द्रो वसूनां वसूनि ईयते याच्यते नोस्मदीयाः गिरोयाच्चावाक्यानि श्रवत् शृणोतु नूचित् नैव मर्धिषत् हिन- स्तु अश्रवणेन याच्चावाक्यानि निष्फलानि नकरोत्वित्यर्थः । अपि च यः इन्द्रः सद्यश्चित् सद्यएव याच्चानन्तमेव सहस्राणि शताशतानि च ददत् प्रयच्छेत् दित्सन्तं दातुमिच्छन्तं तमिन्द्रं नकिरामिनत् नहिंस्यात् कश्चिदपि नवारयेदित्यर्थः ॥ ५ ॥
स वी॒रो अप्र᳚तिष्कुत॒ इन्द्रे᳚ण शूशुवे॒ नृभि᳚ः ।
यस्ते᳚ गभी॒रा सव᳚नानि वृत्रहन्त्सु॒नोत्या च॒ धाव᳚ति ॥
सः । वी॒रः । अप्र᳚ति॑स्कुतः । इन्द्रे᳚ण । शू॒शु॒वे॒ । नृ॑भिः᳚ ।
यः । ते॒ । ग॒भी॒रा । सव᳚नानि । वृ॒त्र॒॑ह॒न् । सु॒नोति᳚ । आ । च॒ । धाव᳚ति ॥
हे वृत्रहन् ते त्वदर्थं यः पुमान् गभीरा गभीराणि सवनानि सोमान् सुनोति आधावतिच त्वां स्तुतिभिरुपधावतिच सवीरइन्द्रेण हेतुना अप्रतिष्कुतः केनाप्यप्रतिगतः अप्रतिशब्दितोवाभवेत् नृभिः परिचारकैः शूशुवे उपगम्यतेच श्वयतिर्गतिकर्मा ॥ ६ ॥
भवा॒ वरू᳚थं मघवन्म॒घोनां॒ यत्स॒मजा᳚सि॒ शर्ध᳚तः ।
वि त्वाह᳚तस्य॒ वेद᳚नं भजेम॒ह्या दू॒णाशो᳚ भरा॒ गय᳚म् ॥
भव᳚ । वरू᳚थम् । म॒घ॒॑व॒न् । म॒घोना᳚म् । यत् । स॒म्॑अजा᳚सि । शर्ध᳚तः ।
वि । त्वा॑ह᳚तस्य । वेद᳚नम् । भ॒जे॒म॒हि॒ । आ । दुः॒॑नशः᳚ । भ॒र॒ । गय᳚म् ॥
हे मघवन् धनवन्निन्द्र मघोनां हविष्मतां वरूथं उपद्रवाणां वारकं वर्म भव यद्यस्त्वं शर्धत उत्सहमानान् शत्रून् समजासि संप्रेरयेः अपि च त्वा हतस्य त्वया हतस्य शत्रोः वेदनं धनं विभजेमहि विशेषेण लभेमहि । किं च दुर्नशोनाशयितुमशक्यस्त्वं गयं गृहं धनं वा आभर अस्मभ्यमाहर ॥ ७ ॥
सु॒नोता᳚ सोम॒पाव्ने॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ ।
पच᳚ता प॒क्तीरव᳚से कृणु॒ध्वमित्पृ॒णन्नित्पृ᳚ण॒ते मयः᳚ ॥
सु॒नोत᳚ । सो॒म॒॑पाव्ने᳚ । सोम᳚म् । इन्द्रा᳚य । व॒ज्रिणे᳚ ।
पच᳚त । प॒क्तीः । अव᳚से । कृ॒णु॒ध्वम् । इत् । पृ॒णन् । इत् । पृ॒ण॒ते । मयः᳚ ॥
हे मदीयाः पुरुषाः वज्रिणे सोमपान्ने सोमस्यपात्रे इन्द्राय सोमं सुनोत अभिषुणुत अवसे इन्द्रं तर्पयितुं पक्तीः पक्तव्यान् पुरोडाशादीन् पचत च कृणुध्वमित् इन्द्रप्रियकराणि कर्माणि च कुरुतैव । इन्द्रो हि मयः सुखं पृणन्नित् यजमानय प्रयच्छन्नेव पृणते हवींषीति शेषः ॥ ८ ॥
मा स्रे᳚धत सोमिनो॒ दक्ष᳚ता म॒हे कृ᳚णु॒ध्वं रा॒य आ॒तुजे᳚ ।
त॒रणि॒रिज्ज᳚यति॒ क्षेति॒ पुष्य᳚ति॒ न दे॒वासः᳚ कव॒त्नवे᳚ ॥
मा । स्रे॒ध॒त॒ । सो॒मि॒नः॒ । दक्ष᳚त । म॒हे । कृ॒णु॒ध्वम् । रा॒ये । आ॒॑तुजे᳚ ।
त॒रणिः᳚ । इत् । ज॒य॒ति॒ । क्षेति᳚ । पुष्य᳚ति । न । दे॒वासः᳚ । क॒व॒त्नवे᳚ ॥
हे मदीयाः जनाः सोमिनः सोमवतोयागात् मास्रेधत माहिंसिष्ट । दक्षत यागादिकं कर्तुमुत्सहध्वं च । महे महते आतुजे तुजिर्हिं साकर्मा दानकर्मा वा शत्रूणामभिहिंसकाय धनानां प्रदात्रेवेन्द्राय राये धनार्थं कृणुध्वं कर्माणि कुरुतच । तरणिरित् कर्मसु त्वरितएव जयति शत्रून् क्षेति गृहे निवसति च पुष्यति प्रजया पशुभिश्च पुष्टो भवति कवत्नवे कुत्सितक्रियायै कवोपसृष्टस्य अतेः सातस्यगमनकर्मणोरूपं कवत्नुरिति । देवासो देवानभवन्तीतिशेषः सुखप्राप्तये भवन्तीत्यर्थः ॥ ९ ॥
नकि᳚ः सु॒दासो॒ रथं॒ पर्या᳚स॒ न री᳚रमत् ।
इन्द्रो॒ यस्या᳚वि॒ता यस्य᳚ म॒रुतो॒ गम॒त्स गोम᳚ति व्र॒जे ॥
नकिः᳚ । सु॒॑दासः᳚ । रथ᳚म् । परि᳚ । आ॒स॒ । न । री॒र॒म॒त् ।
इन्द्रः᳚ । यस्य᳚ । अ॒वि॒ता । यस्य᳚ । म॒रुतः᳚ । गम᳚त् । सः । गो॑म᳚ति । व्र॒जे ॥
सुदासः शोभनदानस्य यजमानस्य रथं नकिः पर्यास कश्चिन्नपर्यस्यति नरीरमत् नरमयति च आत्मार्थं नकश्चिदेनं गृह्णातीत्यर्थः । अपि च यस्येन्द्रोविता रक्षिता यस्य च मरुतोवितारः सगोमति गोयुक्ते व्रजे गोष्ठे गमत् गच्छेत् ॥ १० ॥
गम॒द्वाजं᳚ वा॒जय᳚न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम᳚वि॒ता भुवः᳚ ।
अ॒स्माकं᳚ बोध्यवि॒ता रथा᳚नाम॒स्माकं᳚ शूर नृ॒णाम् ॥
गम᳚त् । वाज᳚म् । वा॒जय᳚न् । इ॒न्द्र॒ । मर्त्यः᳚ । यस्य᳚ । त्वम् । अ॒वि॒ता । भुवः᳚ ।
अ॒स्माक᳚म् । बो॒धि॒ । अ॒वि॒ता । रथा᳚नाम् । अ॒स्माक᳚म् । शू॒र॒ । नृ॒णाम् ॥
हे इन्द्र त्वं यस्य मर्त्यस्य अविता रक्षिता भुवः भवेः समर्त्यो वाजयन् स्तोत्रेण त्वां बलिनं कुर्वन् वाजमन्नं गमत् गच्छेत् अपि च हे शूर अस्माकं वासिष्ठानां स्थानां अविता रक्षिता बोधि भव भवतेर्लोटिरूपं भकारस्यबकारश्छान्दसः अस्माकं नृणां पुत्रादीनां चाविता भव ॥ ११ ॥
उदिन्न्व᳚स्य रिच्य॒तें॑शो॒ धनं॒ न जि॒ग्युषः᳚ ।
य इन्द्रो॒ हरि᳚वा॒न्न द᳚भन्ति॒ तं रिपो॒ दक्षं᳚ दधाति सो॒मिनि᳚ ॥
उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंशः᳚ । धन᳚म् । न । जि॒ग्युषः᳚ ।
यः । इन्द्रः᳚ । हरि᳚॑वान् । न । द॒भ॒न्ति॒ । तम् । रिपः᳚ । दक्ष᳚म् । द॒धा॒ति॒ । सो॒मिनि᳚ ॥
अस्येन्द्रस्य अंशो यज्ञे सोमस्य भागोतिरिच्यते अन्येभ्योपि देवेभ्यः इन्द्रस्य त्रिष्वपि सवनेषु सोमपानमस्ति माध्यंदिनं हि सर्वमैन्द्र- मिति जिग्युषोजितवतो धनं न धनमिव अदिन्न्विति त्रयःपूरणाः अपि च योहरिवानिन्द्रः सोमिनि यजमाने दक्षं बलं दधाति संदधाति तं रिपोरिपवोनदभन्ति नहिंसन्ति ॥ १२ ॥
मन्त्र॒मख᳚र्वं॒ सुधि᳚तं सु॒पेश᳚सं॒ दधा᳚त य॒ज्ञिये॒ष्वा ।
पू॒र्वीश्च॒न प्रसि᳚तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म᳚णा॒ भुव᳚त् ॥
मन्त्र᳚म् । अख᳚र्वम् । सु॑धि᳚तम् । सु॒॑पेश᳚सम् । दधा᳚त । य॒ज्ञिये᳚षु । आ ।
पू॒र्वीः । च॒न । प्र॑सि᳚तयः । त॒र॒न्ति॒ । तम् । यः । इन्द्रे᳚ । कर्म᳚णा । भुव᳚त् ॥
हे जनाः अखर्वं अनल्पं सुधितं सुविहितं सुपेशसं शोभनरूपं मंत्रं स्तोत्रं यज्ञियेषु यजनीयेषु देवेषु मध्ये इन्द्राय दधात विधत्त यो जनः कर्मणा स्तुत्यादिरूपेण इन्द्रे इन्द्रस्य चित्ते भुवत् भवेत् तं जनं पूर्वीर्बह्व्यः प्रसितयः पाशादीनि बंधनानि चनेति समुदायोत्यर्थे वर्तते नतरन्ति नव्याप्नुवन्ति इत्यर्थः ॥ १३ ॥
कस्तमि᳚न्द्र॒ त्वाव᳚सु॒मा मर्त्यो᳚ दधर्षति ।
श्र॒द्धा इत्ते᳚ मघव॒न्पार्ये᳚ दि॒वि वा॒जी वाजं᳚ सिषासति ॥
कः । तम् । इ॒न्द्र॒ । त्वा॑व᳚सुम् । आ । मर्त्यः᳚ । द॒ध॒र्ष॒ति॒ ।
श्र॒द्धा । इत् । ते॒ । म॒घ॒॑व॒न् । पार्ये᳚ । दि॒वि । वा॒जी । वाज᳚म् । सि॒सा॒स॒ति॒ ॥
हे इन्द्र तव चित्ते योभवेत् त्वावसुं त्वंवसुर्व्यापकोयस्येति बहुव्रीहिः तं जनं कोमर्त्यआदधर्षति आधर्षेत् मघवन् ते त्वदर्थं यः श्रद्धाइत् श्रद्धया युक्तः सन् वाजी हविष्मान् भवेत् पार्येदिवि सौत्येहनि वाजमन्नं बलं वासिषासति सेवते ॥ १४ ॥
म॒घोनः᳚ स्म वृत्र॒हत्ये᳚षु चोदय॒ ये दद᳚ति प्रि॒या वसु᳚ ।
तव॒ प्रणी᳚ती हर्यश्व सू॒रिभि॒र्विश्वा᳚ तरेम दुरि॒ता ॥
म॒घोनः᳚ । स्म॒ । वृ॒त्र॒॑हत्ये᳚षु । चो॒द॒य॒ । ये । दद᳚ति । प्रि॒या । वसु᳚ ।
तव᳚ । प्र॑नी᳚ती । ह॒रि॒॑अ॒श्व॒ । सू॒रि॑भिः᳚ । विश्वा᳚ । त॒रे॒म॒ । दुः॒॑इ॒ता ॥
हे इन्द्र मघोनोधनवतस्ते त्वदर्थमित्यर्थः प्रिया प्रियाणि वसु वसूनि धनानि ये जनाः ददति प्रयच्छन्ति स्मेतिपूरणः तान् जनान् वृत्रह- त्येषु संग्रामेषु चोदय प्रेरय हे हर्यश्व तवप्रणीती प्रणीत्या प्रणयनेन सूरिभिः स्तोतृभिः पुत्रादिभिः सार्धं विश्वा विश्वानि दुरिता दुरितानि तरेम ॥ १५ ॥
तवेदि᳚न्द्राव॒मं वसु॒ त्वं पु᳚ष्यसि मध्य॒मम् ।
स॒त्रा विश्व᳚स्य पर॒मस्य᳚ राजसि॒ नकि᳚ष्ट्वा॒ गोषु᳚ वृण्वते ॥
तव᳚ । इत् । इ॒न्द्र॒ । अ॒व॒मम् । वसु᳚ । त्वम् । पु॒ष्य॒सि॒ । म॒ध्य॒मम् ।
स॒त्रा । विश्व᳚स्य । प॒र॒मस्य᳚ । रा॒ज॒सि॒ । नकिः᳚ । त्वा॒ । गोषु᳚ । वृ॒ण्व॒ते॒ ॥
हे इन्द्र अवमं अधमं त्रपुसीसादिकं वसु धनं यद्वा भौमंवस्ववमंतवेत् तवैव त्वं त्वमेव मध्यमं वसु रजतहिरण्यादिकं आन्तरिक्षं वा पुष्यसि विश्वस्य सर्वस्य परमस्योत्तमस्यापि रत्नादेर्दिव्यस्य वा वसुनो राजसि ईशिषे सत्रा सत्यमेव अपि च त्वा त्वां गोषु निमित्तेषु नकिर्वृण्वते केपि न वारयन्ति ॥ १६ ॥
त्वं विश्व᳚स्य धन॒दा अ᳚सि श्रु॒तो य ईं॒ भव᳚न्त्या॒जयः᳚ ।
तवा॒यं विश्व᳚ः पुरुहूत॒ पार्थि᳚वो॑व॒स्युर्नाम᳚ भिक्षते ॥
त्वम् । विश्व᳚स्य । ध॒न॒॑दाः । अ॒सि॒ । श्रु॒तः । ये । ई॒म् । भव᳚न्ति । आ॒जयः᳚ ।
तव᳚ । अ॒यम् । विश्वः᳚ । पु॒रु॒॑हू॒त॒ । पार्थि᳚वः । अ॒व॒स्युः । नाम᳚ । भि॒क्ष॒ते॒ ॥
हे इन्द्र त्वं विश्वस्य सर्वस्य स्तोतुर्यजमानस्य वा धनदाः धनस्य दाता सन् श्रुतःप्रसिद्धोसि यईं यएते आजयो युद्धानि भवन्ति तेष्वपि धनदाः श्रुतोसि हे पुरुहूत विश्वः सर्वोप्ययं पार्थिवो जनः तव त्वत्तइत्यर्थः अवस्युः रक्षामिच्छन् नाम अन्नमुदकं वा बर्हिः नामेत्युदकः नामसु पाठात् भिक्षते याचते त्वामेवेतिशेषः ॥ १७ ॥
यदि᳚न्द्र॒ याव᳚त॒स्त्वमे॒ताव᳚द॒हमीशी᳚य ।
स्तो॒तार॒मिद्दि᳚धिषेय रदावसो॒ न पा᳚प॒त्वाय᳚ रासीय ॥
यत् । इ॒न्द्र॒ । याव᳚तः । त्वम् । ए॒ताव᳚त् । अ॒हम् । ईशी᳚य ।
स्तो॒तार᳚म् । इत् । दि॒धि॒षे॒य॒ । र॒द॒व॒सो॒ इति᳚ रद॑वसो । न । पा॒प॒॑त्वाय᳚ । रा॒सी॒य॒ ॥
हे इन्द्र यद्यतो यावतो धनस्य त्वं ईशिषे एतावत् षष्ठ्यालुक् एतावतोधनस्याहमीशीय ईश्वरो भवेयं हे रदवसो रदति ददाति वसूनीति रदवसुः ततोहमस्मदीयस्तोतारमिद्दिधिषेय धनप्रदानेन धारयेयमेव पापत्वाय नरासीय नदद्याम् ॥ १८ ॥
शिक्षे᳚य॒मिन्म᳚हय॒ते दि॒वेदि᳚वे रा॒य आ कु᳚हचि॒द्विदे᳚ ।
न॒हि त्वद॒न्यन्म᳚घवन्न॒ आप्यं॒ वस्यो॒ अस्ति᳚ पि॒ता च॒न ॥
शिक्षे᳚यम् । इत् । म॒ह॒॑य॒ते । दि॒वे॑दि᳚वे । रा॒यः । आ । कु॒ह॒चि॒त्॑विदे᳚ ।
नहि । त्वत् । अ॒न्यत् । म॒घ॒॑व॒न् । नः॒ । आप्य᳚म् । वस्यः᳚ । अस्ति᳚ । पि॒ता । च॒न ॥
कुहचिद्विदे कुत्रचिद्विद्यमानः कुहचिद्वित् तस्मै यत्र क्वापि विद्यमानायेत्यर्थः महयते पूजयते जनाय दिवेदिवे प्रतिदिनं रायो धनानि शिक्षेयमित् दद्यामेव आकारः पूरणः । एवमिन्द्रस्य वाक्यं श्रुत्वा संतुष्टऋषिर्वदति हे मघवन् त्वत् त्वत्तोन्यत् नः अस्माकं आप्यं ज्ञातेयं नह्यस्ति वस्यः प्रशस्यः पिताचन पालयिताच त्वदन्योनास्तीत्यर्थः ॥ १९ ॥
त॒रणि॒रित्सि᳚षासति॒ वाजं॒ पुरं᳚ध्या यु॒जा ।
आ व॒ इन्द्रं᳚ पुरुहू॒तं न᳚मे गि॒रा ने॒मिं तष्टे᳚व सु॒द्र्व᳚म् ॥
त॒रणिः᳚ । इत् । सि॒सा॒स॒ति॒ । वाज᳚म् । पुर᳚म्॑ध्या । यु॒जा ।
आ । वः॒ । इन्द्र᳚म् । पु॒रु॒॑हू॒तम् । न॒मे॒ । गि॒रा । ने॒मिम् । तष्टा᳚॑इव । सु॒॑द्र्व᳚म् ॥
तरणिरित् स्तुत्यादौ कर्मणि त्वरितएव पुमान् पुरंध्या महत्या धिया युजा सहायभूतया वाजमन्नं सिषासति संभजते पुरुहूतं बहुभिरा- हूतमिन्द्रं वःत्वांगिरास्तुत्या अहं आनमे नेमिं चक्रस्य वलयं सुद्र्वं शोभनदारुं तष्टेव यथावर्धकिः दारुनेमिं आनमयते तद्वदित्यर्थः ॥ २० ॥
न दु᳚ष्टु॒ती मर्त्यो᳚ विन्दते॒ वसु॒ न स्रेध᳚न्तं र॒यिर्न᳚शत् ।
सु॒शक्ति॒रिन्म᳚घव॒न्तुभ्यं॒ माव᳚ते दे॒ष्णं यत्पार्ये᳚ दि॒वि ॥
न । दुः॒॑स्तु॒ती । मर्त्यः᳚ । वि॒न्द॒ते॒ । वसु᳚ । न । स्रेध᳚न्तम् । र॒यिः । न॒श॒त् ।
सु॒॑शक्तिः᳚ । इत् । म॒घ॒॑व॒न् । तुभ्य᳚म् । मा॑व᳚ते । दे॒ष्णम् । यत् । पार्ये᳚ । दि॒वि ॥
मर्त्यो मनुष्यो दुष्टुती दुष्टुत्या वसु धनं न विन्दते इन्द्रं स्तुवन्नेव वसु लभतइत्यर्थः स्रेधन्तं हिंसन्तं इन्द्रविषयस्तुत्यादि कर्माण्यकुर्वन्तं इत्यर्थः रयिः धनं न नशत् नव्याप्नोति । हे मघवन् त्वया पार्ये दिवि सौत्ये दिवसे मावते मत्सदृशाय देष्णं दातव्यं यद्धनमस्ति तत्तुभ्यं त्वत्तः सुशक्तिरित् सुकर्मैव विंदत इति व्यवहितमप्यनुषज्यते अध्याहारस्यान्तिकत्वात् ॥ २१ ॥
अ॒भि त्वा᳚ शूर नोनु॒मो॑दु᳚ग्धा इव धे॒नवः᳚ ।
ईशा᳚नम॒स्य जग᳚तः स्व॒र्दृश॒मीशा᳚नमिन्द्र त॒स्थुषः᳚ ॥
अ॒भि । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु᳚ग्धाः॑इव । धे॒नवः᳚ ।
ईशा᳚नम् । अ॒स्य । जग᳚तः । स्वः॒॑दृश᳚म् । ईशा᳚नम् । इ॒न्द्र॒ । त॒स्थुषः᳚ ॥
हे शूरेन्द्र अस्य जगतो जंगमस्येशानमीश्वरं तस्थुषः स्थावरस्य चेशानं ईशानमिति पदस्यावृत्तिरादरार्था स्वर्दृशं सर्वदृशं त्वा त्वां अदु- ग्धाइव धेनवः यथा अदुग्धा धेनवः क्षीरपूर्णोधस्त्वेन वर्तन्ते तद्वत्सोमपूर्णचमसत्वेन वर्तमानावयं अभिनोनुमो भ्रुशमभिष्टुमः ॥ २२ ॥
न त्वावा{4}᳚ अ॒न्यो दि॒व्यो न पार्थि᳚वो॒ न जा॒तो न ज᳚निष्यते ।
अ॒श्वा॒यन्तो᳚ मघवन्निन्द्र वा॒जिनो᳚ ग॒व्यन्त᳚स्त्वा हवामहे ॥
न । त्वा॑वा᳚न् । अ॒न्यः । दि॒व्यः । न । पार्थि᳚वः । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ ।
अ॒श्व॒॑यन्तः᳚ । म॒घ॒॑व॒न् । इ॒न्द्र॒ । वा॒जिनः᳚ । ग॒व्यन्तः᳚ । त्वा॒ । ह॒वा॒म॒हे॒ ॥
हे मघवन् इन्द्र दिव्यो दिविभवः त्वावान् त्वत्सदृशोन्यो न जायते पार्थिवः पृथिव्यां भवोपि त्वावानन्यो नजायते दिव्यः पार्थिवोवा त्वावानन्योनजातः नचजनिष्यते पृथिव्यां दिविच त्रिष्वपि लोकेषु त्वत्सदृशः कश्चिन्नास्तीत्यर्थः । अश्वायन्तोश्वानिच्छन्तो वाजिनो वाजमिच्छन्तः इच्छायामिनिप्रत्ययः हविष्मन्तोवा गव्यन्तोगाइच्छन्तश्च वयं त्वा त्वां हवामहे ह्वयामः ॥ २३ ॥
अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्याय॒ः कनी᳚यसः ।
पु॒रू॒वसु॒र्हि म᳚घवन्त्स॒नादसि॒ भरे᳚भरे च॒ हव्य᳚ः ॥
अ॒भि । स॒तः । तत् । आ । भ॒र॒ । इन्द्र᳚ । ज्यायः᳚ । कनी᳚यसः ।
पु॒रु॒॑वसुः᳚ । हि । म॒घ॒॑व॒न् । स॒नात् । असि᳚ । भरे᳚॑भरे । च॒ । हव्यः᳚ ॥
हे ज्यायो ज्यायन्निन्द्र आमंमित्रितं पूर्वविद्यमानवदिति इन्द्रपदस्याविद्यमानवद्भावात् ज्यायइत्यस्य सर्वानुदात्तत्वाभावः नकारस्यरुत्वं व्यत्ययान्नुमभावोवा । कनीयसः सतो मम तत्प्रसिद्धं धनं अभ्याभर हे मघवन् त्वं सनाच्चिरादेवारभ्य पुरूवसुर्हि बहुधनोह्यसि भरेभरे संग्रामे यज्ञेवा हव्यः आह्वातव्यः हविष्यश्चासि ॥ २४ ॥
परा᳚ णुदस्व मघवन्न॒मित्रा᳚न्त्सु॒वेदा᳚ नो॒ वसू᳚ कृधि ।
अ॒स्माकं᳚ बोध्यवि॒ता म᳚हाध॒ने भवा᳚ वृ॒धः सखी᳚नाम् ॥
परा᳚ । नु॒द॒स्व॒ । म॒घ॒॑व॒न् । अ॒मित्रा᳚न् । सु॒॑वेदा᳚ । नः॒ । वसु᳚ । कृ॒धि॒ ।
अ॒स्माक᳚म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒॑ध॒ने । भव᳚ । वृ॒धः । सखी᳚नाम् ॥
हे मघवन् परा पराचीनानमित्रान् शत्रून् नुदस्व प्रेरय नोस्मभ्यं वसु वसूनि सुवेदा सुलभानि कृधि कुरु । महाधने संग्रामे वाजसातौ महाधनइति संग्रामनामसु पाठात् सखीनां स्तोतॄणामस्माकं वसिष्ठानामविता रक्षिता बोधि भव वृधोवर्धयिता च भव ॥ २५ ॥
इन्द्र॒ क्रतुं᳚ न॒ आ भ᳚र पि॒ता पु॒त्रेभ्यो॒ यथा᳚ ।
शिक्षा᳚ णो अ॒स्मिन्पु᳚रुहूत॒ याम᳚नि जी॒वा ज्योति᳚रशीमहि ॥
इन्द्र᳚ । क्रतु᳚म् । नः॒ । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः᳚ । यथा᳚ ।
शिक्ष᳚ । नः॒ । अ॒स्मिन् । पु॒रु॒॑हू॒त॒ । याम᳚नि । जी॒वाः । ज्योतिः᳚ । अ॒शी॒म॒हि॒ ॥
हे इन्द्र नोस्मभ्यं क्रतुं कर्म प्रज्ञानं वा आभर आहर । अपि च यथा पिता पुत्रेभ्योधनं प्रयच्छति तथा नोस्मभ्यं शिक्ष धनं देहि । हे पुरुहूत बहूभिराहूत अस्मिन् यामनि यज्ञे जीवाः वयं ज्योतिः सूर्यमशीमहि प्रतिदिनं प्राप्नुयाम ॥ २६ ॥
मा नो॒ अज्ञा᳚ता वृ॒जना᳚ दुरा॒ध्यो॒३॒᳚ माशि᳚वासो॒ अव᳚ क्रमुः ।
त्वया᳚ व॒यं प्र॒वत॒ः शश्व᳚तीर॒पो॑ति᳚ शूर तरामसि ॥
मा । नः॒ । अज्ञा᳚ताः । वृ॒जनाः᳚ । दुः॒॑आ॒ध्यः᳚ । मा । अशि᳚वासः । अव᳚ । क्र॒मुः॒ ।
त्वया᳚ । व॒यम् । प्र॒॑वतः᳚ । शश्व᳚तीः । अ॒पः । अति᳚ । शू॒र॒ । त॒रा॒म॒सि॒ ॥
हे इन्द्र अज्ञाताः अज्ञातगमनाः वृजनाः हिंसकाः दुराध्यः अशिवासः नोस्मान् मावक्रमुः मावचक्रमुः हे शूर त्वया वयं वसिष्ठाः प्रवतः प्रवणकाः संतः शश्वतीर्बह्वीरपोतितरामसि अतितरामः ॥ २७ ॥
श्वित्यंचइति चतुर्दशर्चं षोडशं सूक्तं अत्रेयमनुक्रमणिका-श्वित्यंचः षळूनासंस्तवोवसिष्ठस्य सपुत्रस्येन्द्रेणवासंवादइति । आदितो नवानां वसिष्ठऋषिः वसिष्ठपुत्राणां स्तूयमानत्वात् तएवदेवता विद्युतोज्योतिरित्यादिभिः दशम्यादिभिः सपुत्रैर्वसिष्ठःस्तूयते अतोव- सिष्ठोदेवता तएवऋषयः यातेनोच्यतइतिन्यायात् अनुक्तत्वान्त्रिष्टुप् ।