सप्तमं मण्डलम् - सूक्तम् 60

12 ऋचः

ऋषिः: वसिष्ठः देवता: सूर्यः छन्दः: त्रिष्टुप्

सूक्तम् 7.60 - सम्पूर्णम्

1 / 12
ऋक्: 7.60.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
7.60.1
यद॒द्य सू᳚र्य॒ ब्रवो॑ना᳚गा उ॒द्यन्मि॒त्राय॒ वरु᳚णाय स॒त्यम् ।
व॒यं दे᳚व॒त्रादि᳚ते स्याम॒ तव᳚ प्रि॒यासो᳚ अर्यमन्गृ॒णन्त᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒द्य । सू॒र्य॒ । ब्रवः᳚ । अना᳚गाः । उ॒त्॑यन् । मि॒त्राय᳚ । वरु᳚णाय । स॒त्यम् ।
व॒यम् । दे॒व॒॑त्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव᳚ । प्रि॒यासः᳚ । अ॒र्य॒म॒न् । गृ॒णन्तः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममेतमहंवंदे विद्यातीर्थमहेश्वरम् ॥ १ ॥

व्याख्यायनिगमाभिज्ञः पञ्चमस्यचतुर्थकम् । अध्यायंसायणाचार्यः पञ्चमंव्याकरोत्यथ ॥ २ ॥

तत्र यदद्यसूर्येति द्वादशर्चं पञ्चमं सूक्तम् अत्रानुक्रमणिका-यदद्य मैत्रावरुणन्तु वै सौर्याद्येति । मण्डलद्रष्टा वसिष्ठऋषिः अनुक्तत्वात् त्रिष्टुप् छन्दः तु वै इत्युक्तत्वादेतदादीनि सप्तसूक्तानि मित्रावरुणदेवत्यानि आद्यासूर्यदेवस्या विनियोगोलैङ्गिकः ।

हे सूर्य सर्वस्यप्रेरक एतन्नामकदेव उद्यन् उदयंस्त्वं यद्यदि अद्यास्मिन् अनुष्ठानकालेस्मान् ब्रवः ब्रूयाः । किमिति अनागाः अनागसइति एते अपापाइति यदि देवेषु मध्ये ब्रूयाः तर्हि वयं हे अदिते अदीनदेव देवत्रा देवेषु देवानां मध्ये मित्राय वरुणाय च सत्वं अवितथं स्याम अनागसोभवेम । किञ्च हे अर्यमन् दातः त्वां गृणन्तः स्तुवन्तः तव प्रियासः प्रियाः स्याम त्वत्प्रेमविषयाभवेम । यद्वोत्तरार्धएकं वाक्यम् । हे अदिते हेअर्यमन् उक्तलक्षण देव वयं देवेषु मध्ये त्वां गृणन्तः तवैव प्रियाः स्याम यदि मां देवेष्वपापं ब्रूयास्तर्हि तैरयमनपराधीत्यनुगृ- हीतस्त्वां स्तुत्वा तव प्रियोभवेयमित्यर्थः ॥ १ ॥

7.60.2 समानपद
ए॒ष स्य मि᳚त्रावरुणा नृ॒चक्षा᳚ उ॒भे उदे᳚ति॒ सूर्यो᳚ अ॒भि ज्मन् ।
विश्व᳚स्य स्था॒तुर्जग᳚तश्च गो॒पा ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । स्यः । मि॒त्रा॒व॒रु॒णा॒ । नृ॒॑चक्षाः᳚ । उ॒भे इति᳚ । उत् । ए॒ति॒ । सूर्यः᳚ । अ॒भि । ज्मन् ।
विश्व᳚स्य । स्था॒तुः । जग᳚तः । च॒ । गो॒पाः । ऋ॒जु । मर्ते᳚षु । वृ॒जि॒ना । च॒ । पश्य᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणा मित्रावरुणौ एषः पुरतोदृश्यमानः स्यः सः सर्वस्तुत्यत्वे प्रसिद्धः नृचक्षः नृणां मनुष्याणां द्रष्टा सूर्यः उभे द्यावापृथिव्या- वभि अभिलक्ष्यउदेति ज्मन् अन्तरिक्षे गच्छन् सविशेष्यते विश्वस्य सर्वस्य स्थातुः स्थावरस्य जगतोजंगमस्यच गोपाः गोपायिता । किंकुर्वन् मर्तेषु मनुष्येषु स्थितानि ऋजु ऋजूनि सुकृतानि वृजिना वृजिनानि पापानि च पश्यन् ॥ २ ॥

7.60.3
अयु᳚क्त स॒प्त ह॒रितः᳚ स॒धस्था॒द्या ईं॒ वह᳚न्ति॒ सूर्यं᳚ घृ॒ताची᳚ः ।
धामा᳚नि मित्रावरुणा यु॒वाकु॒ः सं यो यू॒थेव॒ जनि᳚मानि॒ चष्टे᳚ ॥
▶ पदपाठः (Word-by-word)
अयु᳚क्त । स॒प्त । ह॒रितः᳚ । स॒ध॑स्था᳚त् । याः । ई॒म् । वह᳚न्ति । सूर्य᳚म् । घृ॒ताचीः᳚ ।
धामा᳚नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः᳚ । सम् । यः । यू॒था॑इ᳚व । जनि᳚मानि । चष्टे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुण मित्रावरुणौ युवयोरगमनाय सधस्थात् सहस्थानादन्तरिक्षादन्तरिक्षे सप्त सर्पणस्वभावान् तत्संख्याकान्वा हरितोहरिद्व- र्णानश्वानयुक्त युक्तवान् रथे हरितआदित्यस्येतिहिनिरुक्तम् । या हरित ईमेनं सूर्यं देवं घृताचीर्घृताञ्चना उदकवत्यः उदकप्रदाइत्यर्थः तादृश्यः सत्योवहन्ति ताअयुक्त । अथोदितः सन् धामानि स्थानानि लोकान् जनिमानि जन्मानि जन्मभाजः प्राणिनइत्यर्थः तांश्च युवाकुः युवां कामयमानोयोदेवः सञ्चष्टे सम्यक्पश्यति यूथेव गोयूथानीव यूथपाः सयथा सर्वयूथं तदवान्तरगोयुक्तिं च सम्यक् पश्यति तद्वत् लोकान्प्राणिनश्च पश्यति ॥ ३ ॥

7.60.4
उद्वां᳚ पृ॒क्षासो॒ मधु᳚मन्तो अस्थु॒रा सूर्यो᳚ अरुहच्छु॒क्रमर्ण᳚ः ।
यस्मा᳚ आदि॒त्या अध्व᳚नो॒ रद᳚न्ति मि॒त्रो अ᳚र्य॒मा वरु᳚णः स॒जोषा᳚ः ॥
▶ पदपाठः (Word-by-word)
उत् । वा॒म् । पृ॒क्षासः᳚ । मधु᳚॑मन्तः । अ॒स्थुः॒ । आ । सूर्यः᳚ । अ॒रु॒ह॒त् । शु॒क्रम् । अर्णः᳚ ।
यस्मै᳚ । आ॒दि॒त्याः । अध्व᳚नः । रद᳚न्ति । मि॒त्रः । अ॒र्य॒मा । वरु᳚णः । स॒॑जोषाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ वां युवयोरर्थाय पृक्षासोन्नानि चरुपुरोडाशादीनि मधुमन्तोमाधुर्योपेतानि तत्साधनान्योषध्यादीनिवा उदस्थुः संपादिता- न्यासन् सूर्यश्च शुक्रं दीप्तं अर्णः अर्णवमन्तरिक्षं आरुहत् आरोहति यस्मै सूर्याय तद्गमनार्थमादित्याअदितेः पुत्रादेवा अध्वनोमार्गान् रदन्ति विलिखन्ति साधयन्ति । के ते मित्रः अर्यमा वरुणश्चैते त्रयोपि देवाः सजोषसः समानप्रीतयः सन्तः सदेव आरुहदिति ॥ ४ ॥

7.60.5
इ॒मे चे॒तारो॒ अनृ᳚तस्य॒ भूरे᳚र्मि॒त्रो अ᳚र्य॒मा वरु᳚णो॒ हि सन्ति᳚ ।
इ॒म ऋ॒तस्य᳚ वावृधुर्दुरो॒णे श॒ग्मासः᳚ पु॒त्रा अदि᳚ते॒रद᳚ब्धाः ॥
▶ पदपाठः (Word-by-word)
इ॒मे । चे॒तारः᳚ । अनृ᳚तस्य । भूरेः᳚ । मि॒त्रः । अ॒र्य॒मा । वरु᳚णः । हि । सन्ति᳚ ।
इ॒मे । ऋ॒तस्य᳚ । व॒वृ॒धुः॒ । दु॒रो॒णे । श॒ग्मासः᳚ । पु॒त्राः । अदि᳚तेः । अद᳚ब्धाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे मित्रःअर्यमा वरुणश्च त्रयोपि अनृतस्य पापस्य भूरेः प्रभूतस्य चेतारोहन्तारः सन्ति भवन्ति हि इमे मित्रादय ऋतस्य यज्ञस्य दुरोणे गृहे ववृधुः बर्धन्ते हविषा स्तुत्याच कीदृशास्ते शग्मासः सुखकराः अदितेः पुत्राः अदब्धा अहिंसिताः ॥ ५ ॥

7.60.6
इ॒मे मि॒त्रो वरु᳚णो दू॒ळभा᳚सो॑चे॒तसं᳚ चिच्चितयन्ति॒ दक्षै᳚ः ।
अपि॒ क्रतुं᳚ सु॒चेत᳚सं॒ वत᳚न्तस्ति॒रश्चि॒दंहः᳚ सु॒पथा᳚ नयन्ति ॥
▶ पदपाठः (Word-by-word)
इ॒मे । मि॒त्रः । वरु᳚णः । दुः॒॑दभा᳚सः । अ॒चे॒तस᳚म् । चि॒त् । चि॒त॒य॒न्ति॒ । दक्षैः᳚ ।
अपि᳚ । क्रतु᳚म् । सु॒चेत᳚सम् । वत᳚न्तः । ति॒रः । चि॒त् । अंहः᳚ । सु॒॑पथा᳚ । न॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे आदित्याः मित्रोवरुणश्च एतत् द्वयं अर्यम्णोप्युपलक्षणं एते दूळभासः कुर्लभाः अनभिभाव्याः अचेतसञ्चित् अप्रज्ञानं अनुष्ठानवि- षयज्ञानरहितमपि दक्षैः सामर्थ्यैः चितयन्ति अपि सुचेतसं प्रकृष्टज्ञानवन्तं पुरुषं क्रतुं कर्तारं कर्मानुष्ठानवन्तं वतन्तः गच्छन्तः अंहोदु- ष्कृतं तिरश्चित् तिरोनयन्तोस्मान् सुपथा शोभनमार्गेण नयन्ति प्रापयन्ति अभिमतं यज्ञं स्वर्गादिकं वा ॥ ६ ॥

7.60.7
इ॒मे दि॒वो अनि᳚मिषा पृथि॒व्याश्चि᳚कि॒त्वांसो᳚ अचे॒तसं᳚ नयन्ति ।
प्र॒व्रा॒जे चि᳚न्न॒द्यो᳚ गा॒धम᳚स्ति पा॒रं नो᳚ अ॒स्य वि᳚ष्पि॒तस्य᳚ पर्षन् ॥
▶ पदपाठः (Word-by-word)
इ॒मे । दि॒वः । अनि᳚॑मिषा । पृ॒थि॒व्याः । चि॒कि॒त्वांसः᳚ । अ॒चे॒तस᳚म् । न॒य॒न्ति॒ ।
प्र॒॑व्रा॒जे । चि॒त् । न॒द्यः᳚ । गा॒धम् । अ॒स्ति॒ । पा॒रम् । नः॒ । अ॒स्य । वि॒ष्पि॒तस्य᳚ । प॒र्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमे मित्रादयोदिवोद्युलोकस्य पृथिव्याश्च संबन्धिनः अनिमिषा अनिमिषेण सर्वदा चिकित्वांसोजानन्तः कं अचेतसं अज्ञानं नयन्ति प्रापयन्ति कर्माणि प्रव्राजेचित् प्रवणेपि अत्यन्तनिम्नेपि देशे न्द्योनद्याः गाधमस्ति भवति युष्मत्सामर्थ्यात् ते महान्तोनोस्माकं अस्य विष्पितस्य व्यापितस्य कर्मणः पारं पर्षन् पारयन्तु नयन्तु ॥ ७ ॥

7.60.8 समानपद
यद्गो॒पाव॒ददि᳚ति॒ः शर्म᳚ भ॒द्रं मि॒त्रो यच्छ᳚न्ति॒ वरु᳚णः सु॒दासे᳚ ।
तस्मि॒न्ना तो॒कं तन᳚यं॒ दधा᳚ना॒ मा क᳚र्म देव॒हेळ᳚नं तुरासः ॥
▶ पदपाठः (Word-by-word)
यत् । गो॒पाव᳚त् । अदि᳚तिः । शर्म᳚ । भ॒द्रम् । मि॒त्रः । यच्छ᳚न्ति । वरु᳚णः । सु॒॑दासे᳚ ।
तस्मि᳚न् । आ । तो॒कम् । तन᳚यम् । दधा᳚नाः । मा । क॒र्म॒ । दे॒व॒॑हेळ᳚नम् । तु॒रा॒सः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यच्छर्मसुखं गृहं वा गोपावत् रक्षणोपेतं भद्रं स्तुत्यं अदितिरदिनोर्यमा अदितिवा मित्रोवरुणश्चैतेत्रयोदेवाः सुदासे सुदानाय मह्यं यच्छ- न्ति प्रयच्छन्ति तस्मिन् शर्मणि तोकं पुत्रं तनयं तत्पुत्रादिकं अथवा तनयशब्दोपत्यसामान्यवचनः तोकं बलवन्तं पुत्रं आसर्वतोदधानाः धारयन्तोवयं हे तुरासोगमनाय त्वरमाणाः देवहेळनं देवानां मित्रादीनां कोपनं मा कर्म मा कार्ष्म ॥ ८ ॥

7.60.9 समानपद
अव॒ वेदिं॒ होत्रा᳚भिर्यजेत॒ रिप॒ः काश्चि᳚द्वरुण॒ध्रुत॒ः सः ।
परि॒ द्वेषो᳚भिरर्य॒मा वृ᳚णक्तू॒रुं सु॒दासे᳚ वृषणा उ लो॒कम् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । वेदि᳚म् । होत्रा᳚भिः । य॒जे॒त॒ । रिपः᳚ । काः । चि॒त् । व॒रु॒ण॒॑ध्रुतः᳚ । सः ।
परि᳚ । द्वेषः᳚॑भिः । अ॒र्य॒मा । वृ॒ण॒क्तु॒ । उ॒रुम् । सु॒॑दासे᳚ । वृ॒ष॒णौ॒ । ऊं॒ इति᳚ । लो॒कम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रादयः सोस्मत् द्वेषी वेदिं यागसाधनं होत्राभिः वाङ्नामैतत् वाग्रूपाभिः स्तुतिभिः सार्धं अवयजेत वेद्यां कर्माणि कुर्वन् देवान् न स्तुयादित्यर्थः अवपूर्वोयजतिस्त्यागार्थः सकिं प्राप्नुयादिति तत्राह वरुणध्रुतः वरुणेन त्वया हिंसितः सकाः कश्चिद्रिपोहिंसाः प्राप्नुयादिति शेषः । अस्मांस्त्वर्यमादेवोद्वेषोभिः द्वेष्टृभीरक्षःप्रभृतिभिः परिवृणक्तु वर्जयतु उरुं विस्तीर्णं लोकं स्थानं सुदासे शोभनदानाय मह्यं प्रय- च्छतं हे वृषणौ वर्षकौ कामानां मित्रावरुणौ उःपूरणः ॥ ९ ॥

7.60.10
स॒स्वश्चि॒द्धि समृ᳚तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒ सह᳚सा॒ सह᳚न्ते ।
यु॒ष्मद्भि॒या वृ᳚षणो॒ रेज᳚माना॒ दक्ष᳚स्य चिन्महि॒ना मृ॒ळता᳚ नः ॥
▶ पदपाठः (Word-by-word)
स॒स्वरिति᳚ । चि॒त् । हि । सम्॑ऋ᳚तिः । त्वे॒षी । ए॒षा॒म् । अ॒पी॒च्ये᳚न । सह᳚सा । सह᳚न्ते ।
यु॒ष्मत् । भि॒या । वृ॒ष॒णः॒ । रेज᳚मानाः । दक्ष᳚स्य । चि॒त् । म॒हि॒ना । मृ॒ळत᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषां मित्रादीनांसमृतिः संगतिः संहतिर्वा सस्वः अन्तार्हिता निगूढा त्वेषी दीप्ताच भवति तादृशाएते अपीच्येन एतदप्यन्तर्हितनाम निगूढेन सहसा बलेन सहन्ते अभि भवन्ति अस्मद्वेष्टृन् । किञ्च हे वृषणोभिमतवर्षकामित्रादयो युष्मद्युषमत्तोभिया भीत्या रेजमानाः कंपमानाभवन्ति विरोधिनः । यस्मादेवं तस्माद्दक्षस्य युष्माकं बलस्य महिना महिम्ना महत्त्वेन नोस्मभ्यं मृळत उपदयां कुरुत चिद्धि- पूरणौ ॥ १० ॥

7.60.11 समानपद
यो ब्रह्म᳚णे सुम॒तिमा॒यजा᳚ते॒ वाज᳚स्य सा॒तौ प᳚र॒मस्य᳚ रा॒यः ।
सीक्ष᳚न्त म॒न्युं म॒घवा᳚नो अ॒र्य उ॒रु क्षया᳚य चक्रिरे सु॒धातु᳚ ॥
▶ पदपाठः (Word-by-word)
यः । ब्रह्म᳚णे । सु॒॑म॒तिम् । आ॒॑यजा᳚ते । वाज᳚स्य । सा॒तौ । प॒र॒मस्य᳚ । रा॒यः ।
सीक्ष᳚न्त । म॒न्युम् । म॒घ॑वा᳚नः । अ॒र्यः । उ॒रु । क्षया᳚य । च॒क्रि॒रे॒ । सु॒॑धातु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योयजमानोब्रह्मणे परिवृढस्वकर्मणे युष्मत्स्तोत्ररूपाय सुमतिं शोभनां बुद्धिं आयजाते आयजते यजतिरत्रदाने ददाति करोति । किमर्थं वाजस्यान्नस्य सातौ दाने निमित्ते परमस्योत्कृष्टस्य रायोधनस्य च सातौ तस्य् अर्यः ईरयति स्तुतीः प्रेरयतीत्यरिः स्तोता तस्य मन्युं स्तोत्रं मघवानोदानवन्तोर्यमादयः सीक्षन्त सचन्ते सेवित्वाच तस्योरुक्षयाय विस्तीर्णनिवासाय सुधातु सुधाम शोभनस्थानं चक्रिरे कुर्वते ॥ ११ ॥

7.60.12
इ॒यं दे᳚व पु॒रोहि᳚तिर्यु॒वभ्यां᳚ य॒ज्ञेषु᳚ मित्रावरुणावकारि ।
विश्वा᳚नि दु॒र्गा पि᳚पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । दे॒वा॒ । पु॒रः॑हि᳚तिः । यु॒व॑भ्या᳚म् । य॒ज्ञेषु᳚ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ ।
विश्वा᳚नि । दुः॒॑गा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनया स्तुतिमुपसंहरति हे देवा देवौ मित्रावरुणौ युवभ्यां यज्ञेषु इयं पुरोहितिः पुरस्क्रिया पूजा स्तुतिलक्षणा अकारि कृताभूत् तां सेवित्वा विश्वानि सर्वाणि दुर्गा दुःहितिः पुरस्क्रिया पूजा स्तुतिलक्षणा अकारि कृताभूत् तां सेवित्वा विश्वानि सर्वाणि दुर्गा दुःखे- नगन्तव्यानि आपदः तिरः तिरस्कुरुतम तथा कुत्वा नोस्मान् पिपृतं पारयतं शिष्टोगतः ॥ १२ ॥

उद्वां चक्षुरिति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं मैत्रावरुणं उद्वांसप्तेत्यनुक्रमणिका विनियोगोलैंगिकः ।