य ई᳚म॒र्वाञ्चं॒ कर᳚ते॒ यज᳚त्रं स॒हस्रा᳚मघं॒ वृष᳚णं बृ॒हन्त᳚म् ॥
पदपाठः (Word-by-word)
यः । ई॒म् । अ॒र्वाञ्च᳚म् । कर᳚ते । यज᳚त्रम् । स॒हस्र᳚॑मघम् । वृष᳚णम् । बृ॒हन्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
ऋषिरात्मानमेव प्रत्यक्षीकृत्य स्तुतौ नियुंक्ते हे वसिष्ठ त्वं मीह्ळुषे सेत्र्के वरुणाय शुन्ध्युवं शोधयित्रीं यद्वा स्वतएव शुद्धां प्रेष्ठां प्रियतमां मतिं मननीयामीदृशीं स्तुतिं प्रभरस्व प्रहर प्रापय । योवरुणाः ईमेनं सूर्यं अर्वाञ्चं अस्मदभिमुखं करते अन्तरिक्षे करोति तस्मै वरुणा- येत्यन्वयः कीदृशं सूर्यं यजत्रं यष्टव्यं सहस्रामघं बहुधनं वृषणं कामानां वर्षकं बृहन्तं महान्तम् ॥ १ ॥