पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
हे अग्ने सुषमिधा शोभनया समिधा समिद्धोभव सम्यक् दीप्तोभव । उतापि च बर्हिरुर्विया विस्तीर्णं विस्तृणीतां उपस्तृणीतमध्वर्युः ॥ १ ॥
7 ऋचः
हे अग्ने सुषमिधा शोभनया समिधा समिद्धोभव सम्यक् दीप्तोभव । उतापि च बर्हिरुर्विया विस्तीर्णं विस्तृणीतां उपस्तृणीतमध्वर्युः ॥ १ ॥
उतापि च उशतीर्देवान् कामयमानाः द्वारो यज्ञगृहस्य देव्योवा तथा च यास्कः-द्वारोजवतेर्वा द्रवतेर्वा वारयतेर्वेति । विश्रयन्तां उतापिच उशतोयज्ञं कामयमानान् देवानिहयज्ञे आवह ॥ २ ॥
हे जातवेदः जातधनाग्ने वीहि देवानभिगच्छ हविषा देवान्यक्षि यजच स्वध्वरा स्वध्वरान् शोभनयज्ञांश्च कृणुहि कुरु ॥ ३ ॥
जातवेदाः जातधनोग्निः अमृतान् मरणरहितान् देवान् स्वध्वरा स्वध्वरान् शोभनयज्ञान् करति करोतु यक्षत् हविषा यजतु च पिप्रयत् स्तोत्रैः प्रीणयतुच ॥ ४ ॥
हे प्रचेतःप्रकृष्टमतिमन्नग्ने विश्वा विश्वानि वार्याणि वरणीयानि धनानि वंस्व अस्मभ्यं देहि नोस्माकमाशिषोद्य सत्यायथार्था भवन्तु ॥ ५ ॥
हे अग्ने ऊर्जोबलस्य नपातं पुत्रं सूनुः नपादित्यपत्यनामसु पाठात् त्वामु त्वामेव ते प्रसिद्धादेवासोदेवा हव्यवाहं हविषोवोढारं आदधिरे अकुर्वन्नित्यर्थः ॥ ६ ॥
हे अग्ने देवाय द्योतमानाय ते तुभ्यं ते प्रसिद्धा वसिष्ठावयं दाशतः हवींषि ददतः स्याम भवेम । अतोमहोमहांस्त्वं इयानः उपगम्यमानो याच्यमानोवा नोस्मभ्यं रत्ना रत्नानि रमणीयानि धनानि विदधः विधत्स्व ॥ ७ ॥
द्वितीयेनुवाके षोडश सूक्तानि तत्र त्वेहयत्पितरइति पंचविंशर्चं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमिन्द्रदेवताकं द्वाविंशादिभिश्चतसृभिः सुदासनाम्नोराज्ञो दानंस्तूयते अतस्तास्तद्देवताकाः अनुक्रम्यतेहि-त्वेहपंचाधिकैंद्रं सुदासः पैजवनस्य चतस्रोन्त्या दानस्तुतिरिति । महाव्रते आदितः पंचदशर्चः शंसनीयाः तथैव पंचमारण्यके सूत्रितं-त्वेहयत्पितरश्चिन्नइन्द्रेतिपंचदशेति ।