अश्वो॒ न वा॒जी शु॒नपृ᳚ष्ठो अस्था॒दा यत्से॒दथु᳚र्ध्रु॒वसे॒ न योनि᳚म् ॥
पदपाठः (Word-by-word)
अश्वः᳚ । न । वा॒जी । शु॒न॑पृ᳚ष्ठः । अ॒स्था॒त् । आ । यत् । से॒दथुः᳚ । ध्रु॒वसे᳚ । न । योनि᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे त्रिश्ववारा सर्वैर्वरणीयावश्विनाश्विनौ नोस्माकं यद्यागमागतमागच्छतं वां युवयोस्तत्स्थानं पृथिव्यां वेद्यां प्रावाचि प्रोच्यते तदर्थं शुनपृष्ठः सुखकरपृष्ठभागः अत्यन्तविपुलत्वादारूढानां सुखकरपृष्ठभागइत्यर्थः वाजी वेगवानश्वेन अश्वोस्थात् तिष्ठतु युवयोः समीपे यत् यमित्यर्थः यमश्वं आसेदथुरासीदथः सोश्वः यद्वा यत्स्थानमासीदथः तत्स्थानं आश्रयतु । इतोगमनाय स्थितौ दृष्टान्तः ध्रुवसे ध्रुवाय निवासाय योनिं न योनिं स्थानमिव ॥ १ ॥