आ विश्वे᳚भिः स॒रथं᳚ याहि दे॒वैर्न्य᳚ग्ने॒ होता᳚ प्रथ॒मः स᳚दे॒ह ॥
पदपाठः (Word-by-word)
आ । विश्वे᳚भिः । स॒रथ᳚म् । या॒हि॒ । दे॒वैः । नि । अ॒ग्ने॒ । होता᳚ । प्र॒थ॒मः । स॒द॒ । इ॒ह ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वमध्वरस्य प्रकेतः प्रज्ञापकःसन् महानसि त्वदृते त्वयाविना अमृताः देवाः न मादयन्ते नमाद्यन्ति विश्वेभिः विश्वैर्देवैः सरथं यथा भवति आयाहि च इहास्तीर्णे बर्हिषि प्रथमो मुख्यो होता आह्वातासन् निषद निषीदच ॥ १ ॥