सप्तमं मण्डलम् - सूक्तम् 97

10 ऋचः

ऋषिः: वसिष्ठः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 7.97 - सम्पूर्णम्

1 / 10
ऋक्: 7.97.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
7.97.1
य॒ज्ञे दि॒वो नृ॒षद᳚ने पृथि॒व्या नरो॒ यत्र᳚ देव॒यवो॒ मद᳚न्ति ।
इन्द्रा᳚य॒ यत्र॒ सव᳚नानि सु॒न्वे गम॒न्मदा᳚य प्रथ॒मं वय᳚श्च ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञे । दि॒वः । नृ॒॑सद᳚ने । पृ॒थि॒व्याः । नरः᳚ । यत्र᳚ । दे॒व॒॑यवः᳚ । मद᳚न्ति ।
इन्द्रा᳚य । यत्र᳚ । सव᳚नानि । सु॒न्वे । गम᳚त् । मदा᳚य । प्र॒थ॒मम् । वयः᳚ । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्यज्ञे देवयवोदेवान् कामयमाना नरोनेतारऋत्विजोमदन्ति हष्यंति यत्र यस्मिंश्च सवनानि अभिषोतव्याः सोमाः इन्द्राय इन्द्रार्थं सुन्वे अभिषूयन्ते पृथिव्याः संबन्धिनि नृषदने नृणां नेतॄणां सदनभूते तस्मिन्यज्ञे प्रथमं सर्वेभ्योदेवेभ्यः पूर्वं दिवोद्युलोकात् इन्द्रः गमत् आगच्छतु किमर्थं मदाय मदार्थं सोमं पातुमित्यर्थः तथा वयश्च गन्तारः तदीयाअश्वाश्च गमत् आगच्छन्तु ॥ १ ॥

7.97.2 समानपद
आ दैव्या᳚ वृणीम॒हे॑वां᳚सि॒ बृह॒स्पति᳚र्नो मह॒ आ स᳚खायः ।
यथा॒ भवे᳚म मी॒ळ्हुषे॒ अना᳚गा॒ यो नो᳚ दा॒ता प᳚रा॒वतः᳚ पि॒तेव᳚ ॥
▶ पदपाठः (Word-by-word)
आ । दैव्या᳚ । वृ॒णी॒म॒हे॒ । अवां᳚सि । बृह॒स्पतिः᳚ । नः॒ । म॒हे॒ । आ । स॒खा॒यः॒ ।
यथा᳚ । भवे᳚म । मी॒ळ्हुषे᳚ । अना᳚गाः । यः । नः॒ । दा॒ता । प॒रा॒॑वतः᳚ । पि॒ता॑इ᳚व ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः समानख्यानाः स्तोतारः वयं दैव्या दैव्यानि देवसंबन्धीनि अवांसि रक्षणानि आवृणीमहे अभिभजामहे प्रार्थयामहे नोस्माकं हविः बृहस्पतिः बृहतां पालयिता देवः आमहे महतिर्दानार्थः आमहते आदत्ते लोपस्तआत्मनेपदेष्विति तलोपः योबृहस्पतिः परावतोदू- रदेशात् धनान्याहृत्य पुत्रेभ्यः पितेव नोस्मभ्यं दाताभवती तस्मै मीह्ळषे सेक्रे बृहस्पतये अनागाः अनागसः अनपराधा यथावयं भवेम हे सखायः तथा यूयं परिचरतेति शेषः ॥ २ ॥

7.97.3 समानपद
तमु॒ ज्येष्ठं॒ नम᳚सा ह॒विर्भि᳚ः सु॒शेवं॒ ब्रह्म᳚ण॒स्पतिं᳚ गृणीषे ।
इन्द्रं॒ श्लोको॒ महि॒ दैव्य᳚ः सिषक्तु॒ यो ब्रह्म᳚णो दे॒वकृ᳚तस्य॒ राजा᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । ज्येष्ठ᳚म् । नम᳚सा । ह॒विः॑भिः᳚ । सु॒॑शेव᳚म् । ब्रह्म᳚णः । पति᳚म् । गृ॒णी॒षे॒ ।
इन्द्र᳚म् । श्लोकः᳚ । महि᳚ । दैव्यः᳚ । सि॒स॒क्तु॒ । यः । ब्रह्म᳚णः । दे॒व॑कृ᳚तस्य । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ज्येष्ठं प्रशस्यतमं सुशेवं सुसुकं ब्रह्मणोमन्त्रस्य पतिं पालयितारं एतस्तज्ञं तमु तमेव,देवं नमसा नमस्कारेण हविर्भिश्चरुपुरोडाशादिभिश्च सार्धं गृणीषे गृणे स्तुवे । अपिच महि महान्तमिन्द्रं दैव्यः देवार्हः श्लोकः अस्मदीयः स्तावकोमन्त्रः सिषक्तु सेवतां ब्रह्मणोन्नस्य मन्त्रस्यवा देवकृतस्य देवैः स्तोतृभिः कृतस्य यइन्द्रोब्रह्मणस्पतिर्वा राजा ईश्वरोभवति तमिन्द्रं तं ब्रह्मणस्पतिमिति संबन्धः ॥ ३ ॥

7.97.4 समानपद
स आ नो॒ योनिं᳚ सदतु॒ प्रेष्ठो॒ बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒ यो अस्ति᳚ ।
कामो᳚ रा॒यः सु॒वीर्य᳚स्य॒ तं दा॒त्पर्ष᳚न्नो॒ अति᳚ स॒श्चतो॒ अरि᳚ष्टान् ॥
▶ पदपाठः (Word-by-word)
सः । आ । नः॒ । योनि᳚म् । स॒द॒तु॒ । प्रेष्ठः᳚ । बृह॒स्पतिः᳚ । वि॒श्व॑वा᳚रः । यः । अस्ति᳚ ।
कामः᳚ । रा॒यः । सु॒॑वीर्य᳚स्य । तम् । दा॒त् । पर्ष᳚त् । नः॒ । अति᳚ । स॒श्चतः᳚ । अरि᳚ष्टान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रेष्ठः प्रियतमः सबृहस्पतिः नोस्माकं योनिं स्थानं वेदिलक्शणं आसदतु आसीदतु आगत्योपविशतु योबृहस्पतिः विश्ववारः विश्वैर्वरणीयोस्ति भवति । अपिच रायोधनस्य सुवीर्यस्य शोभनवीर्यस्य च यः कामोस्माकमभिलाषोस्ति तं कामं अस्मभ्यं दात् ददातु काम्यमानं यच्छत्वित्यर्थः । तथा सश्चतः उपद्रवैः संसक्तान् नोस्मानरिष्टानहिंसितान्कृत्वा अति पर्षत् अतिपारयतु शत्रून् ॥ ४ ॥

7.97.5
तमा नो᳚ अ॒र्कम॒मृता᳚य॒ जुष्ट᳚मि॒मे धा᳚सुर॒मृता᳚सः पुरा॒जाः ।
शुचि᳚क्रन्दं यज॒तं प॒स्त्या᳚नां॒ बृह॒स्पति᳚मन॒र्वाणं᳚ हुवेम ॥
▶ पदपाठः (Word-by-word)
तम् । आ । नः॒ । अ॒र्कम् । अ॒मृता᳚य । जुष्ट᳚म् । इ॒मे । धा॒सुः॒ । अ॒मृता᳚सः । पु॒रा॒॑जाः ।
शुचि᳚॑क्रन्दम् । य॒ज॒तम् । प॒स्त्या᳚नाम् । बृह॒स्पति᳚म् । अ॒न॒र्वाण᳚म् । हु॒वे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तं सर्वत्रभोक्तव्यतयाप्रसिद्धं अमृताय अमरणत्वाय जीवनाय जुष्टं पर्याप्तमर्कमर्चनसाधनमन्नं पुराजाः पुराजाताइमे अमृतासः अमरणादेवाः बृहस्पतेराज्ञया नोस्मभ्यं आधासुः प्रदद्युः । वयं च शुचिक्रन्दं शुद्धस्तोत्रं पस्त्यानां पस्त्यमितिगृहनाम तेन तद्वन्तोलक्ष्यन्ते गृहिणां यजतं यष्टव्यं अनर्वाणं अप्रत्यृतं केनाप्यप्रतिगतं बृहस्पतिं बृहतां पालकं देवं हुवेम आह्वयाम स्तुयेम वा ॥ ५ ॥

7.97.6
तं श॒ग्मासो᳚ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं᳚ सह॒वाहो᳚ वहन्ति ।
सह᳚श्चि॒द्यस्य॒ नील᳚वत्स॒धस्थं॒ नभो॒ न रू॒पम᳚रु॒षं वसा᳚नाः ॥
▶ पदपाठः (Word-by-word)
तम् । श॒ग्मासः᳚ । अ॒रु॒षासः᳚ । अश्वाः᳚ । बृह॒स्पति᳚म् । स॒ह॒॑वाहः᳚ । व॒ह॒न्ति॒ ।
सहः᳚ । चि॒त् । यस्य᳚ । नील᳚॑वत् । स॒ध॑स्थ᳚म् । नभः᳚ । न । रू॒पम् । अ॒रु॒षम् । वसा᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

शग्मासः शग्माः सुखकराः शक्क्तावा अरुषासः आरोचमानाः सहवाहः संहत्यवाहकाअश्वाः तं वृहस्पतिं वहन्ति वहन्तु । यस्य बृहस्पतेः सहश्चित् बलंच भवति नीलवत् नीलं निलयोनिवासः तद्युक्तं सधस्थं सहस्थानंच यस्य तं बृहस्पतिमित्यन्वयः कीदृशाअश्वाः नभोन आदित्यमिव अरुषं आरोचमानं रूपं वसानाः धारयन्तः ॥ ६ ॥

7.97.7
स हि शुचि᳚ः श॒तप᳚त्र॒ः स शु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रः स्व॒र्षाः ।
बृह॒स्पति॒ः स स्वा᳚वे॒श ऋ॒ष्वः पु॒रू सखि᳚भ्य आसु॒तिं करि᳚ष्ठः ॥
▶ पदपाठः (Word-by-word)
सः । हि । शुचिः᳚ । श॒त॑प᳚त्रः । सः । शु॒न्ध्युः । हिर᳚ण्य॑वाशीः । इ॒षि॒रः । स्वः॒॑साः ।
बृह॒स्पतिः᳚ । सः । सु॒॑आ॒वे॒शः । ऋ॒ष्वः । पु॒रु । सखि᳚॑भ्यः । आ॒॑सु॒तिम् । करि᳚ष्ठः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहि सखलु बृहस्पतिः शुचिः शुद्धः शतपत्रः बहुविधवाहनः सएवशुन्ध्युः सर्वेषां शोधयिता हिरण्यवाशीः वाशीति वाङ्गम हितरमणी- यवाक् यद्वा वाशीभिस्तक्षताश्मन्मयीभिरिति निगमात् । वाशी आयुधं स्वर्णमयायुधः इषिरोगन्ता अभ्येषणीयोवा स्वर्षाः स्वर्गस्यसंभक्ता यद्वा सरणशीलस्योदकस्य सनिता दाता सएव बृहस्पतिः स्वावेशः सुनिवासः ऋष्वः दर्शनीयः ईदृशोदेवः । सखिभ्यः स्तोतृभ्यः पुरु बहुलं आसुतिमन्नं करिष्ठः कर्तृतमो दातृतमोभवति ॥ ७ ॥

7.97.8 समानपद
दे॒वी दे॒वस्य॒ रोद᳚सी॒ जनि᳚त्री॒ बृह॒स्पतिं᳚ वावृधतुर्महि॒त्वा ।
द॒क्षाय्या᳚य दक्षता सखाय॒ः कर॒द्ब्रह्म᳚णे सु॒तरा᳚ सुगा॒धा ॥
▶ पदपाठः (Word-by-word)
दे॒वी इति᳚ । दे॒वस्य᳚ । रोद᳚सी॒ इति᳚ । जनि᳚त्री॒ इति᳚ । बृह॒स्पति᳚म् । व॒वृ॒ध॒तुः॒ । म॒हि॒॑त्वा ।
द॒क्षाय्या᳚य । द॒क्ष॒त॒ । स॒खा॒यः॒ । कर᳚त् । ब्रह्म᳚णे । सु॒तरा᳚ । सु॒॑गा॒धा ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवी देव्यौ दानादिगुणयुक्ते देवस्य बृहस्पतेर्जनित्री जनयित्र्यौ रोदसी द्यावापृथिव्यौ महित्वा महत्वेन युक्तं बृहस्पतिं ववृधतुः वर्धया- मासतुः हे सखायोयूयमपि दक्षाय्याय वर्धनीयाय द्वितीयार्थे चतुर्थी वर्धनीयं तं बृहस्पतिं दक्षत वर्धयत । सच बृहस्पतिः ब्रह्मणे बृंहिताय प्रभूतायान्नाय तदर्थं सुतरा सुतरणानि सुखेन तरणीयानि सुगाधा सुखेनावगाहनीयानि उदकानि करत् करोतु ॥ ८ ॥

7.97.9
इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ अकारि ।
अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒॑वृ॒क्तिः । ब्रह्म᳚ । इन्द्रा᳚य । व॒ज्रिणे᳚ । अ॒का॒रि॒ ।
अ॒वि॒ष्टम् । धियः᳚ । जि॒गृ॒तम् । पुर᳚म्॑धीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा᳚म् । अरा᳚तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ब्रह्मणस्पते तुभ्यं वज्रिणे वज्रवतेइन्द्राय च वां युवाभ्यां तादर्थ्ये चतुर्थी ब्रह्म मंत्ररूपा इयं सुवृक्तिः सुप्रवृत्तास्तुतिः अकारि मया कृताभूत् तौ युवां धियोस्मदीयानि कर्माणि अविष्टं रक्षतम् । तथा पुरन्धीः पुरुधीः बह्वीःस्तुतीः जिगृतं निगिरतं शृणुतमितियावत् । अर्यः अरीः अभिगंत्रीः वनुषां संभक्तॄणामस्माकं अरातीः शत्रुसेनाः जजस्तं उपक्षपयतम् ॥ ९ ॥ तृतीये सवने उक्थ्ये ब्राह्मणाच्छंसिनो बृहस्पतेयुवमिति शस्त्रयाज्या सूत्रितञ्च-बृहस्पतेयुवमिन्द्रश्चवस्वइति याज्येति । वाजपेयेति- रिक्तोक्थ्यस्य एषैवपरिधानीया सूत्रितञ्च-बृहस्पतेयुवमिन्द्रश्चवस्वइति परिधानीयेति ।

7.97.10
बृह᳚स्पते यु॒वमिन्द्र᳚श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे उ॒त पार्थि᳚वस्य ।
ध॒त्तं र॒यिं स्तु᳚व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
बृह᳚स्पते । यु॒वम् । इन्द्रः᳚ । च॒ । वस्वः᳚ । दि॒व्यस्य᳚ । ई॒शा॒थे॒ इति᳚ । उ॒त । पार्थि᳚वस्य ।
ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये᳚ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते त्वञ्च इन्द्रश्च युवं युवां दिव्यस्य दिविभवस्य वस्वोवसुनोधनस्य उतापि च पार्थिवस्य पृथिव्यां भवस्य धनस्य ईशाथे अतः कारणात् स्तुवते स्तोत्रं कुर्वते कीरये स्तोतृनामैतत् स्तोत्रे रयिं धनं धत्तं दत्तं चिदिति पूरणः अन्यद्गतम् ॥ १० ॥

अध्वर्यवइति सप्तर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रं सप्तस्यैन्द्राबार्हस्पत्या तथाचानुक्रान्तम्-अध्वर्यवः सप्तोक्तदेवतान्त्येति । पूर्व- सूक्तेनसहोक्तोविनियोगः ।