श्रवणम्

7.97.3 समानपद
तमु॒ ज्येष्ठं॒ नम᳚सा ह॒विर्भि᳚ः सु॒शेवं॒ ब्रह्म᳚ण॒स्पतिं᳚ गृणीषे ।
इन्द्रं॒ श्लोको॒ महि॒ दैव्य᳚ः सिषक्तु॒ यो ब्रह्म᳚णो दे॒वकृ᳚तस्य॒ राजा᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । ज्येष्ठ᳚म् । नम᳚सा । ह॒विः॑भिः᳚ । सु॒॑शेव᳚म् । ब्रह्म᳚णः । पति᳚म् । गृ॒णी॒षे॒ ।
इन्द्र᳚म् । श्लोकः᳚ । महि᳚ । दैव्यः᳚ । सि॒स॒क्तु॒ । यः । ब्रह्म᳚णः । दे॒व॑कृ᳚तस्य । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ज्येष्ठं प्रशस्यतमं सुशेवं सुसुकं ब्रह्मणोमन्त्रस्य पतिं पालयितारं एतस्तज्ञं तमु तमेव,देवं नमसा नमस्कारेण हविर्भिश्चरुपुरोडाशादिभिश्च सार्धं गृणीषे गृणे स्तुवे । अपिच महि महान्तमिन्द्रं दैव्यः देवार्हः श्लोकः अस्मदीयः स्तावकोमन्त्रः सिषक्तु सेवतां ब्रह्मणोन्नस्य मन्त्रस्यवा देवकृतस्य देवैः स्तोतृभिः कृतस्य यइन्द्रोब्रह्मणस्पतिर्वा राजा ईश्वरोभवति तमिन्द्रं तं ब्रह्मणस्पतिमिति संबन्धः ॥ ३ ॥