दे॒वी दे॒वस्य॒ रोद᳚सी॒ जनि᳚त्री॒ बृह॒स्पतिं᳚ वावृधतुर्महि॒त्वा ।
द॒क्षाय्या᳚य दक्षता सखाय॒ः कर॒द्ब्रह्म᳚णे सु॒तरा᳚ सुगा॒धा ॥
द॒क्षाय्या᳚य दक्षता सखाय॒ः कर॒द्ब्रह्म᳚णे सु॒तरा᳚ सुगा॒धा ॥
पदपाठः (Word-by-word)
दे॒वी इति᳚ । दे॒वस्य᳚ । रोद᳚सी॒ इति᳚ । जनि᳚त्री॒ इति᳚ । बृह॒स्पति᳚म् । व॒वृ॒ध॒तुः॒ । म॒हि॒॑त्वा ।
द॒क्षाय्या᳚य । द॒क्ष॒त॒ । स॒खा॒यः॒ । कर᳚त् । ब्रह्म᳚णे । सु॒तरा᳚ । सु॒॑गा॒धा ॥
द॒क्षाय्या᳚य । द॒क्ष॒त॒ । स॒खा॒यः॒ । कर᳚त् । ब्रह्म᳚णे । सु॒तरा᳚ । सु॒॑गा॒धा ॥
सायणभाष्यम् (Sayana Commentary)
देवी देव्यौ दानादिगुणयुक्ते देवस्य बृहस्पतेर्जनित्री जनयित्र्यौ रोदसी द्यावापृथिव्यौ महित्वा महत्वेन युक्तं बृहस्पतिं ववृधतुः वर्धया- मासतुः हे सखायोयूयमपि दक्षाय्याय वर्धनीयाय द्वितीयार्थे चतुर्थी वर्धनीयं तं बृहस्पतिं दक्षत वर्धयत । सच बृहस्पतिः ब्रह्मणे बृंहिताय प्रभूतायान्नाय तदर्थं सुतरा सुतरणानि सुखेन तरणीयानि सुगाधा सुखेनावगाहनीयानि उदकानि करत् करोतु ॥ ८ ॥