सप्तमं मण्डलम् - सूक्तम् 41

7 ऋचः

ऋषिः: वसिष्ठः देवता: लिङ्गोक्तदेवताः छन्दः: जगती

सूक्तम् 7.41 - सम्पूर्णम्

1 / 7
ऋक्: 7.41.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
7.41.1
प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु᳚णा प्रा॒तर॒श्विना᳚ ।
प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म᳚ण॒स्पतिं᳚ प्रा॒तः सोम᳚मु॒त रु॒द्रं हु᳚वेम ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः । अ॒ग्निम् । प्र॒तः । इन्द्र᳚म् । ह॒वा॒म॒हे॒ । प्र॒तः । मि॒त्रावरु᳚णा । प्रा॒तः । अ॒श्विना᳚ ।
प्र॒तः । भग᳚म् । पू॒षण᳚म् । ब्रह्म᳚णः । पति᳚म् । प्र॒तः । सोम᳚म् । उ॒त । रु॒द्रम् । हु॒वे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रातरुषःकाले अग्निंदेवं हवामहे वयं स्तोतार आह्वयामः तथा प्रातःकाले इन्द्रं हवामहे तथा मित्रावरुणौ अहोरात्राभिमानिनौ देवौ प्रा- तर्वयं हवामहे तथा अश्विनौ देवानां भिषजौ प्रातर्वयं हवामहे तथा प्रातर्भगं देवं पूषणं देवं ब्रह्मणस्पतिं मंत्राभिमानिनमेतत्संज्ञकं च आह्वयामः तथा प्रातः सोममेतत्संज्ञकं देवं उतापिच रुद्रं देवं च हुवेम आह्वयामः ॥ १ ॥

7.41.2
प्रा॒त॒र्जितं॒ भग᳚मु॒ग्रं हु᳚वेम व॒यं पु॒त्रमदि᳚ते॒र्यो वि᳚ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य᳚मानस्तु॒रश्चि॒द्राजा᳚ चि॒द्यं भगं᳚ भ॒क्षीत्याह᳚ ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः॒॑जित᳚म् । भग᳚म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि᳚तेः । यः । वि॒॑ध॒र्ता ।
आ॒ध्रः । चि॒त् । यम् । मन्य᳚मानः । तु॒रः । चि॒त् । राजा᳚ । चि॒त् । यम् । भग᳚म् । भ॒क्षि॒ । इति᳚ । आह᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योभगोदेवः विधर्ता विश्वस्यजगतोधारकः जितं जयशीलं उग्रं उद्गूर्णं अदितेः पुत्रं भगं देवं प्रातःकालएव वयं हुवेम आह्वयामः । आध्रश्चित् दरिद्रोपि स्तोता यं भगं देवं मन्यमानः स्तुवन् भगं भजनीयं धनं भक्षि भज विभज मह्यं देहिइत्याह ब्रवीति तुरश्चित् तुरतिर्ग- तिकर्मा प्राप्तधनोपि राजाचित् समर्थोपि जनः यं भगं देवं भजनीयं धनं मह्यं भक्षि देहीत्याह तं भगं प्रातरेव वयं हुवेमेति संबन्धः ॥ २ ॥

7.41.3 समानपद
भग॒ प्रणे᳚त॒र्भग॒ सत्य᳚राधो॒ भगे॒मां धिय॒मुद᳚वा॒ दद᳚न्नः ।
भग॒ प्र णो᳚ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि᳚र्नृ॒वन्त᳚ः स्याम ॥
▶ पदपाठः (Word-by-word)
भग᳚ । प्रने᳚त॒रिति॒ प्र॑ने᳚तः । भग᳚ । सत्य᳚॑राधः । भग᳚ । इ॒माम् । धिय᳚म् । उत् । अ॒व॒ । दद᳚त् । नः॒ ।
भग᳚ । प्र । नः॒ । ज॒न॒य॒ । गोभिः᳚ । अश्वैः᳚ । भग᳚ । प्र । नृ॑भिः᳚ । नृ॒॑वन्तः᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे भगदेव त्वं प्रणेतः प्रकर्षेणनेतासि तादृशप्रणेतः हे भग त्वं सत्यराधः सत्यधनोसि तादृशसत्यराधः हे भग त्वं नोस्मभ्यं ददत् कामान् प्रयच्छन् इमामस्मदीयां धियं स्तुतिं उदव उद्रक्ष सफलयुक्तांकुरु । हे भग त्वं गोभिरश्वैश्चनोस्मान् प्रजनय प्रोद्भूतान् कुरु हे भग त्वत्प्र- सादात् वयं नृभिर्नेतृभिः पुत्रादिभिर्नृवन्तः मनुष्यवन्तः प्रस्याम प्रभवेम ॥ ३ ॥

7.41.4
उ॒तेदानीं॒ भग᳚वन्तः स्यामो॒त प्र᳚पि॒त्व उ॒त मध्ये॒ अह्ना᳚म् ।
उ॒तोदि᳚ता मघव॒न्त्सूर्य᳚स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ॥
▶ पदपाठः (Word-by-word)
उ॒त । इ॒दानी᳚म् । भग᳚॑वन्तः । स्या॒म॒ । उ॒त । प्र॒॑पि॒त्वे । उ॒त । मध्ये᳚ । अह्ना᳚म् ।
उ॒त । उत्॑इ᳚ता । म॒घ॒॑व॒न् । सूर्य᳚स्य । व॒यम् । दे॒वाना᳚म् । सु॒॑म॒तौ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच इदानीं वयं भगवन्तः स्याम हे भग भगेन त्वया स्वामिनायुक्ता भवेम यद्वा भगवन्तोधनवन्तः स्याम उतापिच प्रपित्वे अह्नां प्राप्ते पूर्वाह्वे भगवन्तः स्याम उतापिच अह्नां दिवसानां मध्ये मह्याह्ने भगवन्तः स्याम उतापिच हे मघवन् धनवन् भगदेव सूर्यस्य सर्वस्य प्रेरकस्य देवस्य उदिता उदितौ उदयेसति वयं त्वदनुग्रहात् देवानामिन्द्रादीनां सुमतौ अनुग्रहबुद्धौ स्याम भवेम ॥ ४ ॥

7.41.5
भग᳚ ए॒व भग᳚वा{4} अस्तु देवा॒स्तेन᳚ व॒यं भग᳚वन्तः स्याम ।
तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ᳚वे॒ह ॥
▶ पदपाठः (Word-by-word)
भगः᳚ । ए॒व । भग᳚॑वान् । अ॒स्तु॒ । दे॒वाः॒ । तेन᳚ । व॒यम् । भग᳚॑वन्तः । स्या॒म॒ ।
तम् । त्वा॒ । भ॒ग॒ । सर्वः᳚ । इत् । जो॒ह॒वी॒ति॒ । सः । नः॒ । भ॒ग॒ । पु॒रः॒॑ए॒ता । भ॒व॒ । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः भगोदेवएव भगवान् धनवानस्तु तेन भगेन देवेन वा वयं भगवन्तः स्याम धनवन्तोभवेम हे भग तं प्रसिद्धं त्वा त्वां सर्वइत् सर्वएव जनः जोहवीति भृशं पुनःपुनर्वा आह्वयति हे भगदेव स त्वं इहास्मिन्यज्ञे नोस्माकं पुरएता पुरोगन्ता भव ॥ ५ ॥

7.41.6
सम᳚ध्व॒रायो॒षसो᳚ नमन्त दधि॒क्रावे᳚व॒ शुच᳚ये प॒दाय᳚ ।
अ॒र्वा॒ची॒नं व᳚सु॒विदं॒ भगं᳚ नो॒ रथ᳚मि॒वाश्वा᳚ वा॒जिन॒ आ व᳚हन्तु ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒ध्व॒राय᳚ । उ॒षसः᳚ । न॒म॒न्त॒ । द॒धि॒क्रावा᳚॑इव । शुच᳚ये । प॒दाय᳚ ।
अ॒र्वा॒ची॒नम् । व॒सु॒॑विद᳚म् । भग᳚म् । नः॒ । रथ᳚म्॑इव । अश्वाः᳚ । वा॒जिनः᳚ । आ । व॒ह॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुचये शुद्धाय गमनयोग्याय पदाय स्थानाय दधिक्रावेव यथा तथा अश्वाः उषसोउषोदेवता अध्वराय अस्मदीयाय यागाय संनमन्त संग- च्छन्तु वाजिनोवेगवन्तोश्वाः रथमिव रथं यथा तथा उषसः अर्वाचीनं अस्मदभिमुखं वसुविदं धनस्य प्रापकं भगं देवं नोस्मान् प्रति आवहन्तु आनयन्तु ॥ ६ ॥

7.41.7
अश्वा᳚वती॒र्गोम᳚तीर्न उ॒षासो᳚ वी॒रव᳚ती॒ः सद᳚मुच्छन्तु भ॒द्राः ।
घृ॒तं दुहा᳚ना वि॒श्वत॒ः प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
अश्व᳚॑वतीः । गो॑म᳚तीः । नः॒ । उ॒षसः᳚ । वी॒र॑व᳚तीः । सद᳚म् । उ॒च्छ॒न्तु॒ । भ॒द्राः ।
घृ॒तम् । दुहा᳚नाः । वि॒श्वतः᳚ । प्र॑पी᳚ताः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भद्राः भजनीयाः उषसः उषोदेवता अश्वावतीरश्ववत्यः अश्वसहिताः सत्यः गोमतीर्गोमत्यश्च वीरवतीर्वीरवत्यः पुत्रादिजनोपेताश्च भवंत्यः नोस्मभ्यं सदं सर्वदा उच्छन्तु व्युच्छन्तु नैशंतमोविवासयन्तु । कीदृश्यः घृतमुदकं दुहानाः सिंचंत्यः विश्वतः सर्वैर्गुणैः प्रपीताः प्रवृद्धाः एवंभूताउषसस्तम उच्छन्तु अस्मिन् सूक्ते प्रतिपादिताः हे सर्वे देवाः यूयं नोस्मान् सदा सर्वदा स्वस्तिभिः कल्याणैः पात पालयत ॥ ७ ॥

प्रब्रह्माणइति षळृचं नवमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवं अत्रानुक्रान्तं-प्रब्रह्माणः षड्वैश्वदेवंत्विति । सूक्तविनियोगोलैंगिकः । तृतीये छन्दोमे प्रउगशस्त्रे प्रब्रह्माणइति वैश्वदेवस्तृचः सूत्रितंच-प्रब्रह्माणोअंगिरसोनक्षन्त सरस्वतीं देवयन्तोहवन्तइति ।